________________
52 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 तमासाद्य क्रमेण कार्य कुर्यादिति चेत, न, सहकारिकारणस्य नित्येऽकिंचितकरत्वात, अकिंचित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते, अध्यक्षविरोधात् । न ह्येककालं सकलाः क्रियाःप्रारभमाणः कश्चिदुपलभ्यते, करोतु वा, तथाप्याद्यक्षणे एव सकलक्रियापरिसमाप्तेद्वितीयादिक्षणेष्वकुर्वाणस्यानित्यता बलादाढौकते, करणाकरणयोरेकस्मिन् विरुद्धत्वादिति । नित्यवादी पुनरेवं प्रमाणयति-सर्वं नित्यम्, सत्त्वात्, क्षणिके सदसत्कालयोरर्थक्रियाविरोधात्, तल्लक्षणं सत्त्वं नावस्थां बध्नातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वं साधयति । तथा हि-क्षणिकोऽर्थः सद् वा कार्यं कुर्यात्, असद् वा, गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकरणभावप्राप्त्यातिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्तिविकलत्वात्, अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन, विशेषा. भावादिति । तदेवमेकान्तद्वयेऽपि ये ये हेतवस्ते ते युक्त : समानतया विरुद्धं न व्यभिचरन्ति, अविचारितरमणीयतया मुग्धजनध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिकाः, सर्ववस्तुधर्माणां वस्तुतोऽनेकान्तप्रतिबद्धत्वादिति । तस्मादमी सर्व एव हेतवः सन्तोऽनेकान्तमन्तरेण नोपपद्यन्ते, इति तमेव प्रतिपादयितुमीशते । विमूढबुद्धिभिः पुनः विपक्षसाधनार्थमुपन्यस्यमाना विवक्षयासिद्धविरुद्धानैकान्तिकतामाबिभ्रतीति स्थितम् ।।२३।। तदेवं हेत्वाभासान् प्रतिपाद्य दृष्टान्तलक्षणव्युदस्तान् दृष्टान्ताभासानाह--
साधफेरणात्र दृष्टान्तदोषा न्यायविदीरिताः ।
अपलक्षरण हेतूत्थाः साध्यादिविकलादयः ॥२४॥ साधनं साध्याक्रान्तमुपदर्शयितुमभिप्रेतं यस्मिस्तत् साधर्म्यम् तेन, अत्र व्यतिकरे, दुष्यन्त इति दोषाः दृष्टान्ता एव दोषाः दृष्टान्तदोषाः, दृष्टान्ताभासा इत्यर्थः, न्यायविदीरिता विद्वद्भिर्गदिताः । साध्यं गम्यम्, आदिशब्दात् साधनोभयपरिग्रहः, तद्विकलास्तच्छन्याः, आदिशब्दात् संदिग्धसाध्यसाधनोभयधर्मा गृह्यन्ते । किंभूता एते इत्याह-अपगतं लक्षणं येभ्यस्ते तथा च ते हेतवश्च तेभ्य उत्थानं येषां तेऽपलक्षणहेतूत्थाः । इदं च प्रायिकं विशेषणम्, सम्यग्हेतावपि वक्तृदोषवशात् दृष्टान्ताभासतोपपत्तेः। यथा-नित्यानित्यः शब्दः, श्रावणत्वात् घटवदित्यादि । तत्र साध्य विकलो यथा-भ्रान्तमनुमानम्, प्रमाणत्वात्, प्रत्यक्षवत् । प्रत्यक्षस्य सत्त्वं निवर्तयति । ननु चार्थक्रियासामर्थ्य मेव सत्त्वं नान्यत्, तथा च ज्ञानश्री:-"यदि नाम प्रतिदर्शनं सत्त्वभेदस्तथाऽपीहार्थक्रियासामर्थ्यमेव सत्त्वमभिप्रेतमिति," ततश्चार्थक्रियासामर्थ्यत्वयोर्घटकुम्भयोरिव व्यावृत्तिकृतस्य भेदस्याभावात् कथं व्याप्यव्यापकभावः । उच्यते, कारणस्य कार्यात्प्राग्भावित्वमर्थक्रियासामर्थ्य भवनधर्मकत्वमात्रं तु सत्त्वमिति व्यक्तो व्यावृत्तिकृतो भेदः । यत्तूक्तम्-अर्थक्रियासामर्थ्य मेव सत्त्वमिति, तदर्थक्रियासामर्थ्य व्यभिचारित्वात् सत्त्वस्येति ।।२३॥
संदिग्धसाध्यधर्मेति । संदिग्धश्चासौ साध्यश्च संदिग्धसाध्यः संदिग्धसाध्यो धर्मो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org