________________
NYAYAVATARAN
51 बुद्धयाध्यारोप्य हेतुतयोच्यमानं नासिद्धतयोद्भावनीयम्, विशेषाभावात् । अचाक्षुषत्वव्यच्छेदेन चाक्षुषत्वं बुद्धयाध्यारोपयितुं पार्यते, न यथा कथंचित्, न चासो शद्धेऽस्ति, अचक्षुाह्यत्वात् तस्य, तेनायमदोष इति चेत्, कोऽयमचाक्षुषत्वव्यवच्छेदो नाम, व्यवच्छेदमात्रं नीरूपं व्यवच्छिन्नं वा स्वलक्षणं, व्यवच्छेदिका वा बुद्धिः स्वांशमग्नापि बहिर्वस्तुग्रहणरूपतया प्लवमाना, नापरो वस्तुधर्मो यत्र भेदाभेदविकल्पद्वारेण दूषणं दित्सुर्भवानिति चेत्, तर्हि स शद्धे नास्ति इति कैषा भाषा, एवं हि नभःपुण्डरीकं तत्र नास्तीति सत्त्वादिकमपि कल्पयितुं न शक्यमिति प्रसज्येत । किं च। ते साधनधर्मा धर्मिणि भवन्तोऽपि न भवदर्शने प्रतीतिमारोहन्ति, प्रत्यक्षस्य विकल्पविकलतया धर्मनिर्णयशून्यत्वात्, तदुत्तरकालभाविन्या वासनावोधजन्याया विकल्पबुद्धेः स्वांशग्रहणपर्यवसितशरीरत्वेन बहिः स्वलक्षणे प्रवेशाभावात्, ततश्चाप्रतीतत्वात् सर्वस्यासिद्धत्वम् । नित्यकान्तेऽपि धर्मिणोऽत्यन्तव्यतिरिक्तानामपारमाथिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतत्वादसिद्धता द्रष्टव्या, धर्मिणोऽविनि ठितरूपाणां पारमार्थिकानां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्वत्वेन निह्नोतुमशक्यत्वादिति । तथा विरुद्धतापि पक्षद्वयेऽपि सर्वसाधनधर्माणामुन्नेया, अनेकान्तप्रतिबद्धस्वभावत्वेन तत्साधनप्रवणत्वात् । एतच्चोत्तरे वक्ष्यामः । एवं पक्षद्वयेऽपि निर्दिश्यमानाः सर्व एव हेतवोऽनैकान्तिकतामात्मसात्कुर्वन्ति, परस्परविरुद्धाव्यभिचारितत्वात्, समानयुक्त्युपन्यासेन विपक्षेऽपि दर्शयितुं शक्यत्वात् । तथा हि-अनित्यवादी नित्यवादिनं प्रति प्रमाणयति-सर्व क्षणिकम्, सत्त्वात्, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात्, ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदितिक्षणिकत्वसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियायां क्रमेण प्रवर्तितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां प्रवृत्तेः, अन्यथा पूर्वार्थक्रियाकारणाविरामप्रसङ्गात्, तत्स्वभावप्रच्यवे च नित्यता अपयाति, अतादवस्थ्यस्यानित्यलक्षणत्वात् । नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत्, पश्चात् यथा--एकान्तसुखदा मुक्तिरिति । असाविति अचाक्षुषत्वपवच्छेदः । व्यवच्छेदमात्रमित्यादि । अमुना विकल्पत्रयेण चेच्छब्दपर्यन्तेन जैन एव बौद्धाभिप्रायमाशङ्कते । नीरूपं तुच्छम् । स्वलक्षणं घटादि । अयं घटादिरचाक्षुषो न भवति, इति घटादिकमचाक्षुषेभ्यो व्यवच्छेदयन्ती विकल्पिका बुद्धिः स्वांशमग्नापि सर्वचित्तचत्तानामात्मसंवेदनमिति स्वज्ञानाद्वा ग्राहिकापि वस्तुनो वस्तुनि विकल्पानामसंभवः, तथापि अनुभवादिजन्यत्वेन बहिरर्थ ग्राहकतया स्वलक्षणजलस्योपरि तरन्ती। स इति । त्रिविधोऽपि अचाक्षुषत्वव्यवच्छेदः । कैषा भाषेति । किम आक्षेपकत्वात् अकिचित्कारीत्यर्थः । अकिंचित्करत्वमेवातिप्रसङ्गद्वारेण व्यनक्ति-एवं होत्यादि । यथा गगनेन्दीवरं शब्दे नास्तीति सत्त्वादिकमपि तत्र मा भूदिति न किंचित् । एवं तुच्छ व्यवछेदमात्र सर्वथा भिन्नं स्व नक्षणं वस्त्वसंस्पर्शिनी विकल्पबुद्धिश्च शब्दे नास्तीति चाक्षुषत्वमपि तत्र न इत्यप्यसारमेवेति भावः । नित्यैकान्त इत्यादि । धर्मिणोऽत्यन्तव्यतिरिक्तानामिति नैयायिकवैशेषिकाभिप्रायेण । अपारमार्थिकानां वेति अद्वैतवाद्यभिप्रायेण । ततोऽर्थक्रिया व्यावर्तमानेत्यादि । अक्षणिकाक्रमयोगपद्यनिवृत्त्यार्थक्रियाकारित्वं वर्तमानं सत्स्वव्याप्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org