________________
50
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 संदेहो दोलायमानता, विपर्यासो वैपरीत्यनिर्णयः, अप्रतीतिश्च संदेहश्च विपर्यासश्चेति द्वन्द्वः, पश्चात् तदा सह तत्पुरुषः तैस्तदप्रतीतिसंदेहविपर्यासः, तदाभता आभानमाभा तस्येव सम्यगहेतोरिवाभा अस्येति तदाभस्तद्भावः तत्ता, हेत्वाभासता भवतीत्यर्थ ।।२२।। अधुना येन लक्षणेन यन्नामा हेत्वाभासो भवति तद्दर्शयति
प्रसिद्धस्त्वप्रतीतो यो योऽन्यथैवोपपद्यते ।
विरुद्धो योऽन्यथाप्यत्र युक्तोऽनकान्तिकः स तु ॥२३॥ यः कश्चिदप्रतीतः प्रतीत्या अगोचरीकृतोऽनिश्चितः सोऽसिद्धनामा हेत्वाभासः । तुशब्दः त्रयस्यापि भेदोद्द्योतकः । यस्त्वन्यथैव साध्यं विनैव, विपक्ष एवेति यावत , उपपद्यते संभवति स विरुद्धाभिधानः । यः पुनरन्यथाऽपि साध्यविपर्ययेणापि युक्तो घटमानकः, अपिशब्दात् साध्येनापि, सोऽत्र व्यतिकरे अनेकान्तिकसंज्ञो ज्ञातव्य इति । तत्र प्रतिप्राणिप्रसिद्धप्रमाणप्रतिष्ठितानेकान्तविरुद्धबुद्धिभिः कणभक्षाक्षपादबुद्धादिशिष्यकैरुपन्यस्यमानाः सर्व एव हेतवः, तद्यथा-एकान्तेन अनित्यः शब्दो नित्यो वा, सत्त्वात , उत्पत्तिमत्त्वात्, कृतकत्वात्, प्रत्यभिज्ञायमानत्वात्-इत्यादयो विवक्षयासिद्धविरुद्धानकान्तिकतां स्वीकुर्वन्ति इत्यवगन्तव्यम् । तथा हि-अनित्यकान्ते तावदसिद्धाः सर्व एव हेतवः, चाक्षुषत्ववत् तेषां ध्वनावविद्यमानत्वात असदादिव्यवच्छेदेनालीकसंवति विकल्पितत्वात्, पारमार्थिकत्वे त्वेकस्यानेकरूपापत्त्यानेकान्तवादापत्तेः, कल्पनारचितसत्ताकानां च सर्वशक्तिविरहरूपतया निःस्वभावत्वात , तथापि तेषां साधनत्वे साध्यमपि निःस्वभावमिति खरविषाणं शशविषाणस्य साधनमापद्यत इति शोभनः साध्यसाधनव्यवहारः । सर्व एवायमनुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिन्यायेन न बहिः सदसत्त्वमपेक्षते, तेनायमदोष इति चेत्, एवं तर्हि चाक्षुषत्वमपि शब्दे
तस्येत्यादि । तस्यान्यथानुपपन्नत्वस्य । इहायं भावार्थ:--विद्यमाने हेतोवन्यथानुपन्नत्वस्य संदेहे अनैकान्तिकता, विपर्यासे विरुद्धता, तस्मात् पारिशेष्यात् अत्र हेतोरसत्तायां संदेहे वान्यथानुपपन्नत्वस्याप्रतीतिः । तथा चासिद्धत्वलक्षणमन्यत्र-असत्सत्तानिश्चयोऽप्रसिद्ध इति असन्तौ सत्तानिश्चयो यस्मेति विग्रहः, अत एवानेतनकारिकायां सूत्रकारोऽपि वक्ष्यतिप्रसिद्धस्त्वप्रतीतो य इति । दोलायमानतेति । दोलोऽन्दोलकः, उभयपक्षगामित्वेन तद्वदाचरन् संदेहोऽपि दोलायमानस्तस्य भावः तत्ता ॥२२॥
व्यतिकरे इति । प्रस्तावे। कणभक्षेत्यादि । करणभक्षकः कणादापरनामा वैशेषिक:, प्रक्षपादो नैयायिकानामाद्याचार्यवर्यः, बुद्धः सुगतः, प्रादिशब्दात् सांख्यादिपरिग्रहः, तेषां कुत्सिता अल्पा वा शिष्या: शिष्यकाः प्रशस्तपादोद्दयोतकरधर्मकीर्तीश्वरकृष्णादयस्तैः । सत्त्वावित्यादि । यथासंभवं नित्यानित्यत्वयोरमी हेतवो योज्याः । तथा हि ---सत्त्वं स्वाभिप्रायेणानित्यत्वे च साध्ये हेतुः, उत्पत्तिमत्त्वं कृतकत्वं चानित्यत्वे एव, प्रत्यभिज्ञायमानत्वं तु नित्यत्वे एवेति । असवादीति । प्रादिशब्दादनुत्पन्नत्वादिपरिग्रहः । अनिरूपिततत्त्वार्था प्रतीतिः संवृतिर्मता। सा च यद्यपि सर्वापि अलीकैव, तथापि अलीकेति स्वरूपविशेषणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org