________________
NYAYAVATARAḤ
दृष्टान्तोदाहृतिरिति न्यायविद्वांसो विदुरवबुध्यन्त इति । इह च प्रकरणे शेषावयवानामुपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्त रुचि सत्त्वानुग्रहपरत्वादस्य यद्यपि साक्षाल्लक्षणं नोक्तम्, तथाप्यत एव प्रतिपादितावयवत्रयाद् बुद्धिमद्भिरुन्नेयम् ; यतोऽवयवापेक्षया जघन्यमध्यमोत्कृष्टास्तिस्रः कथा भवन्ति । तत्र हेतु प्रतिपादनमात्रं जघन्या । द्वयाद्यवयवनिवेदनं मध्यमा । संपूर्णदशावयवकथनमुत्कृष्टा । तत्रेह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्टे अर्थतः सूचयति, तत्सद्भावस्य प्रमाणसिद्धत्वादिति
॥२०॥
एवं पक्षादिलक्षणं प्रतिपाद्येदानीं हेयज्ञाने सत्युपादेयं विविक्ततरं वेद्यते इति तद्वदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः । तत्र तावत् पक्षलक्षणव्युदस्तान्
पक्षाभासानाह
प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः । लोकस्ववचनाभ्यां च वाधितोऽनेकधा मतः ॥२१॥
पक्षस्थानोपन्यस्तत्वात् तत्कार्याकरणत्वाच्च पक्षवदाभासत इति पक्षभासः । असावनेकधा अनेक प्रकारो मत इति संबन्धः । कथमित्याह - प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीतावारूढ एव स पक्षाभासः, साध्यस्यैव पक्षत्वात्, सिद्धस्य साधनानर्हत्वाद्, प्रतिप्रसक्त ेः । तथा अक्षलिङ्गतोऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस्तिरस्कृतो यः स पक्षाभासः । तत्र प्रतिपाद्यसिद्धो यथापौद्गलिको घटः, सौगतं वा प्रति सर्वं क्षणिकमित्यादि । प्रत्यक्षवाधितो यथानिरंशानि स्वलक्षणानि, परस्परविविक्तौ वा सामान्यविशेषाविति । अनुमानबाधितो यथा - नास्ति सर्वज्ञ इति । लोकबाधितो यथा--गम्या माता इति । स्ववचनबाधितो यथा- न सन्ति सर्वे भावा इति ॥ २१ ॥
49
सांप्रतं हेतुलक्षणं स्मारयन् तदपास्तान् हेत्वाभासानाहअन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् ।
तदप्रतीति संदेहविपर्यासंस्तदाभता ॥२२॥
हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं गमितम्, अनेकार्थत्वाद् धातोः प्रतिपादितं, स्वार्थानुमानप्रस्तावे यदुतान्यथानुपपन्नत्वमिति, तस्याप्रतीतिरनध्यवसायः,
तद्वदस्ता इति । पद्मादिलक्षण रहिताः । अध्यक्षहेतुभ्यामिति । हेतु लिङ्ग, कारणे कार्योपचारात्; तत्प्रभवं ज्ञानमपि हेतुरनुमानमित्यर्थः । अनुमानबाधित इति । तच्च क्वचिदसर्वज्ञे सर्वज्ञशब्दो मुख्य सर्वज्ञापेक्षः, गौणत्वात् माणवकेऽग्निशब्दवत् यद्वा ज्ञानतारतम्यं क्वचिद्विश्रान्तम्, तारतम्यत्वात् श्राकाशपरिमाणतारतम्यवत् यत्रतद्विश्रान्तं स सर्वज्ञः । तथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः श्रनेकत्वात् पञ्चाङ्गुलवत् । तथा कश्चिदात्मा सर्वार्थ साक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीण प्रतिबन्धकत्वात् यथा अपगततिमिरादिप्रतिबन्धं चक्षुर्ज्ञानं रूपसाक्षात्कारि । एवं ज्ञानं क्वचिदात्मनि प्रकर्षवत्, स्वावरणहान्युत्कर्षे सति प्रकाशात्मकत्वात् चक्षुर्दीपादिवत्, स्वावरणहान्युत्कर्षस्तु श्रावरणहानिः क्वचिज्जीवे परकाष्ठा प्राप्ता, प्रकर्षत्वात् परिमाण वदित्यनुमानात् ॥ २१॥
४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org