________________
48 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तदसिद्धावनुमानानुत्थानादिति। अनुमानात्संबन्धग्रहणे निरवधिरनवस्थानुषज्येत, संबन्धग्राहिणोऽप्यनुमानस्य पुनः संबन्धान्तरग्रहणसव्यपेक्षत्वादिति । अत्रोच्यतेप्रत्यक्षानुमाने द्वे एव प्रमाणे इति येषां मिथ्याभिनिवेशः, तेषामेष दोषो नास्माकम्, अन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भोत्तरकालभाविनोऽव्यभिचरितत्रिकालव्यापिगोचरस्य मतिनिबन्धनस्योहसंज्ञितस्य प्रमाणान्तरस्य संबन्धग्राहितयेष्टत्वात, तदनिष्टौ दृष्टव्यवहारविलोपप्रसङ्गात , तद्विलोपे च विचारानर्थक्यप्राप्तेरिति । अत्र प्रकरणे पुनरनुमानात् पार्थक्येनोहो न दर्शितः, संक्षिप्तरूचिसत्त्वानुग्रहप्रवृत्तत्वादस्य, शाब्दं तु पृथक् समथितम्; तस्यात्रैव परार्थानुमानोपयोगित्वादित्यास्तां तावत् ॥१८॥ इदानीं वैधर्म्यदृष्टान्तमुपदर्शनन्नाह
साध्ये निवर्तमाने तु साधनस्याप्यसंभवः।
ख्याप्यते यत्र दृष्टान्ते वैधयेरणेति स स्मृतः ॥ १६ ॥ विसदृशो धर्मोऽस्येति विधर्मा, तद्भावो वैधर्म्यम्, तेन वैधhण दृष्टान्तः । कीदृश इत्याह-साध्ये गम्ये निवर्तमाने असंभवति, तुशब्दोऽवधारणार्थो भिन्नक्रमः, स च साधनस्यासंभव एवेत्यत्र द्रष्टव्यः । ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधपेण भवति, इतिशब्देन संबन्धस्मरणादिति ॥१९॥
इदमत्रापि संबध्नाति-अस्यापि स्मर्यमाणे संवन्धे प्रयोगायोगादिति किमर्थं विस्मृतसंबन्धे एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदा, इति परवचनावकाशमाशझ्याह
अन्तर्व्याप्त्येव साध्यस्य सिद्धर्बहिरुदहृतिः ।
व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ अन्यदा हि स्मर्यमाणे वा संबन्धे प्रयुज्येत, अगृहीते वा । यद्याद्यः पक्षः, सोऽयुक्तः, यदा सर्वत्र साध्याविनाभाविनं हेतु स्मरति प्रतिपाद्यः, तदा पक्षेऽपि तमवबुध्य कथं साध्यं न प्रतिपद्यत ? ततश्चान्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वमन्ताप्तिः, तयैव साध्यस्थ गम्यस्य सिद्धेः प्रतीतेः वहिर्विवक्षितधर्मिणोऽन्यत्र दृष्टान्तर्मिण्युदाहृतिः व्याप्तिदर्शनरूपा व्यर्थी निष्प्रयोजना, तत्प्रत्याय्यार्थाभावादिति । द्वितीयपक्षस्यापि निर्दोषतां निरस्यन्नाह-तदसद्भावेऽप्येवम् संबन्धाग्रहणादन्ताप्त्यभावेऽप्येवमिति व्यर्थैव बहिरुदाहृतिः, न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति, व्यभिचारदर्शनात् । तस्मादगृहीतसंबन्धे प्रतिपाचे प्रमाणेन प्रतिबन्धः साध्यः, तत्सिद्धौ तत एव साध्यसिद्धरकिंचित्करी
सधर्मेति । धर्मादन् केवलात् इति बहुव्रीही धर्मशब्दादन समासान्तः । तनिर्णयः संबन्धनिर्णयः । तस्येत्यादि । शब्दस्य परोपदेशरूपतया कृत्वा शब्दजन्यज्ञानस्य स्वार्थानुमानत्वं भवतीत्याह-तत्रेत्यादि । तत्र स्वार्थानुमाने ॥१८॥
विधर्मेति । पूर्ववदन् ।।१६।। अन्यवाहीति । संबन्धविस्मरणभावे ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org