________________
NYAYTVATĀRAH
एवोपपत्तिविद्यमानता, तया तथोपपत्त्या, यथा-अग्निरत्र, धूमस्य तथैवोपपत्तेरिति । अन्यथापि वा इत्यनेन अवयवे समुदायोपचारादन्यथानुपपत्ति लक्षयति । अन्यथा साध्यव्यतिरेके अनुपपत्तिरविद्यमानतैव तया वा अन्यथानुपपत्त्या हेतोः प्रयोगः स्यात, यथा-अग्निरत्र, धूमस्यान्यथानुपपत्तेरिति । एते च द्वे अप्येकस्मिन् साध्ये प्रयोक्तव्ये इति यो मन्येत, तच्छिष्यणार्थमाह-अन्यतरेणापि तथोपपत्तिप्रयोगेण अन्यथानुपपत्तिप्रयोगेण वा साध्यस्य साध्यप्रतिपिपादयिषितार्थस्य सिद्धिनिष्पत्तिः प्रतिपाद्यप्रतीतावारोहणं भवेद्, इति यस्मात , तस्मान्न द्वे अपि प्रयोक्तव्ये, प्रयोगद्वयेऽपि यस्माद् वचनरचना भिद्यते नार्थः, प्रयोगस्य च साध्यसाधनफलम्, तच्चेदेकेनैव सिध्यति, द्वितीयप्रयोगः केवलं वक्तुरकौशलमाचक्षीत, नैरर्थक्यादित्यभिप्रायः ।।१७।।
अधुना दृष्टान्तलक्षणावसरः । स च द्वेधा साधर्म्यण च। तत्र साधर्म्यदृष्टान्तमधिकृत्याह
साध्यसाधनयोाप्तिर्यत्र निश्चीयतेतराम् ।
साधपूरण स दृष्टान्तः संबन्धस्मरणान्मतः॥१८॥ दृष्टयोरवलोकितयोः सामर्थ्यात् साध्यसाधनयोः अन्तःपरिनिष्ठितिः अन्वयाद् व्यतिरेकाद्वा साध्यसाधनभावव्यवस्थितिनिबन्धना यस्मिन्निति दृष्टान्तः, समानो धर्मोऽस्येति सधर्मा तद्भावः साधर्म्य तेन साधम्र्येण । स किंविधो भवतीत्याह-साध्यं जिज्ञासितार्थात्मकम्, साधनं तद्गमको हेतुः, तयोः साध्यसाधनयोाप्तिः, इदमनेन विना न भवति इत्येवंरूपा, यत्र क्वचिनिश्चीयतेतरां अतिशयेन निर्णीयते स साधर्म्यदृष्टान्तः । यथा-अग्निरत्र, धूमस्य तथैवोपपत्तेः महानसादिवद् इति । अयं चाविस्मृतप्रतिबन्धे प्रतिवादिनि न प्रयोक्तव्य इत्याह-संवन्धस्मरणात् इति । यब्लोपे पञ्चमी, प्राग्गृहीतविस्मृतसंबन्धस्मरणमधिकृत्य यतोऽभिप्रेतोऽयं नीतिविदाम्, नान्यथा। यदा हि प्रतिपाद्योऽद्यापि संबन्धं साध्याविनाभावित्वलक्षणं नावबुध्यते; तदा प्रमाणेन संबन्धो ग्राहणीयः, न दृष्टान्तमात्रेण, न हि सहदर्शनादेव क्वचित्सर्वत्रेदममुना विना न भवतीति सिध्यति, अतिप्रसङ्गात् । गृहीते च प्रतिबन्धे स्मर्यमाणे केवलं हेतुर्दर्शनीयः, तावतैव बुभुत्सितार्थसिद्धेर्दष्टान्तो न वाच्यः, वैयर्थ्यात् । यदा तु गृहीतोऽपि विस्मृतः कथंचित संबन्धः, तदा तत्स्मरणार्थ दृष्टान्तः कथ्यते । ननु च कथं त्रिकालसमस्तदेशव्यापिसंबन्धावगतिः ? न तावनिर्णयात्मकमपि प्रत्यक्षं देशकालान्तरसंचरिष्णुनोः साध्यसाधनयोः संबन्धं निरीक्षितु क्षमते, संनिहीतेऽर्थे विशदाध्यवसायेन प्रवृत्तेः । नापि शब्दात्तन्निर्णयः तस्य परोपदेशरूपतया स्वार्थानुमानाभावप्रसङ्गात , तत्र परोपदेशाभावात्, तदभावे संबन्धासिद्धः,
क्वचिदिति । प्रतिपाद्यविशेषे ॥१७॥
साध्यसाधनयोरित्यादि । अन्वयेन व्यतिरेकेण वा साध्यसाधनभावस्य इदमस्य साध्यमिदमस्य साधनमिति संबन्धस्य व्यवस्था निबन्धनं यस्याः परिनिष्ठितेः सा तथोक्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org