________________
64 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 प्रमाणप्रमेयाभावेन सर्वाभावावेदनं समस्ति, अन्यथाप्रमाणकं सर्वं सर्वत्र विद्यते इति परस्यापि वदतो न वदनभङ्गः स्यात्, तदभ्युपगमेऽभ्युपगमक्षतिः । तयोश्च दर्शितवदनेकान्तप्रकाश इति नासिद्धो हेतुः । मरुमरीचिकानि चयचुम्बिनि संवेदने जलोल्लेखेऽपि तद्गोचरत्वाभ्युपगमाभावादनकान्तिकोऽयमिति मा शतिष्ठाः, तस्य भ्रान्तत्वात्, अभ्रान्तः प्रकाशो हि तदभ्युपगतिहेतुः । अथायमपि इतरेतरविनिलठितपरमाणुक्षणक्षयिवोधेन वाध्यमानत्वात् भ्रान्त इत्याचक्षीथाः, तदयुक्तम्, यतस्तद्बोधः किमुपलब्धिमात्रम् यद्वा निर्णयो वा। यद्याद्यः कल्पः, तदानुमानं विशीर्यंत, निर्गोचरत्वात , प्राथमकल्पिकेनैव निर्विकल्पकविविक्तदर्शनेन विरोधभीरुतया सर्वथा वस्तुग्रहणाभ्युपगमात्, प्रमाणकलिते च मानान्तरवैयर्थ्यादनवस्थाप्राप्तेः । अथ द्वितीयः, तथा सति सर्वं निर्विकल्पकमप्रमाणतामश्नुवीत । न च निर्णयोऽनेकान्तप्रकाशं बाधते, अपि तु समर्थयते, बहिरन्तश्च तथैव तद्विज़म्भणात् । अथ सर्वथा वस्तुग्रहणेऽपि निर्विकल्पकं यत्रांशे पाश्चात्यं व्यवहारकारिव्यवसायमुपजनयति, तत्रैव प्रमाणतामास्कन्दति नान्यत्रेति मन्येथाः, तथा सति यदनन्तरमर्थक्रियासमर्थार्थप्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वीकुर्यान्न निर्विकल्पकम्, तज्जनकत्वेऽपि संनिकर्षादिवदित्यासज्येत । निर्विकल्पकमनधिगतार्थाधिगन्तृत्वात् प्रमाणं न व्यवसितिः तद्विकल्पत्वादिति चेन्न, अनुमितेरपि तद्वदप्रामाण्यप्रसङ्गात् । न च विपरीताकारनिराकरणचतुरतयानमितिविशेषवती, निर्णीतेरपि तदपनोददक्षत्वादसमारोपविषयेऽप्रवृत्तः । त्रिरूप
तेषामभिप्रायः । तस्यापीति शून्यवादिनः परस्यापि सांख्यस्य । तवभ्युपगमे प्रमाणप्रमेययोरङ्गीकारे । तवभ्युपगतिहेतुरिति । प्रतिभासमानार्थ गोचरत्वाङ्गीकारणमनुमानमिति क्षणिकत्वसाधकम् । प्राथमकल्पिकेनैवेति । कल्पः पक्षः, प्रथमश्चासौ कल्पश्च, तत्र भवः प्राथमकल्पिकः तेन, प्रथमपक्षाभिहितेनेत्यर्थः, अध्यात्मादेः इति ठन् । विरोधभीरुतयेदि । न ह्यकस्य वस्तुनो नीलत्वादि गृह्यते । न पुनः क्षणिकत्वादीति भावः। अप्रमारणतामिति । सदृशापरापरविप्रलम्भेन दृश्य विकल्प्ययोरक्याध्यवसायाद्विकल्पाः क्षणिकतां न गृह्णन्तीति तद्विषयं वस्तुबलप्रभवं निर्विकल्पमिति भवता पर्यकल्पि । यदि चाधुना निर्णयेन क्षणक्षयिणः परमाणवो गृह्यन्ते इत्यभ्युपगमः, ततो न किंचिनिर्विकल्पकेनेति भावः । समर्थयते इति । 'अर्थ उपयाञ्चायाम्" चुरादावात्मनेपदी, यदि तु बहुषु पुस्तकेषु समर्थयतीति पाठः, तदैवं गमनिका समर्थनं समर्थः तं करोति इन्, अनेकान्तप्रकाशस्य समर्थनां करोतीत्यर्थः । अथवा चर्च कचि एज़ माज़ दीप्तौ इत्यात्मनेपदिषु पठित्वा पुनः भ्राजट भ्रासट भ्रातृ दीप्तौ इति आत्मनेपदिषु भ्राजं पठन् अन्येषामात्मनेपदिनां धातूनामात्मनेपदं शिष्टप्रयोगानुसारेण व्यभिचरतीति दर्शयति, तेन लभति लभते, सेवति सेवते, समर्थयति समर्थयते । श्रोतारमुपलभति न प्रशंसितारम् । स्वाधीने विभवेऽप्यहो नरपति सेवन्ति किं मानिनः । इत्यादयः साधव इति स्थितम् । अथेत्यादिना प्राच्यविकल्पमेवाङ्गीकुर्वन्नाह-- तज्जनकत्वे इति । निर्णयजनकत्वे संनिकर्षादिवद् इति । यथा प्रमाणभूतज्ञानजनकोऽपि संनिकर्षों न प्रमाणम्, देहादिभिरतिप्रसङ्गात्, तथा निर्विकल्पकमपीत्यर्थः । असमारोपविषयेऽप्रवृत्तेरिति । यत्रैव किंचिद्विपरीतमारोपितं भवति, तत्रक तदपनोदद्वारेण निर्णय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org