Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 381
________________ 64 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 प्रमाणप्रमेयाभावेन सर्वाभावावेदनं समस्ति, अन्यथाप्रमाणकं सर्वं सर्वत्र विद्यते इति परस्यापि वदतो न वदनभङ्गः स्यात्, तदभ्युपगमेऽभ्युपगमक्षतिः । तयोश्च दर्शितवदनेकान्तप्रकाश इति नासिद्धो हेतुः । मरुमरीचिकानि चयचुम्बिनि संवेदने जलोल्लेखेऽपि तद्गोचरत्वाभ्युपगमाभावादनकान्तिकोऽयमिति मा शतिष्ठाः, तस्य भ्रान्तत्वात्, अभ्रान्तः प्रकाशो हि तदभ्युपगतिहेतुः । अथायमपि इतरेतरविनिलठितपरमाणुक्षणक्षयिवोधेन वाध्यमानत्वात् भ्रान्त इत्याचक्षीथाः, तदयुक्तम्, यतस्तद्बोधः किमुपलब्धिमात्रम् यद्वा निर्णयो वा। यद्याद्यः कल्पः, तदानुमानं विशीर्यंत, निर्गोचरत्वात , प्राथमकल्पिकेनैव निर्विकल्पकविविक्तदर्शनेन विरोधभीरुतया सर्वथा वस्तुग्रहणाभ्युपगमात्, प्रमाणकलिते च मानान्तरवैयर्थ्यादनवस्थाप्राप्तेः । अथ द्वितीयः, तथा सति सर्वं निर्विकल्पकमप्रमाणतामश्नुवीत । न च निर्णयोऽनेकान्तप्रकाशं बाधते, अपि तु समर्थयते, बहिरन्तश्च तथैव तद्विज़म्भणात् । अथ सर्वथा वस्तुग्रहणेऽपि निर्विकल्पकं यत्रांशे पाश्चात्यं व्यवहारकारिव्यवसायमुपजनयति, तत्रैव प्रमाणतामास्कन्दति नान्यत्रेति मन्येथाः, तथा सति यदनन्तरमर्थक्रियासमर्थार्थप्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वीकुर्यान्न निर्विकल्पकम्, तज्जनकत्वेऽपि संनिकर्षादिवदित्यासज्येत । निर्विकल्पकमनधिगतार्थाधिगन्तृत्वात् प्रमाणं न व्यवसितिः तद्विकल्पत्वादिति चेन्न, अनुमितेरपि तद्वदप्रामाण्यप्रसङ्गात् । न च विपरीताकारनिराकरणचतुरतयानमितिविशेषवती, निर्णीतेरपि तदपनोददक्षत्वादसमारोपविषयेऽप्रवृत्तः । त्रिरूप तेषामभिप्रायः । तस्यापीति शून्यवादिनः परस्यापि सांख्यस्य । तवभ्युपगमे प्रमाणप्रमेययोरङ्गीकारे । तवभ्युपगतिहेतुरिति । प्रतिभासमानार्थ गोचरत्वाङ्गीकारणमनुमानमिति क्षणिकत्वसाधकम् । प्राथमकल्पिकेनैवेति । कल्पः पक्षः, प्रथमश्चासौ कल्पश्च, तत्र भवः प्राथमकल्पिकः तेन, प्रथमपक्षाभिहितेनेत्यर्थः, अध्यात्मादेः इति ठन् । विरोधभीरुतयेदि । न ह्यकस्य वस्तुनो नीलत्वादि गृह्यते । न पुनः क्षणिकत्वादीति भावः। अप्रमारणतामिति । सदृशापरापरविप्रलम्भेन दृश्य विकल्प्ययोरक्याध्यवसायाद्विकल्पाः क्षणिकतां न गृह्णन्तीति तद्विषयं वस्तुबलप्रभवं निर्विकल्पमिति भवता पर्यकल्पि । यदि चाधुना निर्णयेन क्षणक्षयिणः परमाणवो गृह्यन्ते इत्यभ्युपगमः, ततो न किंचिनिर्विकल्पकेनेति भावः । समर्थयते इति । 'अर्थ उपयाञ्चायाम्" चुरादावात्मनेपदी, यदि तु बहुषु पुस्तकेषु समर्थयतीति पाठः, तदैवं गमनिका समर्थनं समर्थः तं करोति इन्, अनेकान्तप्रकाशस्य समर्थनां करोतीत्यर्थः । अथवा चर्च कचि एज़ माज़ दीप्तौ इत्यात्मनेपदिषु पठित्वा पुनः भ्राजट भ्रासट भ्रातृ दीप्तौ इति आत्मनेपदिषु भ्राजं पठन् अन्येषामात्मनेपदिनां धातूनामात्मनेपदं शिष्टप्रयोगानुसारेण व्यभिचरतीति दर्शयति, तेन लभति लभते, सेवति सेवते, समर्थयति समर्थयते । श्रोतारमुपलभति न प्रशंसितारम् । स्वाधीने विभवेऽप्यहो नरपति सेवन्ति किं मानिनः । इत्यादयः साधव इति स्थितम् । अथेत्यादिना प्राच्यविकल्पमेवाङ्गीकुर्वन्नाह-- तज्जनकत्वे इति । निर्णयजनकत्वे संनिकर्षादिवद् इति । यथा प्रमाणभूतज्ञानजनकोऽपि संनिकर्षों न प्रमाणम्, देहादिभिरतिप्रसङ्गात्, तथा निर्विकल्पकमपीत्यर्थः । असमारोपविषयेऽप्रवृत्तेरिति । यत्रैव किंचिद्विपरीतमारोपितं भवति, तत्रक तदपनोदद्वारेण निर्णय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414