Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
NYAYAVATARAḤ
लिङ्गजतया विशेषोऽनुमितेर्मानतासाधक इति चेत्, साक्षादनुभवादुत्पादस्तर्हि निर्णीतेर्महापराध इति भवतो वालतामीक्षामहे । किं च, यथा निर्विकल्पकमलक्षितं सकलव्यावृत्तस्वलक्षणग्रहणप्रवणमपि कतिचिदंशविषयं विकल्पमुत्थापयति, तथार्थ एवेन्द्रियालोकादिसंनिकृष्टतया कतिचिन्निजांशविषयं साक्षाद् विशदविकल्पं जनयेदिति किमजागलस्तनकल्पनिर्विकल्पकल्पनया ? तावन्तोंऽशा बहिरर्थे विरुध्यन्ते इति चेत्, पाटवापाटवादयो दर्शनेऽप्येकस्मिन् न विरुध्यन्ते इति किं राज्ञामाज्ञा तस्मान्न क्षणक्षयिपरमाणुलक्षणस्वलक्षणलक्षकं क्वचित् कदाचिद्दर्शनं लक्षयन्ति, भवन्तोऽपि केवलं स्वदर्शनानुरक्तान्तःकरणतया न तदसत्तां प्रतिपद्यन्ते । स्वांशव्यापिनं कालान्तरानुयायिनमेकं बहिरन्तश्चार्थं बोधं च प्रकाशयन् प्रथमानो निर्णयः न पुनर्निमूलकैः कुयुक्तिविकल्पैर्बाध्यते इति न भ्रान्तः । किं चास्य भ्रान्ततां कथयन् सर्वप्राणप्रमेयव्यवस्था मुन्मूलयति । तथा हि--यत्सत्त्वबोधरूपत्वसुखत्वादिषु प्रमाणं तदेव क्षणक्षयित्वस्वर्गप्रापणशक्तियुक्तत्वादिषु अप्रमाणम्, तथा यद्वस्तु नीलचतुरस्रोर्ध्वतादिरूपतया प्रमेयं तदेव मध्यभागक्षणविवर्तादिनाप्रमेयम्, तथा यद् बहिरर्थापेक्षया सविकल्पकं स्वप्नादिदर्शनं वा भ्रान्तं तदेवस्वरूपापेक्षयाभ्रान्तम्, तथा यन्निशीथिनीनाथद्वयादिकं द्वित्वेऽलीकं तदपि धवलतानियतदेशचारितादावलीकमिति निर्णयः । यदि तु विरोधाद् विभ्यद्भिर्भवद्भिरयमपहनूयते, किमपरमैकान्तिकं प्रमाणं प्रमेयं चोररीकृत्य स्वाकूतं प्रतिष्ठापयेयुरिति सकौतुकं नश्चेतः । अथ ज्ञानवादी अद्वैतप्रकाशमलक्षितमभ्युपेत्य तेन बाहुविध्यं दधानो बोधो बाध्यमानत्वात् भ्रान्त इत्यभिदद्यात्, तदयुक्तम्, दृष्टहान्यदृष्टपरिकल्पना
Jain Education International
65
स्यापि प्रवृत्तिरित्यर्थः । तथा चागमे - किमयं स्थाणुः पुरुषो वेति ईहानन्तरमेव पुरुष एवायमित्यपायाभिधानात् । अत एव क्षमाश्रमणोऽपि — प्रबभत्थेऽवाश्रो चिचय कत्थइ लखिज्जइ इमो पुरिसो इति पूर्वपक्षयित्वा -
उप्पलदलस्यवेहो व्व दुव्विभावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिडसणे विसयारणमुवलद्धी ||
(विशे० भा० २९८ - २६६ ) इति परिहृतवान् । कतिचिदंशविषयमिति । नीलादिविषयम्, क्षणिकादिविषयम् । तावन्तोंऽशा इति । नीलत्वाक्षणिकत्वचतुरस्रत्वोर्ध्वत्वादयो विरुध्यन्ते इति निरंशेकस्वभावत्वाद् वस्तुनः । पाटवापाटवादय इत्यादि । समाधानार्थस्तु तर्हि निर्विकल्पदर्शनस्यापि नीलादिविकल्पं जनयतो नीलादिविकल्पजनने पाटवम्, क्षणिकत्वादिविकल्पं चाजनयतस्तत्रापाटवम् । प्रादिशब्दात्तु बोधरूपत्वनिर्विकल्पत्वाभ्रान्तत्वादयो धर्मा गृह्यन्ते । ते च पाटवादयः परस्परविरुद्धाः, नैकत्रदर्शने संभवन्ति इति दर्शनस्यापि न विकल्पजनकत्वमित्यभिप्रायः । यदिति संवेदनम् । सत्त्वबोधरूपत्वसुखत्वादिषु प्रमाणमिति । यथासंभवमन्तर्बहिर्गतानां सत्त्वादीनां तस्यैव संवेदनस्य विकल्पोत्थापनद्वारेण व्यवस्थापकत्वात्, यद्यस्य व्यवस्थापन हेतुस्ततत्र प्रमाणमिति हि प्रमाणस्थितिः । श्रादिशब्दान्नीलत्वादिग्रहः । श्रप्रमाणमिति । क्षरणक्षयित्वादिविषये विकल्पोत्थापनाभावात् । तथा च तरिसद्धान्तः यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता इति ।
५
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414