Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 383
________________ 66 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 प्रसङ्गात्, अलक्षितनिर्विकल्पदर्शनस्य च प्रागेव प्रतिक्षिप्तत्वात् । अथ युक्तिर्बोधस्य वैविध्यं बाधेत, तथा हि-भ्रान्ताभ्रान्तसंवेदनविवेकस्य कर्तुमशक्यत्वात्, संविन्मात्रस्य तु सर्वत्राव्यभिचारित्वाद् अद्वयं संवेदनं विविक्तयुक्त्या प्रकाशमानमनादिकालालीनवासनासमुपजनितसंवृतिदर्शितसत्ताकं सितासितादिविविधप्रतिभासं निराकुरुते । अत्र प्रतिविदध्महे-किमयमनेकाकारो बोधोऽद्वयसंवेदनाद् व्यत्यरक्षीद् वा न वा, किं चातो यदि व्यभत्सीत्, कथमदृष्टतत्कार्यत्वे व्यतिरिक्तोऽयं तदद्वयसंवेदनमनुमापयेत् । अव्यतिरेकपक्षे पुनरनेकः सन् एकसंवेदनतादात्म्येन प्रथमानः कथमद्वैतं नोद्दलयेत् । अथ संवृतिदर्शितत्वादलीकतया अस्य सितासिताद्याकारबहिर्मुखकालुष्यस्य वोधेन तात्त्विकेन सह भेदाभेदविकल्पानुपपत्तिरिति ब्रूषे; तथा सति परो बोधस्यापारमार्थिकत्वं अविद्यार्शितत्वात्, अर्थसत्तायाः पुनस्तत्त्वरूपता, सर्वत्राव्यभिचारादिति ब्र वाणो दुनिवारः स्यात् । जडस्य प्रकाशायोगात् संवित्तिः सत्या, नार्थ इति चेत्, एकस्यानेकतावभासाभावादनेकान्तः सत्यः, नाद्वैतमिति प्रतिजानीमहे । संवत्याद्वयस्यापि नानाप्रतिभासोऽविरुद्ध इति चेत्, अनाद्यविद्यावलाज्जडस्यापि चेतनतया प्रकाशो न विरुद्ध इति परस्यापि शठोत्तरं नातिदुर्लभं भवेत् । किं च नानाकारकलुषितचैतन्यसामान्यस्यान्यथानुपपत्तिसामर्थ्यतस्तस्य सिद्धत्वादद्वयसंवेदनमसिद्धं साधयेदयम्, अन्यथा निर्बन्धनतया साधनस्याप्रवृत्तः, तथा च स्थिरस्थूराद्युपलक्षितार्थांशवशाद् विशकलितपरमाणुक्षणक्षयिपर्यायतादात्म्यं साधयन्तमनेकान्तवादिनं न प्रतिक्षेप्तुमर्हति, युक्तेरुभयत्रापि तुल्यत्वात् । किं च, योऽयं सितपीताद्यनेकाकारनिर्णयोऽसावपि स्वसंवेदनापेक्षयाद्वयरूप इति भवदभिप्रायः, यथा चानवस्थाभीरुतया सर्वं ज्ञानं स्वप्रकाशमभ्युपेतम्, तथा सर्वो निश्चयः स्वनिश्चाय स्वप्नादीति । आदिशब्दात् जाग्रद्दे शभाविनो मरीचिकादौ जलादिज्ञानस्य परिग्रहः । अयमिति अनेकान्तप्रकाशः । कथमदृष्टेत्यादि । तस्याद्वयसंवेदनस्य कार्य तत्कार्यम्, तत्स्वभावः तत्कार्यत्वम्, न इष्टं तत्कार्यत्वं यस्य स तथा, अयमनेकाकारो बोधः । अयमभिप्राय:-- भवदाशयेनायमनेकाकारो बोधः, एकस्यानेकधर्मत्वायोगाद् बाधित एव; परमसौ बाधितोऽप्यनेकाकारो बोधोऽद्वयं न भवति । अद्वयमनुमापयेद् यद्यद्वयस्य कार्य स्यात् । अद्वैतमिति । द्वाभ्यां प्रकाराभ्यामितं स्थितं द्वौ वा प्रकारावितं प्राप्त द्वीतम्; तत: प्रज्ञादेराकृतिगणत्वात् अण्, यदि वा द्वयोर्भावो द्विता तत: पूर्ववत् स्वार्थे अणि "प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिका: क्वचित्" इति वचनाद् नपुंसकत्वं, ततो नसमासः । अस्येति । अनेकाकारबोधस्य । सितासिताधाकारबहिर्मुखकालुष्यस्येति । सितासितादय प्राकारा यस्य तत्तथा, सितासिताद्याकारबहिर्मुखं कालुष्यं मालिन्यं यस्य तस्य । नानाकारकलुषितेत्यादि । अयं ज्ञानाद्वैतवादी नानाकारकलुषितचैतन्यसामान्यस्याद्वयसंवेदनान्यथानुपत्तिसामर्थ्यतोऽप्रसिद्धं सदद्वयसंवेदनं साधयेत्, न चावयज्ञानवादिनो नानाकारकलुषितस्य चैतन्यसामान्यस्य हेतुतयाभिधीयमानस्याद्वित्वेन तदसिद्धम्, यदसिद्धेन साध्यते इति दोषः, यत आह तस्य सिद्धत्वादिति । यद्यपि नानाकारा अलीकास्तथापि नीलपीतादिज्ञानेष्वनुगतं चैतन्यमात्रं सिद्धमेव, प्राकारालीकत्वादेव च न नानाकारकलुषितमित्युक्तम् । अन्यथेति । तदा नानाकारकलुषितं चैतन्यसामान्यं सिद्ध नाभ्युपगम्यते, तदा निर्हेतुकतया द्वयविज्ञानसाधकमनुमानं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414