________________
66 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 प्रसङ्गात्, अलक्षितनिर्विकल्पदर्शनस्य च प्रागेव प्रतिक्षिप्तत्वात् । अथ युक्तिर्बोधस्य वैविध्यं बाधेत, तथा हि-भ्रान्ताभ्रान्तसंवेदनविवेकस्य कर्तुमशक्यत्वात्, संविन्मात्रस्य तु सर्वत्राव्यभिचारित्वाद् अद्वयं संवेदनं विविक्तयुक्त्या प्रकाशमानमनादिकालालीनवासनासमुपजनितसंवृतिदर्शितसत्ताकं सितासितादिविविधप्रतिभासं निराकुरुते । अत्र प्रतिविदध्महे-किमयमनेकाकारो बोधोऽद्वयसंवेदनाद् व्यत्यरक्षीद् वा न वा, किं चातो यदि व्यभत्सीत्, कथमदृष्टतत्कार्यत्वे व्यतिरिक्तोऽयं तदद्वयसंवेदनमनुमापयेत् । अव्यतिरेकपक्षे पुनरनेकः सन् एकसंवेदनतादात्म्येन प्रथमानः कथमद्वैतं नोद्दलयेत् । अथ संवृतिदर्शितत्वादलीकतया अस्य सितासिताद्याकारबहिर्मुखकालुष्यस्य वोधेन तात्त्विकेन सह भेदाभेदविकल्पानुपपत्तिरिति ब्रूषे; तथा सति परो बोधस्यापारमार्थिकत्वं अविद्यार्शितत्वात्, अर्थसत्तायाः पुनस्तत्त्वरूपता, सर्वत्राव्यभिचारादिति ब्र वाणो दुनिवारः स्यात् । जडस्य प्रकाशायोगात् संवित्तिः सत्या, नार्थ इति चेत्, एकस्यानेकतावभासाभावादनेकान्तः सत्यः, नाद्वैतमिति प्रतिजानीमहे । संवत्याद्वयस्यापि नानाप्रतिभासोऽविरुद्ध इति चेत्, अनाद्यविद्यावलाज्जडस्यापि चेतनतया प्रकाशो न विरुद्ध इति परस्यापि शठोत्तरं नातिदुर्लभं भवेत् । किं च नानाकारकलुषितचैतन्यसामान्यस्यान्यथानुपपत्तिसामर्थ्यतस्तस्य सिद्धत्वादद्वयसंवेदनमसिद्धं साधयेदयम्, अन्यथा निर्बन्धनतया साधनस्याप्रवृत्तः, तथा च स्थिरस्थूराद्युपलक्षितार्थांशवशाद् विशकलितपरमाणुक्षणक्षयिपर्यायतादात्म्यं साधयन्तमनेकान्तवादिनं न प्रतिक्षेप्तुमर्हति, युक्तेरुभयत्रापि तुल्यत्वात् । किं च, योऽयं सितपीताद्यनेकाकारनिर्णयोऽसावपि स्वसंवेदनापेक्षयाद्वयरूप इति भवदभिप्रायः, यथा चानवस्थाभीरुतया सर्वं ज्ञानं स्वप्रकाशमभ्युपेतम्, तथा सर्वो निश्चयः स्वनिश्चाय
स्वप्नादीति । आदिशब्दात् जाग्रद्दे शभाविनो मरीचिकादौ जलादिज्ञानस्य परिग्रहः । अयमिति अनेकान्तप्रकाशः । कथमदृष्टेत्यादि । तस्याद्वयसंवेदनस्य कार्य तत्कार्यम्, तत्स्वभावः तत्कार्यत्वम्, न इष्टं तत्कार्यत्वं यस्य स तथा, अयमनेकाकारो बोधः । अयमभिप्राय:-- भवदाशयेनायमनेकाकारो बोधः, एकस्यानेकधर्मत्वायोगाद् बाधित एव; परमसौ बाधितोऽप्यनेकाकारो बोधोऽद्वयं न भवति । अद्वयमनुमापयेद् यद्यद्वयस्य कार्य स्यात् । अद्वैतमिति । द्वाभ्यां प्रकाराभ्यामितं स्थितं द्वौ वा प्रकारावितं प्राप्त द्वीतम्; तत: प्रज्ञादेराकृतिगणत्वात् अण्, यदि वा द्वयोर्भावो द्विता तत: पूर्ववत् स्वार्थे अणि "प्रकृतेलिङ्गवचने बाधन्ते स्वार्थिका: क्वचित्" इति वचनाद् नपुंसकत्वं, ततो नसमासः । अस्येति । अनेकाकारबोधस्य । सितासिताधाकारबहिर्मुखकालुष्यस्येति । सितासितादय प्राकारा यस्य तत्तथा, सितासिताद्याकारबहिर्मुखं कालुष्यं मालिन्यं यस्य तस्य । नानाकारकलुषितेत्यादि । अयं ज्ञानाद्वैतवादी नानाकारकलुषितचैतन्यसामान्यस्याद्वयसंवेदनान्यथानुपत्तिसामर्थ्यतोऽप्रसिद्धं सदद्वयसंवेदनं साधयेत्, न चावयज्ञानवादिनो नानाकारकलुषितस्य चैतन्यसामान्यस्य हेतुतयाभिधीयमानस्याद्वित्वेन तदसिद्धम्, यदसिद्धेन साध्यते इति दोषः, यत आह तस्य सिद्धत्वादिति । यद्यपि नानाकारा अलीकास्तथापि नीलपीतादिज्ञानेष्वनुगतं चैतन्यमात्रं सिद्धमेव, प्राकारालीकत्वादेव च न नानाकारकलुषितमित्युक्तम् । अन्यथेति । तदा नानाकारकलुषितं चैतन्यसामान्यं सिद्ध नाभ्युपगम्यते, तदा निर्हेतुकतया द्वयविज्ञानसाधकमनुमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org