________________
NYAYAVATARAḤ
67
,
कोऽभ्युपगन्तव्यः, अन्यथा तत्राप्यनवस्थादोषोऽनुषज्येत, निश्चयाश्च सर्वथा स्वरूपं निश्चिनुयुः, नैकदेशेन यतो निश्वयैर्यन्न निश्चीयते रूपं तत्तेषां विषयः कथमिति स्वयमेव स्ववधाय प्रलपितम्, तथा चाद्वयस्य क्षणक्षयिरूपस्य तैर्ग्रहणे विपरीतारोपाभावादादित एव अनुत्थानं संसारस्येति युक्तिरिक्त एवामुक्ताभिमानः स्यात् । न चैवम्, भवभावस्य प्रतिप्राणिप्रसिद्धत्वात् । तन्नायमितरेतरा विनिर्लुठितद्रव्यपर्यायप्रकाशो भ्रान्तः, तद्विपरीतार्थोपस्थापक प्रमाणान्तराभावादिति स्थितम् । यदा तु शून्यवादी निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति पराभिप्रायप्रवृत्तानुमानबलाद् भ्रान्ततामस्य कथयेत्, तदा तं प्रति सालम्बना: सर्वे प्रत्ययाः प्रत्ययत्वात् जाग्रद्दशाप्रत्ययवदिति विपरीतानुमानमुपढौकनीयम् । स यदि दृष्टान्तस्य साध्यविकलतामुद्भावयेत् तदा तद्दृष्टान्तेऽपि सा दर्शनीया । यदि पुनरसौ स्वप्नप्रत्ययस्य निरालम्वनत्वं भवद्भिरभिप्रेतमिति विलपन्नासितुं न दद्यात्, तदास विकल्पतः पर्यनुयोज्यः - अस्मदभ्युपगमः प्रमाणं भवतोऽप्रमाणं वा प्रमाणं चेत्, यथा तद्बलाद् दृष्टान्तसमर्थनं तथा जाग्रत्प्रत्ययगोचरार्थसमर्थनमपि किं न कुरुषे, कोऽयमर्धजरतीयन्यायः । अथाप्रमाणम्, एवं सति स्वप्नप्रत्ययनिरालम्वनतासाधकं प्रमाणान्तरं मृगणीयम्, किमनेन कुशकाशावलम्बनेन । तत्रापि प्रमाणान्तरे विकल्पयुगल ममलमवतरति, तत् किं निरालम्बनम्, सालम्बनं वा; निरालम्बनं चेत्, नान्यप्रत्ययस्य निरालम्वनतां गदितुं पटिष्ठं निर्गोचरत्वात् । अथ सालम्बनम्, हन्त हतोऽसि, निरालम्वनाः सर्वे प्रत्यया इति प्रतिज्ञातक्षतेः, अनेनैव व्यभिचारादिति शठः प्रतिशठाचरणेन निर्लोठनीयः । तन्नास्यानैकान्तिकत्वम् । विरुद्धताशङ्का पुनर्दुरापास्तप्रसव, प्रमाणप्रकाशितेऽर्थे सर्ववादिनां तथाभ्युपगमाविगानादिति । अनेन संशयविरोधानवस्थावैयधिकरण्यासंभवादिदूषरणानि निर्मूलकमिथ्याविकल्पोत्थापितानि प्रतिभासमुद्गरनिपातनिर्दलितमस्तकत्वान्न जीवितुमुत्सहते इति । तस्मादसिद्धतादिदोषादिना कृतोऽयं तथाप्रतिभासलक्षणो हेतुरनेकान्तगोचरतां प्रमाणस्य परानभ्युपगमयति, इत्यलं विस्तरेण । तस्मात्तस्यैव तत्र प्रतिभासनात् सर्वसंविदामनेकान्तात्मकं वस्तु गोचर इति स्थितम् ।
प्रवर्तत । किं चेत्यादि । श्रयमभिप्रायः किल - सितपीताद्यनेकाकारनिर्णयः स्वसंवेदनापेक्षया भवदभिप्रायेणाद्वरूप:, अनवस्थाभयाच्च स्वयं निर्णयेन स्वरूपं निर्णेतव्यम् तदपि सर्वथा, अन्यथा सितपीतादिनिर्णयेन यत् सितपीतादिनिर्णय रूपं स्वरूपं न निर्णीयते, श्रद्वयात्मकमपि तदात्मना तत् स्वरूपं तस्य निर्णयस्य विषयः कथम् ? नैव स्यादित्यर्थः । एवं चाद्वये गृहीते अनेकाकारारोपाभावादनुत्थानं संसारस्येति । पराभिप्रायेति । परोभ्युपगतानुमानो जैनादिः । श्रननेति । प्रमाणनिर्णीतेऽविसंवादेन । संशयविरोधानवस्था वैयधिकरण्यासंभवादिति । नित्यानित्याद्यनेकधर्मकत्वे वस्तुनोऽभ्युपगम्यमाने नित्यवस्तुनोऽभ्युपगम्यमाने नित्यमिदं वस्त्वनित्यं चेत्येकस्यावधारणद्वारेण निर्णीतेरभावात् संशयः । तथा यदेव वस्तु नित्यं तदेवानित्यमिति विरोधः, नित्यानित्ययोः परस्परपरिहारेणावस्थानात् । यदि पुनर्नित्यमनित्यात्मना, अनित्यं नित्यरूपतया व्यवस्थितं स्यात्; तदा नित्यानित्यत्वयोरविशेषात् प्रतिनियतव्यवहारोच्छेदः । तथा येनांशेन नित्यं तेनांशेन किं नित्यमेव, प्राहोस्वित् तेनाप्यंशेन नित्यमनित्यं वेति । तत्राद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org