________________
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
अयं च यथावस्थितप्रमाणव्यापारपर्यालोचकप्रमात्रभिप्रायेण प्रमाणगोचरो दशितः । नयस्तहि किंभूतं मन्यते इति वचनावकाशे सत्याह-'एक' इत्यादि । अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतैकधर्मविशिष्टं नयति प्रापयति संवेदनमारोहयतीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः । तस्य विषयो गोचरोऽभिमतः अभिप्रेतैकदेशेनानित्यत्वादिधर्मलक्षणेन विशिष्टः पररूपेभ्यो व्यवच्छिन्न इत्यर्थः। अर्थः प्रमेयरूपः, प्रमाणमेवंविधमेवार्थं गृह्णाति-इति स्वाकृतेन तेन व्यवस्थापनादिति । अथ चाप्रमाणविषयां लक्षणसंख्यागोचरफलरूपां चतुर्विधां विप्रतिपत्ति निराकृत्य अत्रैव नयगोचरं निरूपयन्नाह–एकेत्यादि । ननु चादिवाक्यतः प्रमाणव्युत्पादनमात्र प्रतिज्ञातं तत् किमयमप्रस्तुतोऽत्र नयगोचरः प्रतिपाद्यते इति । सत्यम्, एवं मन्यते-न नयः प्रमाणादत्यन्तं दूरयायी, किं तर्हि तदंशभूत एव, नयसमुदायसंपाद्यत्वात् प्रमाणस्य, अतस्तद्वयुत्पादनप्रतिज्ञातेऽसावपि तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायाद् गृहीत एव, तन्नायमप्रस्तुत इति । अत्रापि पदार्थस्त्वेक एव, केवलं वाक्यार्थभेदः । तथा हिइहैवं घटना। नयस्य विषय एकदेशविशिष्टोऽर्थो मतो नीतिविदामिति । ननु च यदि नयस्य प्रमाणान्तःपातित्वेऽपि पृथग् गोचरः प्रतिपद्यते, ततः प्रमाणवदेतद्विषया लक्षणादिविप्रतिपत्तिरपि निराकर्तव्या। सत्यम्, किं तु न परेषां नयव्यवहारः प्रसिद्धः, अतो धर्मिणोऽभावात् तद्गोचरा विप्रतिपत्तिस्त्येिव । न च ते तेन तत्त्वं प्रतिपादनीयाः, तत्त्वप्रतिपादने प्रमाणस्यैव व्यापारात्, नयस्य पुनरेकदेशनिष्ठत्वेन तत्प्रतिपादनसामर्थ्य विकलत्वात्, अत एवाचार्यस्य न तल्लक्षणादिपक्षे अनेकान्तक्षतिः । द्वितीयपक्षे पुनरपि येनांशेन नित्यं तेनांशेन किं नित्यमेव, पाहोस्वित् तेनापि नित्यमनित्यं वेति अनवस्था। एवमनित्यपक्षेपि सर्वमेतद् भावनीयम् । तथा भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्ति : सामानाधिकरण्यम् । यथा नीलोत्पलमित्यत्र एकस्मिन् उत्पलद्रव्ये नीलगुणं निमित्तीकृत्य नीलशब्द: प्रवर्तते, उत्पलत्वजाति चाश्रित्योत्पलशब्दः, ततो भवति नीलोत्पलशब्दयोभिन्नप्रवृत्तिनिमित्तयोरेकस्मिन्नर्थे वृत्तत्वात् समानाधि करण्यम् । अत्र तु नित्यत्वानित्यत्वादिधर्माणां द्रव्यादभेदेऽम्युपगम्यमाने यदेव नीलधर्मात्मकं वस्तु नील शब्दप्रवृत्तिनिमित्तं तदेव सदृशपरिणामलक्षणोत्पलत्वजात्यात्मकत्वमुत्पल शब्दस्यापि प्रवृत्तिनिमित्तम्। तन्नानेकान्ताभ्युपगमेऽभिन्नप्रवृत्तिनिमित्तत्वात् सामानाधिकरण्यलक्षणं घटते, तदभावाच्च वैयधिकरण्यमिति । तथासंभवोऽपि, संशयविरोधायुक्तयुक्तः, एकस्य वस्तुनो नित्यानित्याद्यनेकधर्मालिङ्गितत्वाभावात्, अतो न नित्यमनित्यं च तदेव वस्तु भवति इति । प्रादिशब्दात् प्रत्यक्षादिबाधापरिग्रहः ।
प्रमाणप्रवृत्तरत्तरकालभावीति । प्रत्यक्षादिप्रमाणेन यथावस्थितवस्तुस्वरूपग्रहणादनन्तरमिदं नित्यमिदमनित्यमित्यादिस्वाशयेन वस्त्वंशपरामर्श इत्यर्थः । एवंविधमेवेत्यादि । नयदुर्नययोः किंचित् साम्यादिभेदेनैव लक्षणाभिधानादेवमाह। यद्वा 'गृह्णात्येव' इत्यत्र एवशब्दो द्रष्टव्यः । केवलं वाक्यार्थभेद इति । तथा हि-पूर्वस्मिन् वाक्यार्थे नयस्य कर्तृभूतस्यैकदेश विशिष्टोऽर्थो विषयो मतः, अस्मिस्तु वाक्यार्थे नयस्य संबन्धी विषयो नीतिविदा कर्तभूतानामेवंविधोऽभिप्रेत इति स्पष्टो वाक्यार्थभेदः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org