________________
NYAYAVATĀRAH स्वरूपकथनेऽपि महानादरः । गोचरं पुनर्वैयपक्षे काक्वा प्रक्षिपन् साक्षात् प्रतिपादयति-मा भूत् स्वदर्शनान्तःपातिनां मन्दबुद्धीनां प्रमाणप्रतिपन्नेऽप्यनेकान्तात्मके वस्तुन्येकदेशसमर्थनाभिनिवेशलक्षणः कदाग्रह इति । अथवा स्वदर्शनान्तःपातिनः प्रति अनेनैव गोचरकथनेनोपलक्षणत्वाल्लक्षणादीन्यपि लक्षयति । तत्र प्रमाणप्रतिपन्नार्थंकदेशपरामर्शो नय इति लक्षणम्, सर्वनयविशेषानुयायित्वात्पररूपव्यावर्तनक्षमत्वाच्चास्य । संख्यया पुनरनन्ता इति, अनन्तधर्मत्वाद्वस्तुनः, तदेकदेशधर्मपर्यायावसिताभिप्रायाणां च नयत्वात, तथापि चिरंतनाचार्यैः सर्वसंग्राहिसत्ताभिप्रायपरिकल्पनाद्वारेण सप्त नया: प्रतिपादिताः। तद्यथा--नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढवंभूता नयाः इति । अतोऽस्माभिरपि ते एव वर्ण्यन्ते । कथमेते सर्वाभिप्रायसंग्राहकाः इति चेत्, उच्यते । अभिप्रायस्तावदर्थद्वारेण शब्दद्वारेण वा प्रवर्तत, गत्यन्तराभावात्, अर्थश्च सामान्यरूपो विशेषरूपो वा, शब्दोऽपि रूढितो व्युत्पत्तितश्च, व्युत्पत्तिरपि सामान्यनिमित्त प्रयुक्ता तत्कालभाविनिमित्तप्रयुक्ता वा स्यात् । तत्र ये केचनार्थनिरूपणप्रवणा: प्रमात्रभिप्रायास्ते सर्वेऽप्याये नयचतुष्टयेऽन्तर्भवन्ति, तत्रापि ये परस्परविशकलितौ सामान्यविशेषाविच्छन्ति तत्समुदायरूपो नैगमः । ये पुनः केवलं सामान्यं वाञ्छन्ति तत्समूहसंपाद्यः संग्रहः । ये पुनरनपेक्षितशास्त्रीयसामान्यविशेष लोकव्यवहारमवतरन्तं घटादिकं पदार्थमभिप्रेयन्ति तन्निचयजन्यो व्यवहारः । ये सौगतास्तु क्षणक्षयिणः परमाणुलक्षणा विशेषाः सत्या इति मन्यन्ते, तत्संघातघटित ऋजुसूत्र इति । तथा ये मीमांसकाः रूढितः शब्दानां प्रवृत्ति वाञ्छन्ति तन्निवहसाध्यः शब्द इति । ये तु व्युत्पत्तितो ध्वनीनां प्रवृत्ति वाञ्छन्ति नान्यथा, तवारजन्यः समभिरूढ इति । ये तु वर्तमानकालभाविव्युत्पत्ति निमित्तमधिकृत्य शब्दाः प्रवर्तन्ते नान्यथेति मन्यन्ते, तत्संघटितः खल्वेवंभूत इति । तदेवं न स कश्चन विकल्पोऽस्ति वस्तुगोचरो योऽत्र नयसप्तके नान्तर्यातीति सर्वाभिप्रायसंग्राहका एते इति स्थितम् ।
सांप्रतमेषामेव प्रत्येक मतमुपवर्णयामः-तत्र गमनं गमः परिच्छेद इत्यर्थः, निश्चितो गमः निगमः विविक्तवस्तुग्रहणं, स एव प्रज्ञादेराकृतिगणतया स्वथिकाणप्रत्ययविधानाद् नैगमः । यदि वा, निगम्यन्ते नियतं परिच्छिद्यन्ते इति निगमाः अर्थास्तेषु भवोऽभिप्रायो नियत परिच्छेदरूपः स नैगम इति । अयं हि सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्वकर्मत्वादीनि, तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणानवान्तरविशेषांश्चापेक्षया पररूपव्यावर्तन
तत्समुदायरूपो नैगम इति । पूर्व हि ये परस्परविशकलितो सामान्यविशेषाविच्छन्ति इति बहुवचनेन निर्देशे नैगमे इत्येकवचनान्तत्वात् नात्र सुश्लिष्टो वाक्यार्थः स्यादिति तत्समुदायरूप इत्युक्तम् । एवं तत्समूहादिशब्देष्वपि भावनीयम् ।
तथा अन्त्यान् विशेषानिति । उत्पादविनाशयोरन्ते व्यवस्थितत्वाद् अन्तानि नित्यद्रव्याणि तत्र भवास्तान् । अयमर्थः-तुल्यरूपरसगन्धस्पर्शेषु परमाणुषु नित्यत्वामूर्तत्वसर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org