Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 384
________________ NYAYAVATARAḤ 67 , कोऽभ्युपगन्तव्यः, अन्यथा तत्राप्यनवस्थादोषोऽनुषज्येत, निश्चयाश्च सर्वथा स्वरूपं निश्चिनुयुः, नैकदेशेन यतो निश्वयैर्यन्न निश्चीयते रूपं तत्तेषां विषयः कथमिति स्वयमेव स्ववधाय प्रलपितम्, तथा चाद्वयस्य क्षणक्षयिरूपस्य तैर्ग्रहणे विपरीतारोपाभावादादित एव अनुत्थानं संसारस्येति युक्तिरिक्त एवामुक्ताभिमानः स्यात् । न चैवम्, भवभावस्य प्रतिप्राणिप्रसिद्धत्वात् । तन्नायमितरेतरा विनिर्लुठितद्रव्यपर्यायप्रकाशो भ्रान्तः, तद्विपरीतार्थोपस्थापक प्रमाणान्तराभावादिति स्थितम् । यदा तु शून्यवादी निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति पराभिप्रायप्रवृत्तानुमानबलाद् भ्रान्ततामस्य कथयेत्, तदा तं प्रति सालम्बना: सर्वे प्रत्ययाः प्रत्ययत्वात् जाग्रद्दशाप्रत्ययवदिति विपरीतानुमानमुपढौकनीयम् । स यदि दृष्टान्तस्य साध्यविकलतामुद्भावयेत् तदा तद्दृष्टान्तेऽपि सा दर्शनीया । यदि पुनरसौ स्वप्नप्रत्ययस्य निरालम्वनत्वं भवद्भिरभिप्रेतमिति विलपन्नासितुं न दद्यात्, तदास विकल्पतः पर्यनुयोज्यः - अस्मदभ्युपगमः प्रमाणं भवतोऽप्रमाणं वा प्रमाणं चेत्, यथा तद्बलाद् दृष्टान्तसमर्थनं तथा जाग्रत्प्रत्ययगोचरार्थसमर्थनमपि किं न कुरुषे, कोऽयमर्धजरतीयन्यायः । अथाप्रमाणम्, एवं सति स्वप्नप्रत्ययनिरालम्वनतासाधकं प्रमाणान्तरं मृगणीयम्, किमनेन कुशकाशावलम्बनेन । तत्रापि प्रमाणान्तरे विकल्पयुगल ममलमवतरति, तत् किं निरालम्बनम्, सालम्बनं वा; निरालम्बनं चेत्, नान्यप्रत्ययस्य निरालम्वनतां गदितुं पटिष्ठं निर्गोचरत्वात् । अथ सालम्बनम्, हन्त हतोऽसि, निरालम्वनाः सर्वे प्रत्यया इति प्रतिज्ञातक्षतेः, अनेनैव व्यभिचारादिति शठः प्रतिशठाचरणेन निर्लोठनीयः । तन्नास्यानैकान्तिकत्वम् । विरुद्धताशङ्का पुनर्दुरापास्तप्रसव, प्रमाणप्रकाशितेऽर्थे सर्ववादिनां तथाभ्युपगमाविगानादिति । अनेन संशयविरोधानवस्थावैयधिकरण्यासंभवादिदूषरणानि निर्मूलकमिथ्याविकल्पोत्थापितानि प्रतिभासमुद्गरनिपातनिर्दलितमस्तकत्वान्न जीवितुमुत्सहते इति । तस्मादसिद्धतादिदोषादिना कृतोऽयं तथाप्रतिभासलक्षणो हेतुरनेकान्तगोचरतां प्रमाणस्य परानभ्युपगमयति, इत्यलं विस्तरेण । तस्मात्तस्यैव तत्र प्रतिभासनात् सर्वसंविदामनेकान्तात्मकं वस्तु गोचर इति स्थितम् । प्रवर्तत । किं चेत्यादि । श्रयमभिप्रायः किल - सितपीताद्यनेकाकारनिर्णयः स्वसंवेदनापेक्षया भवदभिप्रायेणाद्वरूप:, अनवस्थाभयाच्च स्वयं निर्णयेन स्वरूपं निर्णेतव्यम् तदपि सर्वथा, अन्यथा सितपीतादिनिर्णयेन यत् सितपीतादिनिर्णय रूपं स्वरूपं न निर्णीयते, श्रद्वयात्मकमपि तदात्मना तत् स्वरूपं तस्य निर्णयस्य विषयः कथम् ? नैव स्यादित्यर्थः । एवं चाद्वये गृहीते अनेकाकारारोपाभावादनुत्थानं संसारस्येति । पराभिप्रायेति । परोभ्युपगतानुमानो जैनादिः । श्रननेति । प्रमाणनिर्णीतेऽविसंवादेन । संशयविरोधानवस्था वैयधिकरण्यासंभवादिति । नित्यानित्याद्यनेकधर्मकत्वे वस्तुनोऽभ्युपगम्यमाने नित्यवस्तुनोऽभ्युपगम्यमाने नित्यमिदं वस्त्वनित्यं चेत्येकस्यावधारणद्वारेण निर्णीतेरभावात् संशयः । तथा यदेव वस्तु नित्यं तदेवानित्यमिति विरोधः, नित्यानित्ययोः परस्परपरिहारेणावस्थानात् । यदि पुनर्नित्यमनित्यात्मना, अनित्यं नित्यरूपतया व्यवस्थितं स्यात्; तदा नित्यानित्यत्वयोरविशेषात् प्रतिनियतव्यवहारोच्छेदः । तथा येनांशेन नित्यं तेनांशेन किं नित्यमेव, प्राहोस्वित् तेनाप्यंशेन नित्यमनित्यं वेति । तत्राद्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414