Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 378
________________ 61 NYAYĀVATĀRAN नेकावयवत्वप्राप्तेः । अथ भिन्नास्तेष्वपि ते कथं वर्तन्ते इति वाच्यम्, एकदेशेन सामस्त्येन वा। एकदेश पक्षे तदेवावर्तते इत्यनवस्था । अथ सामस्त्येनतदप्यसाधीयः, प्रत्येक परिसमाप्ततया संयोगादिबहुत्वप्रसङ्गात्तदभिन्नाः पुन संयोगादयो न विकल्पभाजो भवन्ति । अभेदपक्षेऽपि संयोगादिमात्रं संयोग्यादिमात्रं वा स्यादिति चेन्न, तस्याप्येकान्तेनानभ्युपगमात्, किं तर्हि अन्यान्याविश्लिष्टस्वरूपा विवक्षया संदर्शनीयभेदाः सर्वे एवैतेऽभ्युपगम्यन्ते, तथाविधानां कुयुक्तिविकल्पोत्थापितदूषणसमूहनिराकरणक्षमत्वात्, अबाधितप्रतिभासेषु सर्वत्र तेषां तथैव प्रतिभासनात, अन्यथा प्रतिभासमानानामन्यथा परिकल्पने दृष्टहान्यदष्टपरिकल्पनाद्वारेणासमञ्जसप्राप्तेः, तथा च ब्रह्माद्वैतशून्यवादादयः सिद्धिमश्नुवीरन्, विशेषाभावादिति ।। ___ एतेनास्य हेतोः कापिला अप्यसिद्धतादिदोषमभिधित्सवो मौक्यमानीताः । तथा हि-अन्तरेकं संवेदनमपरापरहर्षविषादाद्यनन्तधर्मविवर्ताक्रान्तरूपं वहिश्च घटादिकमर्थं नवपुराणादिवर्तुलपार्थिवत्वाद्यनेकस्वभावावष्टब्धशरीरं साक्षाल्लक्षयन्तः कथं तद्विपरीतकथने प्रवर्तेरन् ? प्रकृतिपुरुषात्मकं द्रव्यमेवैकं तात्त्विकम्, पर्यायभ्रान्तिजनकः पुनर्विवर्तोऽपारमार्थिक इति चेन्न, द्वयोरपि सर्वप्रमाणेषु प्रकाशमानयोरवाधितयोः सर्वव्यवहारनिवन्धनयोः पक्षपातमन्तरेणैकस्य निह्नोतुमशक्यत्वात् । तथा सति विवर्त एव तात्त्विकः, द्रव्यं पुनरलीकमिति पर्यायपक्षपाती प्रसञ्जयन् दुनिषेधः स्यादिति । अथेत्थमभिदधीथाः-द्रव्यं सर्वत्राव्यभिचरितरूपत्वात् सत्यम्, पर्याया: पुनर्व्यभिचारिण इत्यसत्याः । तदयुक्तम्, यदि नाम द्रव्यमभेदरूपत्वात् सर्वत्रानुवर्तते, पर्यायास्तु भेदरूपत्वात् व्यवच्छिद्यन्ते, तथापि तत्सत्यम् इतरेऽलीका इति वक्त न पार्यते, न हि नीलं पीतरूपतां न विति इत्येतावता तदसत्यम्, अतिप्रसङ्गात्, सर्वस्य पररूपपरिहारावस्थायितयालीकत्वप्राप्तेः । अथ द्रव्यमेव पर्यायास्तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, न सन्ति वा द्रव्यव्यतिरेकिणः पर्यायाः निःस्वभावत्वात् खपुष्पवत् इति प्रमाणयसि, तथा सति पर्याया एव द्रव्यं, तदव्यतिरिक्तत्वात् तत्स्वरूपवत्, नास्ति वा पर्यायव्यतिरिक्तं द्रव्यम् निष्पर्यायत्वात् आकाशकुसुमवदिति इतरोऽपि प्रमाणयन् केन वार्यते । तन्न पक्षद्वयेऽपि काचिद्विशेषोपलब्धिरिति । यथैवानन्तसहक्रमवर्तिपर्यायाध्यासितं वस्तु सर्वप्रमाणेषु प्रकाशते तथैवाभ्युपगन्तव्यम्,तथा चान्यस्याभावात् तदेव तद्गोचर इति स्थितम् ।। तथा सुगतमतानुसारिणामपि मध्ये सौत्रान्तिकस्तावदस्य हेतोरसिद्धातामाविर्भावयितुं नोत्सहते, तदभ्युपगतिव्यतिरेकेण निजदर्शनव्यवस्थानुपपत्तेः । तथा नव संयोगे लब्धे गोबलीवर्दन्यायेनात्यन्त प्रसिद्धत्वात् गुणेभ्यो निष्कृष्य पृथक् संयोगस्योपादानम, गुणास्तु रूपादयो द्रष्टव्याः, प्रादिशब्दाद् द्रव्ये कम्पादिकर्मणो वृत्तौ दूषणपरिग्रहः । तेषां संयोगादीनाम् । दृष्टेत्यादि । संयोग्यादिभ्यः कथंचिद्भिन्नाः संयोगादय इति दृष्टम, घटपटादिवदेकान्तभेदिनः संयोगादय इति स्वप्नेऽप्य इन्टम्, तयोर्हानिपरिकल्पने त एव द्वारं तेन ॥ सौत्रान्तिक इति। 'सूत्र अवमोचने' चुरादावदन्तः, ततः सूयते निीयते तत्त्वमनेनेति स्वरान्तत्वादलि सूत्रमागम: तस्यायं सौत्रः, अन्तः परिनिष्ठा; यदाहुस्तद्वादिन: Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414