Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 377
________________ 60 VAISHALI INSTITUTE RESEARCH BULLETIN NO. i प्रवर्तितुमुत्सहते, तदा तद्विशेषणभूतं प्रमाणं एकान्ते प्रवर्तयिष्यते इति दुरापास्तावकाशा एवैषा वार्ता, तथाप्यनादिमिथ्याभिनिवेशवासितान्तःकरणाः कुदर्शनविप्रलब्धबुद्धयो बहवोऽत्र विप्रतिपद्यन्ते इति सर्व प्रमाणानामनेकान्तगोचरत्वसाधक प्रमाणमभिधीयते । इह यत्प्रमाणं तत्परस्पराविनिर्मुठितानेकधर्मपरिकरितवस्तुनो ग्राहकम्, तस्यैव तत्र प्रतिभासमानत्वात्, इह यद्यत्र प्रतिभाति, तदेव तद्गोचरतयाभ्युपगन्तव्यम् । तद्यथा-निरादीनवनयनप्रभवदर्शने प्रतिभासमानं पाटलतया जपाकुसुमं तथैव तद्गोचरतयाभ्युपगम्यते, परस्पराविभक्तानेकस्वभावाक्रान्तमूर्तिकं च बहिरन्तश्च वस्तु सर्वप्रमाणेषु प्रथते इति, अतस्तदेव तेषां गोचरः । न चेतरेतरविशकलितमिधर्मभाववादिभिः कणभक्षाक्षपादशिष्यकैस्तावदस्य हेतोरसिद्धतादिदोषः प्रतिपादयितुं शक्यः, तदभ्युपगममन्तरेण स्वाभिप्रेतवस्तुनोऽवस्थानाभावात् । तथा हि-एकस्मिन् धर्मिणि बहवो घस्तितो भिन्नतनवः कथं वर्तेरन् ? भेदाविशेषेण सर्वत्र तवत्तिप्रसङ्गात् । तत्रैव तेषां समवायान्नान्यत्र वर्तन्ते इति चेत्, ननु सोऽपि समवायो यद्युपकार्योपकारकभावव्यतिरेकेणापि भवति, ततः सर्वत्राविशेषेण प्रसज्येत, तदभावाविशेषात् अस्त्येवोपकार्योपकारकभाव इति चेत्, हन्त हतोऽसि अनेकोपकारकस्यानेकस्वभावताप्राप्तेः, तद्विरहेऽनेकोपकारकत्वाभावात् । न हि येन स्वभावेनैकस्योपकरोति तेनैव द्वितीयस्य, तस्य तत्रैवोपयुक्तात्वात्, द्वितीयोपकारक स्वभावस्य तदुपमर्दनद्वारेणोत्पत्तेः, इतरथैकमेवोपकुर्वस्तिष्ठेत्, तदेकस्वभावत्वात् । भिन्नाभिः शक्तिभिरुपकरोति न भिन्नैः स्वभावैः, तेन नानेकान्त इति चेत्, तास्तहि कथं वर्तन्ते इति वाच्यम् । समवायाद् इत्युत्तरेऽसावप्युपकार्योपकारकभावमन्तरेण कथं न सर्वत्र इति प्राचीनं चोद्यं पश्चाल्लग्नमनुधावति। उपकार्योपकारक भावाभ्युपगमे पुनरप्यनेकस्वभावतां प्रदर्शितयुक्तेः पुनः शक्त्युपकारकभिन्नशक्तिपरिकल्पनेऽप्यनेकान्तान्मोक्षः इति वरमादावेव मत्सरितां विहायानेकधर्माध्यासितं वस्त्वभ्युपगतं किं भेदकल्पनयास्थान एवात्मना परिक्लेशितेन इति । किं चानेकान्तभ्युपगमे सत्येष गुणः-परस्परविभक्त षु संयोगिसंयोगसमवायिसमवायगुणिगुणावयवावयविव्यक्तिसामान्यादिषु संयोगसमवायगुण्यवयविसामान्यादीनां संयोगिसमवायिगुणावयविशेषादिषु वर्तनचिन्तायां यदूषणजालमुपनिपतति, तदपि परिहृतं भवति, एकान्तभेद एव तदुपपत्तेः, अनेकान्ते तदुत्थानाभावात् । तथा हि-भिन्नाः खलु संयोगादयः संयोग्यादिभ्यो विकल्पयितुं पार्यन्ते-यदुत कथमेत एतेषु वर्तन्ते इति । किमेकदेशेन यद्वा सामस्त्येन। यद्येकदेशेन, तदयुक्तम्, तेषां निरवयवत्वाभ्युपगमात्, सावयवत्वेऽपि तेभ्योऽवयवेभ्यो यद्यभिन्नाः, ततोऽनेकान्ताः पत्तिः, एकस्या निरादीनवेति । प्रादीनवो दोषः । इतरेतरेत्यादि । विविधानि शकलानि येषां तानि विशकलानि, तानि करोतीति इनि विशकल्यन्ते पृथक क्रियन्ते स्मेति कर्मणि क्तः, विविधानि शकलानि संजातानि येषामिति तारकादेराकृतिगण त्वात् इतच्प्रत्ययो वा, तत् इतरेतरं विशकलिताविति विशेषणसमासे तेषां धर्ममिभावं वदन्तीत्येवंशीलास्तैः । परस्परविभक्तेषु संयोगिसंयोगसमवायिसमवायगुरिणगुणावयवावयविव्यक्तिसामान्यादिष्विति प्रत्र गुणग्रहणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414