Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 376
________________ NYĀVĀVATĂRAH संवेदनमस्ति इति, न भवतः, तथाविधपुरुषसंभवानभ्युपगमात , इतरथा य एव कश्चिनिश्चित्येवमभिदध्यात्, स एव समस्तवस्तुविस्तारव्यापिज्ञानालोकः इति समस्तार्थगोचरसंवेदनसिद्धिरित्यास्तां तावत् ।।२७।। तदेवं प्रमाणविषये लक्षणसंख्याविप्रतिपत्ती निराकृत्याधुना क्रमप्राप्तां गोचरविप्रतिपत्ति बहुवक्तव्यत्वादनिराकृत्य तावत् फलविप्रतिपत्ति निराचिकीर्षुराह प्रमारणस्य फलं साक्षादज्ञानविनिवर्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥२८॥ द्विविधं हि प्रमाणस्य फलम्-साक्षादसाक्षाच्च, अनन्तरं व्यवहितं चेत्यर्थः । तत्र साक्षादज्ञानमनध्यवसाय: प्रमेयापरिच्छित्तिस्तस्य विनिवर्तनं विशेषेण प्रलयापादनं प्रमाणस्य फलम्, अज्ञानोद्दलनद्वारेण तस्य प्रवृत्तेः, तस्य च सर्वानर्थमूलतया प्रमात्रपकारित्वात् तन्निवर्तनस्य प्रयोजनता युक्तव, एतच्चानन्तरप्रयोजनं सर्वज्ञानानामेकरूपत्वात् सामान्येनोक्तम्। व्यवहितप्रयोजनं पुनर्विभागेनाहकेवलस्य सर्वज्ञज्ञानस्य सुखं वैषयिकसुखातीतपरमालादानुभवः, उपेक्षा साक्षात् समस्तार्थानुभवेऽपि हानोपादानेच्छाभावान्मध्यस्थवृत्तिता, ते सुखोपेक्षे फलमित्यर्थः। शेषस्य तद्व्यतिरिक्तप्राकृतलोकप्रमाणस्यादानं ग्रहणं हानं परित्यागस्तयोरादानहानयो(बुद्धिरादानहानधीः सा फलं इति यावत् । ततश्चादेयानां सम्यग्दर्शनादि-स्त्रक्चन्दनादीनां यादित्सा, तथा हेयानां मिथ्यादर्शनादिविषकण्टकादीनां या जिहासा प्रमाणसाध्या, अप्रमाणात् तदसिद्धेः, प्रेक्षापूर्वकारिणां ततः प्रवृत्त्ययोगादित्युक्त भवति ॥२८॥ अधुना गोचरविप्रतिपत्ति निराचष्टे अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥२६॥ अनेके बहवोऽन्ता अंशा धर्मा वा आत्मानः स्वरूपाणि यस्य तदनेकान्तात्मकम् । किं तत् ? वस्तु बहिरन्तश्च, गोचरो विषयः सर्वसंविदां समस्तसंवित्तीनाम् । अनेनानेकान्तमन्तरेण संवेदनप्रसरव्यवच्छेदं दर्शयति, भ्रान्तसंवेदनानामप्यनेकान्तोद्योतनपटिष्ठतया प्रवृत्तः, केवलं केषुचिदंशेषु विसंवादकत्वादप्रमाणानि तानि संगीर्यन्ते । तदयमभिप्रायः-यदा संवेदनसामान्यमप्यनेकान्तविरहेण न अज्ञानोद्दलनद्वारेणेति । अज्ञान मुद्दल यदेव प्रमाणं प्रवर्तते इति । किमुक्तं भवति ? न प्रमाणात् फलमेकान्तेन भिन्नमभिन्नं वा, भेदाभेदरूपतयैवान्तररंपरभेदस्य प्रतिभासनात् । तथा हि-यस्यैवात्मनः फलरूपतयापि तस्यैव सः, य एव प्रमिमीते स एव निवृताज्ञानो जहात्याददाति उपेक्षते चेति प्रतीतः । एष चैकप्रमापेक्षया प्रमाण फलयोरभेदः, करणक्रियापरिणामभेदाच्च भेदः उक्तं च-- पारंपर्येण साक्षाच्च फलं द्वेधाभ्यधायि यत् । जिनैभिन्न मभिन्नं च प्रमाणात्तदिहोदितम् ॥२८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414