Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 368
________________ NYAYAVATARAN 51 बुद्धयाध्यारोप्य हेतुतयोच्यमानं नासिद्धतयोद्भावनीयम्, विशेषाभावात् । अचाक्षुषत्वव्यच्छेदेन चाक्षुषत्वं बुद्धयाध्यारोपयितुं पार्यते, न यथा कथंचित्, न चासो शद्धेऽस्ति, अचक्षुाह्यत्वात् तस्य, तेनायमदोष इति चेत्, कोऽयमचाक्षुषत्वव्यवच्छेदो नाम, व्यवच्छेदमात्रं नीरूपं व्यवच्छिन्नं वा स्वलक्षणं, व्यवच्छेदिका वा बुद्धिः स्वांशमग्नापि बहिर्वस्तुग्रहणरूपतया प्लवमाना, नापरो वस्तुधर्मो यत्र भेदाभेदविकल्पद्वारेण दूषणं दित्सुर्भवानिति चेत्, तर्हि स शद्धे नास्ति इति कैषा भाषा, एवं हि नभःपुण्डरीकं तत्र नास्तीति सत्त्वादिकमपि कल्पयितुं न शक्यमिति प्रसज्येत । किं च। ते साधनधर्मा धर्मिणि भवन्तोऽपि न भवदर्शने प्रतीतिमारोहन्ति, प्रत्यक्षस्य विकल्पविकलतया धर्मनिर्णयशून्यत्वात्, तदुत्तरकालभाविन्या वासनावोधजन्याया विकल्पबुद्धेः स्वांशग्रहणपर्यवसितशरीरत्वेन बहिः स्वलक्षणे प्रवेशाभावात्, ततश्चाप्रतीतत्वात् सर्वस्यासिद्धत्वम् । नित्यकान्तेऽपि धर्मिणोऽत्यन्तव्यतिरिक्तानामपारमाथिकानां वा स्वसाधनधर्माणां प्रमाणेनाप्रतीतत्वादसिद्धता द्रष्टव्या, धर्मिणोऽविनि ठितरूपाणां पारमार्थिकानां सकलधर्माणां प्रत्यक्षादिप्रमाणप्रसिद्वत्वेन निह्नोतुमशक्यत्वादिति । तथा विरुद्धतापि पक्षद्वयेऽपि सर्वसाधनधर्माणामुन्नेया, अनेकान्तप्रतिबद्धस्वभावत्वेन तत्साधनप्रवणत्वात् । एतच्चोत्तरे वक्ष्यामः । एवं पक्षद्वयेऽपि निर्दिश्यमानाः सर्व एव हेतवोऽनैकान्तिकतामात्मसात्कुर्वन्ति, परस्परविरुद्धाव्यभिचारितत्वात्, समानयुक्त्युपन्यासेन विपक्षेऽपि दर्शयितुं शक्यत्वात् । तथा हि-अनित्यवादी नित्यवादिनं प्रति प्रमाणयति-सर्व क्षणिकम्, सत्त्वात्, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात्, ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदितिक्षणिकत्वसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियायां क्रमेण प्रवर्तितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां प्रवृत्तेः, अन्यथा पूर्वार्थक्रियाकारणाविरामप्रसङ्गात्, तत्स्वभावप्रच्यवे च नित्यता अपयाति, अतादवस्थ्यस्यानित्यलक्षणत्वात् । नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत्, पश्चात् यथा--एकान्तसुखदा मुक्तिरिति । असाविति अचाक्षुषत्वपवच्छेदः । व्यवच्छेदमात्रमित्यादि । अमुना विकल्पत्रयेण चेच्छब्दपर्यन्तेन जैन एव बौद्धाभिप्रायमाशङ्कते । नीरूपं तुच्छम् । स्वलक्षणं घटादि । अयं घटादिरचाक्षुषो न भवति, इति घटादिकमचाक्षुषेभ्यो व्यवच्छेदयन्ती विकल्पिका बुद्धिः स्वांशमग्नापि सर्वचित्तचत्तानामात्मसंवेदनमिति स्वज्ञानाद्वा ग्राहिकापि वस्तुनो वस्तुनि विकल्पानामसंभवः, तथापि अनुभवादिजन्यत्वेन बहिरर्थ ग्राहकतया स्वलक्षणजलस्योपरि तरन्ती। स इति । त्रिविधोऽपि अचाक्षुषत्वव्यवच्छेदः । कैषा भाषेति । किम आक्षेपकत्वात् अकिचित्कारीत्यर्थः । अकिंचित्करत्वमेवातिप्रसङ्गद्वारेण व्यनक्ति-एवं होत्यादि । यथा गगनेन्दीवरं शब्दे नास्तीति सत्त्वादिकमपि तत्र मा भूदिति न किंचित् । एवं तुच्छ व्यवछेदमात्र सर्वथा भिन्नं स्व नक्षणं वस्त्वसंस्पर्शिनी विकल्पबुद्धिश्च शब्दे नास्तीति चाक्षुषत्वमपि तत्र न इत्यप्यसारमेवेति भावः । नित्यैकान्त इत्यादि । धर्मिणोऽत्यन्तव्यतिरिक्तानामिति नैयायिकवैशेषिकाभिप्रायेण । अपारमार्थिकानां वेति अद्वैतवाद्यभिप्रायेण । ततोऽर्थक्रिया व्यावर्तमानेत्यादि । अक्षणिकाक्रमयोगपद्यनिवृत्त्यार्थक्रियाकारित्वं वर्तमानं सत्स्वव्याप्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414