Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 366
________________ NYAYAVATARAḤ दृष्टान्तोदाहृतिरिति न्यायविद्वांसो विदुरवबुध्यन्त इति । इह च प्रकरणे शेषावयवानामुपनयनिगमनशुद्धिपञ्चकलक्षणानां संक्षिप्त रुचि सत्त्वानुग्रहपरत्वादस्य यद्यपि साक्षाल्लक्षणं नोक्तम्, तथाप्यत एव प्रतिपादितावयवत्रयाद् बुद्धिमद्भिरुन्नेयम् ; यतोऽवयवापेक्षया जघन्यमध्यमोत्कृष्टास्तिस्रः कथा भवन्ति । तत्र हेतु प्रतिपादनमात्रं जघन्या । द्वयाद्यवयवनिवेदनं मध्यमा । संपूर्णदशावयवकथनमुत्कृष्टा । तत्रेह मध्यमायाः साक्षात् कथनेन जघन्योत्कृष्टे अर्थतः सूचयति, तत्सद्भावस्य प्रमाणसिद्धत्वादिति ॥२०॥ एवं पक्षादिलक्षणं प्रतिपाद्येदानीं हेयज्ञाने सत्युपादेयं विविक्ततरं वेद्यते इति तद्वदस्ताः पक्षहेतुदृष्टान्ताभासा वक्तव्याः । तत्र तावत् पक्षलक्षणव्युदस्तान् पक्षाभासानाह प्रतिपाद्यस्य यः सिद्धः पक्षाभासोऽस्ति लिङ्गतः । लोकस्ववचनाभ्यां च वाधितोऽनेकधा मतः ॥२१॥ पक्षस्थानोपन्यस्तत्वात् तत्कार्याकरणत्वाच्च पक्षवदाभासत इति पक्षभासः । असावनेकधा अनेक प्रकारो मत इति संबन्धः । कथमित्याह - प्रतिपाद्यस्य प्रतिवादिनो यः कश्चित् सिद्धः प्रतीतावारूढ एव स पक्षाभासः, साध्यस्यैव पक्षत्वात्, सिद्धस्य साधनानर्हत्वाद्, प्रतिप्रसक्त ेः । तथा अक्षलिङ्गतोऽध्यक्षहेतुभ्यां लोकस्ववचनाभ्यां च बाधितस्तिरस्कृतो यः स पक्षाभासः । तत्र प्रतिपाद्यसिद्धो यथापौद्गलिको घटः, सौगतं वा प्रति सर्वं क्षणिकमित्यादि । प्रत्यक्षवाधितो यथानिरंशानि स्वलक्षणानि, परस्परविविक्तौ वा सामान्यविशेषाविति । अनुमानबाधितो यथा - नास्ति सर्वज्ञ इति । लोकबाधितो यथा--गम्या माता इति । स्ववचनबाधितो यथा- न सन्ति सर्वे भावा इति ॥ २१ ॥ 49 सांप्रतं हेतुलक्षणं स्मारयन् तदपास्तान् हेत्वाभासानाहअन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् । तदप्रतीति संदेहविपर्यासंस्तदाभता ॥२२॥ हेतोर्लक्षणमसाधारणधर्मरूपं यदीरितं गमितम्, अनेकार्थत्वाद् धातोः प्रतिपादितं, स्वार्थानुमानप्रस्तावे यदुतान्यथानुपपन्नत्वमिति, तस्याप्रतीतिरनध्यवसायः, तद्वदस्ता इति । पद्मादिलक्षण रहिताः । अध्यक्षहेतुभ्यामिति । हेतु लिङ्ग, कारणे कार्योपचारात्; तत्प्रभवं ज्ञानमपि हेतुरनुमानमित्यर्थः । अनुमानबाधित इति । तच्च क्वचिदसर्वज्ञे सर्वज्ञशब्दो मुख्य सर्वज्ञापेक्षः, गौणत्वात् माणवकेऽग्निशब्दवत् यद्वा ज्ञानतारतम्यं क्वचिद्विश्रान्तम्, तारतम्यत्वात् श्राकाशपरिमाणतारतम्यवत् यत्रतद्विश्रान्तं स सर्वज्ञः । तथा सदसद्वर्गः कस्यचिदेकज्ञानालम्बनः श्रनेकत्वात् पञ्चाङ्गुलवत् । तथा कश्चिदात्मा सर्वार्थ साक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीण प्रतिबन्धकत्वात् यथा अपगततिमिरादिप्रतिबन्धं चक्षुर्ज्ञानं रूपसाक्षात्कारि । एवं ज्ञानं क्वचिदात्मनि प्रकर्षवत्, स्वावरणहान्युत्कर्षे सति प्रकाशात्मकत्वात् चक्षुर्दीपादिवत्, स्वावरणहान्युत्कर्षस्तु श्रावरणहानिः क्वचिज्जीवे परकाष्ठा प्राप्ता, प्रकर्षत्वात् परिमाण वदित्यनुमानात् ॥ २१॥ ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414