Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 365
________________ 48 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तदसिद्धावनुमानानुत्थानादिति। अनुमानात्संबन्धग्रहणे निरवधिरनवस्थानुषज्येत, संबन्धग्राहिणोऽप्यनुमानस्य पुनः संबन्धान्तरग्रहणसव्यपेक्षत्वादिति । अत्रोच्यतेप्रत्यक्षानुमाने द्वे एव प्रमाणे इति येषां मिथ्याभिनिवेशः, तेषामेष दोषो नास्माकम्, अन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भोत्तरकालभाविनोऽव्यभिचरितत्रिकालव्यापिगोचरस्य मतिनिबन्धनस्योहसंज्ञितस्य प्रमाणान्तरस्य संबन्धग्राहितयेष्टत्वात, तदनिष्टौ दृष्टव्यवहारविलोपप्रसङ्गात , तद्विलोपे च विचारानर्थक्यप्राप्तेरिति । अत्र प्रकरणे पुनरनुमानात् पार्थक्येनोहो न दर्शितः, संक्षिप्तरूचिसत्त्वानुग्रहप्रवृत्तत्वादस्य, शाब्दं तु पृथक् समथितम्; तस्यात्रैव परार्थानुमानोपयोगित्वादित्यास्तां तावत् ॥१८॥ इदानीं वैधर्म्यदृष्टान्तमुपदर्शनन्नाह साध्ये निवर्तमाने तु साधनस्याप्यसंभवः। ख्याप्यते यत्र दृष्टान्ते वैधयेरणेति स स्मृतः ॥ १६ ॥ विसदृशो धर्मोऽस्येति विधर्मा, तद्भावो वैधर्म्यम्, तेन वैधhण दृष्टान्तः । कीदृश इत्याह-साध्ये गम्ये निवर्तमाने असंभवति, तुशब्दोऽवधारणार्थो भिन्नक्रमः, स च साधनस्यासंभव एवेत्यत्र द्रष्टव्यः । ख्याप्यते प्रतिपाद्यते यत्र क्वचित् दृष्टान्ते स वैधपेण भवति, इतिशब्देन संबन्धस्मरणादिति ॥१९॥ इदमत्रापि संबध्नाति-अस्यापि स्मर्यमाणे संवन्धे प्रयोगायोगादिति किमर्थं विस्मृतसंबन्धे एव प्रतिवादिनि दृष्टान्तः प्रयुज्यते नान्यदा, इति परवचनावकाशमाशझ्याह अन्तर्व्याप्त्येव साध्यस्य सिद्धर्बहिरुदहृतिः । व्यर्था स्यात्तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ अन्यदा हि स्मर्यमाणे वा संबन्धे प्रयुज्येत, अगृहीते वा । यद्याद्यः पक्षः, सोऽयुक्तः, यदा सर्वत्र साध्याविनाभाविनं हेतु स्मरति प्रतिपाद्यः, तदा पक्षेऽपि तमवबुध्य कथं साध्यं न प्रतिपद्यत ? ततश्चान्तः पक्षमध्ये व्याप्तिः साधनस्य साध्याक्रान्तत्वमन्ताप्तिः, तयैव साध्यस्थ गम्यस्य सिद्धेः प्रतीतेः वहिर्विवक्षितधर्मिणोऽन्यत्र दृष्टान्तर्मिण्युदाहृतिः व्याप्तिदर्शनरूपा व्यर्थी निष्प्रयोजना, तत्प्रत्याय्यार्थाभावादिति । द्वितीयपक्षस्यापि निर्दोषतां निरस्यन्नाह-तदसद्भावेऽप्येवम् संबन्धाग्रहणादन्ताप्त्यभावेऽप्येवमिति व्यर्थैव बहिरुदाहृतिः, न हि सहदर्शनात् क्वचित् सर्वत्र तद्रूपता सिध्यति, व्यभिचारदर्शनात् । तस्मादगृहीतसंबन्धे प्रतिपाचे प्रमाणेन प्रतिबन्धः साध्यः, तत्सिद्धौ तत एव साध्यसिद्धरकिंचित्करी सधर्मेति । धर्मादन् केवलात् इति बहुव्रीही धर्मशब्दादन समासान्तः । तनिर्णयः संबन्धनिर्णयः । तस्येत्यादि । शब्दस्य परोपदेशरूपतया कृत्वा शब्दजन्यज्ञानस्य स्वार्थानुमानत्वं भवतीत्याह-तत्रेत्यादि । तत्र स्वार्थानुमाने ॥१८॥ विधर्मेति । पूर्ववदन् ।।१६।। अन्यवाहीति । संबन्धविस्मरणभावे ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414