Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
View full book text ________________
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
अन्यथा इति उक्तविपरीताश्रयणे पक्षप्रयोगाकरणे इत्यर्थः। वादिनो हेतूपन्यासकर्तुरभिप्रेतोऽभिमतः स चासौ हेतुगोचरश्च वाद्यभिप्रेतहेतुगोचरः, तत्र मुह्यति दोलायते तच्छीलश्च यः, तस्य प्रत्याय्यस्य प्रतिवादिनो हेतुः विरुद्धारेकितो भवेद् विरोधशङ्काकलङ्कितः स्यादित्यर्थः। ततश्च सम्यगहेतावपि विपक्षे एवायं वर्तते इति व्यामोहाद् विरुद्धदूषणमभिदधीत, पक्षोपन्यासात्तु निर्णीतहेतुगोचरस्य नैष दोषः स्यादित्यभिप्रायः । अमुमेवार्थं स्पष्टदृष्टान्तेनाह यथा इति । तदुपन्यासार्थः ।। १५ ।।
धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः।
धानुष्कस्य विना लक्ष्यनिर्देशेन गुरणेतरौ ॥१६॥ यथा लक्ष्यनिर्देशं विना धानुष्कस्येषु प्रक्षिपतो यौ गुणदोषौ तौ तद्दशिजनस्य विपर्यस्तावपि प्रतिभातः, गुणोऽपि दोषतया दोषोऽपि वा गुणतया, तथा पक्षनिर्देशं विना हेतुमुपन्यस्यतो वादिनो यौ स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षणी गुणदोषौ तौ प्राश्निकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थः । अक्षरार्थस्तु धनुषा चरति धानुष्कस्तस्य गुणो लक्ष्यवेधप्रावीण्यलक्षणस्तत्र प्रेक्षकाणां कुतूहलमिति तस्यैवोपादानम्, अन्यथा दोषोऽपि दृष्टव्यः, तत्संप्रेक्षिजनस्य तत्संप्रेक्षणशीललोकस्य परिविध्यतो यथाकथंचिद् वाणं मुञ्चत इत्यर्थः, धानुष्कस्य विना लक्ष्यनिर्देशेन चापधरस्य वेध्यनिष्टङ्कनमृते यौ गुणेतरौ गुणदोषौ तौ यथा विरुद्धारेकितौ भवतः, तथा वादिनोऽपीत्यर्थः । तस्मादविज्ञाततदर्थे प्रतिवादिनि वादिधानुष्केण पक्षलक्ष्यं निर्देश्यैव हेतुशरः प्रयोक्तव्य इति स्थितम् ।। १६ ॥
सांप्रतं हेतोर्लक्षणावसरः, तच्च स्वार्थानुमानवद् निविशेषं द्रष्टव्यम्, प्रयोगस्तु तत्र न दर्शितः, स्वार्थानुमानस्य बोधरूपत्वात्, इह तु दर्शनीयः, परार्थानुमानस्य वचनरूपत्वात , अतस्तं दर्शयति
हेतोस्तथोपपत्या वा स्यात्प्रयोगोऽन्यथापि वा।
द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥१७॥ स्वार्थानुमानप्रस्तावे हि परप्रणीतलक्षणान्तरव्यपोहेन साध्यव्यतिरेकात सामस्त्येन हेतोर्व्यावृत्तिरेवैकं लक्षणमिति निर्णीतम्, परार्थानुमानेऽपि तदेव प्रकाशनीयम्, वचनरचना तु क्वचित कथंचित प्रवर्तत इत्यभिप्रायवांस्तवैविध्यमाह हेतोद्विविधः प्रयोगः स्यादिति संबन्धः । कथमित्याह–तथैव साध्यसद्भावे
विरुद्धदूषणमभिवधीतेति । यत् कृतकं तदनित्यम्, यथा घटः, कृतकश्च शब्द इत्युक्ते हि यद्यपि नित्यत्वे साध्ये कृतकत्वमत्र हेतूकृतम्, कृतकत्वानित्यात्वयोश्च व्याप्तिर्दशितेत्येवं विरुद्धतामभिदध्यादिति भावः ।।१५।।
धनुषा चरतीति । अस्मिन् वाक्ये तेन इति सूत्रेण चरत्यर्थे ठक् । इत्कु इक इति बाधनार्थ को शश्चात्त'द्दोरिसुसः इत्यनेन कादेशः । अविज्ञाततदर्थ इति । अविदितपक्षार्थे ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414