Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 362
________________ NYÄYĀVA TARAH पसंहरणमनर्थकता प्राप्नुवतं केन निवार्यत । तदभावे हेतोः सामर्थ्यं नावगम्यते तेन सार्थकमिति चेत , पक्षादीनपि विरहय्य प्रतिपाद्यविशेषः प्रतिपादयित्न पार्यते इति तेषामपि सार्थकतां नं दुरुपपादेति मुच्यतामाग्रहः । तस्माद्धेतूवत पक्षादयोऽपि साधनम्, हेतोरपि क्वचित प्रतिपाद्ये तदपेक्षतया तन्निरपेक्षताऽसिद्धेरिति, तदिदं सकलमाकलय्योक्त तत्पक्षादिवचनात्मकमिति ।।१३।। तदेवमर्थतः पक्षादीन् प्रस्तुत्य तावत् पक्षलक्षणमाहसाध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥१४॥ पच्यत इति पक्षः, व्यक्तीक्रियते इति भावः । किभत इत्याह-साध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः । किमभ्युपगममात्रम् ? नेत्याह-प्रत्यक्षाद्यनिराकृतः इति । प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दादनुमानस्ववचनलोका गृह्यन्ते, तैरनिराकृतोऽबाधितः पक्ष इति संबन्धः । तद्यथा-सर्वमनेकान्तात्मकम्, अस्ति सर्वज्ञः इत्यादि वा, अयं च . केवलमेष्टव्यो न पुनः परार्थानुमानकाले वचनेनाभिधातव्यः इति यो मन्येत तं प्रत्याह-तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । कुत इत्याह-हेतोः प्रानिरूपितस्य गोचरदीपक इति, निमित्तकारणहेतूषु सर्वासां प्रायो दर्शनम् इति वचनात्, भावप्रधानत्वाच्च निर्देशस्य, विषयसंदर्शकत्वादित्यर्थः । अयमत्राभिप्राय:-न हि सर्वत्र प्रतिवादिनः प्रक्रमादेव निर्णीतपक्षस्य कूर्चशोभापुरः सरं हेतुरुपन्यस्यते, अपि तु क्वचित् कथंचित् ॥ १४ ॥ - ततो यदाद्यापि प्रतिपाद्यः पक्षार्थं न जानीते, तदा अकाण्डे एव हेतावुच्यमाने विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्यादित्याह अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः । प्रत्याय्यस्य भवेद्ध तुविरुद्धारेकितो, यथा ॥ १५॥ प्रतिपाद्यस्य साकाङ्क्षत्वात् । पश्चात्तस्यैव प्रमाणेन समर्थनमिति । यत् सत् तत्सर्व क्षणिकमिति व्याप्त्यालिङ्गितहेतूपन्यासानन्तरं अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति बाधकप्रमाणेन सत्त्वाख्यहेतोः समर्थनम् । पुनः पक्षधर्मिण्युपसंहरणमिति । कृतकश्च शब्ध इत्यादिरूपम् । तदपेक्षतया पक्षाद्यपेक्षतया ॥१३॥ नहीत्यादि । अयमभिप्राय:-क्वापि निर्णीतपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, क्वाप्य- . निर्णतपक्षे । तत्र यदा निर्णीतपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, यदा निरर्थकत्वात् पक्षोपन्यासोऽस्माभिनं क्रियते एव । द्वितीये तु पक्षे विषयदर्शकत्वेन सफलत्वादवश्यं कार्य एव । कूर्चशोभायाः पुरःसरं प्रथमम् , यस्मिन् हेतावुपन्यस्ते कूचंशोभा संपद्यते, तत्त्वतो वैलक्ष्याभावः, सावष्टम्भता भवतीति यावत्, अथवा कुर्चशोभा पुरःसरं यत्रेति, अस्मिन् पक्षे अयमभिप्रायः-यदा सम्यग्भूतं किंचिद् द्वित्वादिकं प्रतिपादयितुमारभ्यते तदा तत्प्रतिपादनादागपि कुर्चशोभा सावष्टम्भता, श्मश्रूपरामर्शनं वा भवतीति ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414