Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 360
________________ NYAYĀVATĀRA” प्रमातुरुल्लसति, न शब्दात , अतस्तस्यापि परार्थता विशीर्येत । समर्थहेतुकथनात तत्र वचनस्य परार्थतेति चेत , अत्रापि दर्शनयोग्यार्थप्रतिपादनादिति ब्रमः । तन्न प्रत्यक्षपरोक्षयोः पारार्थ्यं प्रति विशेषोपलब्धिरिति मुच्यतां पक्षपातः ॥११॥ तदेवं द्वयोरपि परार्थतां प्रतिपाद्य तत्स्वरूपमाह प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः। प्रत्यक्ष प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥ १२ ॥ यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत् प्रत्यक्षमुच्यत इति संबंधः । तच्च प्रत्यक्षरूपमेवोच्यमानं प्रत्यक्षं, विप्रतिपन्नं प्रति पुनरनुमानद्वारेणोच्यमानमनुमानमेवेति । चशब्देनानेकार्थत्वाद् दर्शयति-वचनं कुतः प्रत्यक्षम् इत्याह-प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद् उपचारेणोच्यत इत्यर्थः ।। १२ ।। अनुमानमाह साध्याविनाभुवो हेतोर्वचो यत्प्रतिपारकम् । परार्थमनुमानं तत्पक्षादिवचनात्मकम् ॥१३॥ हिनोति गमयति अर्थमिति हेतुः, तस्य साध्याविनाभुवः प्रानिरूपितस्य यद्वच: प्रतिपादक संदर्शकं तद् अनुमानप्रकाशहेतुत्वात् परार्थमनुमानम् । तत कीदृशमित्याह-पक्षो वक्ष्यमाणलक्षणः स आदिर्येषां हेतुदृष्टान्तोपनयनिगमनादीनां तानि तथा, तेषां वचनानि प्रतिपादका ध्वनयः, तान्येवात्मा स्वरूपं यस्य तत पक्षादिवचनात्मकम् । ननु च हेतुप्रतिपादकं वचः परार्थमनुमानमित्यभिधाय तत् पक्षादिवचानात्मकमिति वदतः पूर्वापरव्याहता वाचोयुक्तिः, नैतदस्ति, एवं मन्यते नैकः प्रकारः परार्थानुमानस्य, किं तहि यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा यत्नतः प्रत्यायनीयः। तत्र दशावयवं साधनं प्रतिपादनोपायः । तद्यथा- पक्षादयः पञ्च, तच्छद्धयश्च । तत्र यदा प्रतिपाद्यप्रक्रमादेव निर्णीतपक्षोऽविस्मृतदृष्टान्तः स्मार्यप्रतिबन्धग्राहकप्रमाणो व्युत्पन्नमतित्वात शेषावयवाभ्यहनसमर्थश्च भवति, यद्वा अत्यन्ताभ्यासेन परिमितमतित्वात् तावतैव प्रस्तुतप्रमेयमवबुध्यते, तदा हेतुप्रतिपादनमेव क्रियते, शेषाभिधानस्य श्रोतृसंस्कारा तस्येति । प्रत्यक्षस्य । एकविषयतयेति । शब्देन सहेति शेषः, अयमभिप्रायः-सामान्यविशेषात्मकं वस्तु शब्द्वानां गोचरः, प्रत्यक्षमपि कथंचित् सामान्यविशेषात्मकवस्तुविषयम्, ततः सामान्यविशेषात्मकोऽर्थः प्रत्यक्षप्रतिपन्नः परस्मै प्रतिपाद्यमानः परार्थप्रत्यक्षं भवति ॥ ११ ॥ तच्चेति । वचः प्रत्यक्षरूपमिति । पश्य मृगो याति इति प्रत्यक्षरूपतया प्रतिपादकत्वादचोऽपि यथोच्यते ॥ १२ ॥ __ वाचोयुक्तिरिति । पश्यद्वाग्दिशो हरयुक्तिदण्डे (सि० हे० ३-२-३२) इति षष्ठया अलुक्समासः । अविस्मृतेत्यादि । दृष्टान्तेन स्मार्यः स चासौ प्रतिबन्धो व्याप्तिश्च तस्य ग्राहकम्, तच्च तत्प्रमाणं च, ततो न विस्मृतं तद् यस्य स तथा। परिकमितमतित्वादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414