Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 359
________________ VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तदुक्तम् विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि ॥१॥ इति ॥ निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्दजन्यमित्यतोऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां साधयितुमाह प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षेणाप्यनुमानेनेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायकत्वात परार्थत्वं प्रतिपाद्यप्रयोजनत्वं द्वयोरपि प्रत्यक्षानुमानयोः, तुल्यकारणत्वात , नानुमानस्यैवैकस्येत्यभिप्रायः । इह चाश्रूयमाणत्वात् तदर्थगमनाच्च अपीवशब्दौ लुप्तनिर्दिष्टौ द्रष्टव्यौ । प्रत्यक्षप्रतीतार्थप्रत्यायनं च प्रतिजानानस्यायमभिप्रायःयत परो मन्यते, नैतद् गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति । तदयुक्तम्, निर्विकल्पकाध्यक्षापोहेन व्यससायरूपस्य प्रत्यक्षस्य प्रागेव साधितत्वात , तद्गोचरस्य कथंचिद् विकल्पगम्यत्वेन शब्दप्रतिपाद्यत्वात् । तद्यथा अनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानम्, तथा प्रत्यक्षप्रतीतोऽपि परार्थं प्रत्यक्षम्, परप्रत्यायनस्य तुल्यत्वाद्, वचनव्यापरस्यैव भेदात । तथा हि-अनुमानप्रतीतं प्रत्याययन्नवं वचनयति--अग्निरत्र, धूमात, यत्र यत्र घूमस्तत्र तत्राग्निः, यथा महानसादौ, वैधhण वा, अग्न्यभावे न क्वचिद्धूमः, यथा जलाशयादौ, तथा धूमोऽयम्, तस्माद् धूमादग्निरोति । अव्युत्पन्नविस्मृतसंबन्धयोस्तथैव प्रतिपादयितुं शक्यत्वात , स्मर्यमाणे संबन्धे पुनरेवम्-अग्निरत्र धूमोपपत्तेः। वैधhण-अग्निरत्र, अन्यथा धूमानुपपत्तेः । प्रत्यक्षप्रतीतं पुनर्दर्शयन्नेतावक्ति–पश्य राजा गच्छति, ततश्च वचनाद्विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्यानुमेयप्रत्यक्षार्थविषया यतः प्रतीतिरुल्लसति, अतो द्वयोरपि परार्थतेत्याह-परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीति प्रति प्रतिपादकस्थप्रत्यक्षानुमाननिरीतार्थप्रकाशनकारणत्वादित्यर्थः । एतेन पूर्वकारिकोक्तोपचार. कारणं च लक्षयति । यच्चोक्तम्-न शब्दात परस्य प्रत्यक्षोत्पत्तिः, तस्य विकल्पजनकत्वात, प्रत्यक्षस्य स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् । तदयुक्तम्, सामान्यविशेषात्मकार्थविषयस्य निर्णयरूपस्य तस्य कथंचिदेकविषयता शब्दोत्पाद्यत्वाविरोधात , एवंविधस्य च प्रागेव समर्थनात । चक्षुरादिसामग्रीतस्तदुत्पद्यते न शब्दादिति चेत् । अनुमानमपि प्रत्यक्षादिनिश्चिताद् हेतोरविस्मृतसंबन्धस्य शब्दोत्पत्तौ परसंताने ज्ञानोत्पादादिति । विकल्पयोनय इति । विकल्पी योनि: कारणं येषां तथा ॥१०॥ प्रतिपादकस्थेत्यादि । प्रतिपादकस्थं प्रत्यक्षानुमाननिर्णीतार्थस्य प्रकाश्यतेऽर्थः परेभ्योनेनेति प्रकाशनं वचनं कारणं यस्य परस्य, तस्य भावस्तत्त्वं तस्मात् । एतेनेति । परप्रतीति प्रति वचनस्योपायताप्रदर्शनेन पूर्वकारिकोक्तेति वाक्यं तदुपचारतः इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414