Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 358
________________ ___41 NYAYĀVATĀRAŤ इष्टो वचनान्तरेण, तयोविरोधकम्, तद्विरुद्धार्थाभिधानात , ततोऽन्यददृष्टेष्टविरोधकम्, अबाधार्थाभिधायीत्यर्थः । तदियता शास्त्रस्य स्वार्थसंपदुक्ता, अधुना तत्त्वोपदेशादीनां परार्थत्वात् परार्थसंपदमाह-तत्त्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितत्वात, तेषामुपदेशः स्वरूपप्रकाशनम्, तद्रक्षणादिविधानं वा, तं करोति तत्त्वोपदेशकृत , अत एव सार्वं सर्वस्मै हितम्, प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात । एतेन परार्थसंपादकत्वमुक्तम् । अधुना परेषामेवानर्थपरिघातित्वमाह-कुत्सिताः पन्थानः कापथाः तीर्थान्तराणि, तेषां घट्टनं विचालकं निराकारकम्, सर्वजनापकारिकुमतविध्वंसकमित्यर्थः । ईदशादेव शास्त्राज्जातं शाब्दं प्रमाणम्, नान्येभ्यः, विप्रलम्भकत्वात्तेषामिति ॥६॥ अधुना परार्थानुमानलक्षणं वक्तव्यम्, तच्च प्रत्यक्षेऽपि पश्यन् एकयोगक्षेमत्वात सामान्येनाह स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः । परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥१०॥ अत्र परार्थं मानमिति लक्ष्यम्, स्वनिश्चयवदित्यादि लक्षणम्, स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः, तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदज्ञानप्रादुर्भावनम्, यथा आत्मनोऽर्थनिर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधैर्विद्वद्भिः । परस्मै अर्थः प्रयोजनं येन तत् परार्थम्, मीयतेऽनेनेति मानम्, पाख्यातं कथितम् । ननु च यदि निश्चयोत्पादनं परार्थमानम्, तथा ज्ञानमपि परप्रत्यायनाय व्याप्रियमाणं परार्थं प्राप्नोतीत्याह-वाक्यं परार्थं, न ज्ञानम्, तस्यैवानन्तर्येण व्यापारात , परप्रयोजनमात्रत्वाच्च, इतरस्य तु व्यवहितत्वात, स्वपरोपकारित्वाच्च । कथं वचनमज्ञानरूपं प्रमाण मित्याह-तदुपचारतः तस्य ज्ञानस्योपचारोऽतद्रूपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् । तत इदमुक्तं भवति-- प्रतिपाद्यगतमुत्पश्यमानं यज्ज्ञानं तदव्यवहितकारणत्वाद् वचनमप्युपचारेण प्रमाणमित्युच्यते । तत्रानुमानस्य पारायं परैरभ्युपगतमेव प्रत्यक्षस्य न प्रतिपद्यन्ते किलेदं शब्दप्रवेशशून्यं स्वलक्षणग्राहीति नैतद्गोचरः परेभ्यः प्रतिपादयितुं पार्यते । न च शब्दात् परस्य स्वलक्षणग्रहणदक्षं प्रत्यक्षमुन्मक्ष्यति, शब्दस्य विकल्पोत्पादितत्वेन परस्यापि विकल्पोत्पादकत्वात् । सर्वस्मै हितमिति । अस्मिन् वाक्ये सर्वाण्णो वा (सि० हे०७-१-४३) इति हितेऽर्थे णप्रत्ययः। विश्वजनीनत्वादिति विश्वे च ते जनाश्च विश्वजनास्तेभ्यो हितं विश्वजनीनम् पञ्चसर्वविश्वाज्जनात्कर्मधारये (सि० हे. ७-१-४१) इति खः, तस्य इनादेशे चरूपम् । कापथा इति । कुशब्दस्य पथि शब्दे 'पथ्यक्षेषदर्थे' इत्याकारः । ॥ ६ ॥ परप्रयोजनमात्रत्वादिति । परस्य प्रयोजनं परप्रयोजनम्, तदेव परप्रयोजनमात्रम्, मात्र कात्स्न्येऽवधारणे इति वचनात, अवधारणार्थोऽत्र मात्रध्वनिः । यद्यपि कस्यचित्तथाविद्याभ्यासाद् वचनमुच्चारयत: स्वयमप्यर्थप्रतिपत्तिर्वाक्यस्य प्रयोजनत्वम्, तथाप्यल्पत्वान्नेह विवक्षितमिति । व्यवहितत्वादिति । ज्ञानान्तरं हि विवक्षा, स्थानकरणाभिघातादिना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414