________________
___41
NYAYĀVATĀRAŤ इष्टो वचनान्तरेण, तयोविरोधकम्, तद्विरुद्धार्थाभिधानात , ततोऽन्यददृष्टेष्टविरोधकम्, अबाधार्थाभिधायीत्यर्थः । तदियता शास्त्रस्य स्वार्थसंपदुक्ता, अधुना तत्त्वोपदेशादीनां परार्थत्वात् परार्थसंपदमाह-तत्त्वं जीवादयः पदार्थाः, प्रमाणप्रतिष्ठितत्वात, तेषामुपदेशः स्वरूपप्रकाशनम्, तद्रक्षणादिविधानं वा, तं करोति तत्त्वोपदेशकृत , अत एव सार्वं सर्वस्मै हितम्, प्राणिरक्षणोपायोपदेशपरमपददायितया विश्वजनीनत्वात । एतेन परार्थसंपादकत्वमुक्तम् । अधुना परेषामेवानर्थपरिघातित्वमाह-कुत्सिताः पन्थानः कापथाः तीर्थान्तराणि, तेषां घट्टनं विचालकं निराकारकम्, सर्वजनापकारिकुमतविध्वंसकमित्यर्थः । ईदशादेव शास्त्राज्जातं शाब्दं प्रमाणम्, नान्येभ्यः, विप्रलम्भकत्वात्तेषामिति ॥६॥
अधुना परार्थानुमानलक्षणं वक्तव्यम्, तच्च प्रत्यक्षेऽपि पश्यन् एकयोगक्षेमत्वात सामान्येनाह
स्वनिश्चयवदन्येषां निश्चयोत्पादनं बुधैः ।
परार्थं मानमाख्यातं वाक्यं तदुपचारतः ॥१०॥ अत्र परार्थं मानमिति लक्ष्यम्, स्वनिश्चयवदित्यादि लक्षणम्, स्व आत्मा तस्य निश्चयः प्रमेयाधिगमः, तद्वदन्येषां प्रतिपाद्यानां निश्चयोत्पादनं प्रमेयपरिच्छेदज्ञानप्रादुर्भावनम्, यथा आत्मनोऽर्थनिर्णयस्तथा परेषां निर्णयजननमित्यर्थः । बुधैर्विद्वद्भिः । परस्मै अर्थः प्रयोजनं येन तत् परार्थम्, मीयतेऽनेनेति मानम्, पाख्यातं कथितम् । ननु च यदि निश्चयोत्पादनं परार्थमानम्, तथा ज्ञानमपि परप्रत्यायनाय व्याप्रियमाणं परार्थं प्राप्नोतीत्याह-वाक्यं परार्थं, न ज्ञानम्, तस्यैवानन्तर्येण व्यापारात , परप्रयोजनमात्रत्वाच्च, इतरस्य तु व्यवहितत्वात, स्वपरोपकारित्वाच्च । कथं वचनमज्ञानरूपं प्रमाण मित्याह-तदुपचारतः तस्य ज्ञानस्योपचारोऽतद्रूपस्यापि तदङ्गतया तद्रूपत्वेन ग्रहणम् । तत इदमुक्तं भवति-- प्रतिपाद्यगतमुत्पश्यमानं यज्ज्ञानं तदव्यवहितकारणत्वाद् वचनमप्युपचारेण प्रमाणमित्युच्यते । तत्रानुमानस्य पारायं परैरभ्युपगतमेव प्रत्यक्षस्य न प्रतिपद्यन्ते किलेदं शब्दप्रवेशशून्यं स्वलक्षणग्राहीति नैतद्गोचरः परेभ्यः प्रतिपादयितुं पार्यते । न च शब्दात् परस्य स्वलक्षणग्रहणदक्षं प्रत्यक्षमुन्मक्ष्यति, शब्दस्य विकल्पोत्पादितत्वेन परस्यापि विकल्पोत्पादकत्वात् ।
सर्वस्मै हितमिति । अस्मिन् वाक्ये सर्वाण्णो वा (सि० हे०७-१-४३) इति हितेऽर्थे णप्रत्ययः। विश्वजनीनत्वादिति विश्वे च ते जनाश्च विश्वजनास्तेभ्यो हितं विश्वजनीनम् पञ्चसर्वविश्वाज्जनात्कर्मधारये (सि० हे. ७-१-४१) इति खः, तस्य इनादेशे चरूपम् । कापथा इति । कुशब्दस्य पथि शब्दे 'पथ्यक्षेषदर्थे' इत्याकारः । ॥ ६ ॥
परप्रयोजनमात्रत्वादिति । परस्य प्रयोजनं परप्रयोजनम्, तदेव परप्रयोजनमात्रम्, मात्र कात्स्न्येऽवधारणे इति वचनात, अवधारणार्थोऽत्र मात्रध्वनिः । यद्यपि कस्यचित्तथाविद्याभ्यासाद् वचनमुच्चारयत: स्वयमप्यर्थप्रतिपत्तिर्वाक्यस्य प्रयोजनत्वम्, तथाप्यल्पत्वान्नेह विवक्षितमिति । व्यवहितत्वादिति । ज्ञानान्तरं हि विवक्षा, स्थानकरणाभिघातादिना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org