________________
VAISHALI INSTITUTE RESEARCH BULLETIN NO. I तदुक्तम्
विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः ।
कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि ॥१॥ इति ॥ निर्विकल्पकं च प्रत्यक्षम्, अतो न शब्दजन्यमित्यतोऽनुमानं दृष्टान्तीकृत्य प्रत्यक्षस्यापि परार्थतां साधयितुमाह
प्रत्यक्षेणानुमानेन प्रसिद्धार्थप्रकाशनात् ।
परस्य तदुपायत्वात्परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षेणाप्यनुमानेनेव प्रसिद्धार्थप्रकाशनात् स्वप्रतीतप्रमेयप्रत्यायकत्वात परार्थत्वं प्रतिपाद्यप्रयोजनत्वं द्वयोरपि प्रत्यक्षानुमानयोः, तुल्यकारणत्वात , नानुमानस्यैवैकस्येत्यभिप्रायः । इह चाश्रूयमाणत्वात् तदर्थगमनाच्च अपीवशब्दौ लुप्तनिर्दिष्टौ द्रष्टव्यौ । प्रत्यक्षप्रतीतार्थप्रत्यायनं च प्रतिजानानस्यायमभिप्रायःयत परो मन्यते, नैतद् गोचरं परेभ्यः प्रतिपादयितुं पार्यत इति । तदयुक्तम्, निर्विकल्पकाध्यक्षापोहेन व्यससायरूपस्य प्रत्यक्षस्य प्रागेव साधितत्वात , तद्गोचरस्य कथंचिद् विकल्पगम्यत्वेन शब्दप्रतिपाद्यत्वात् । तद्यथा अनुमानप्रतीतोऽर्थः परस्मै प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानम्, तथा प्रत्यक्षप्रतीतोऽपि परार्थं प्रत्यक्षम्, परप्रत्यायनस्य तुल्यत्वाद्, वचनव्यापरस्यैव भेदात । तथा हि-अनुमानप्रतीतं प्रत्याययन्नवं वचनयति--अग्निरत्र, धूमात, यत्र यत्र घूमस्तत्र तत्राग्निः, यथा महानसादौ, वैधhण वा, अग्न्यभावे न क्वचिद्धूमः, यथा जलाशयादौ, तथा धूमोऽयम्, तस्माद् धूमादग्निरोति । अव्युत्पन्नविस्मृतसंबन्धयोस्तथैव प्रतिपादयितुं शक्यत्वात , स्मर्यमाणे संबन्धे पुनरेवम्-अग्निरत्र धूमोपपत्तेः। वैधhण-अग्निरत्र, अन्यथा धूमानुपपत्तेः । प्रत्यक्षप्रतीतं पुनर्दर्शयन्नेतावक्ति–पश्य राजा गच्छति, ततश्च वचनाद्विविधादपि समग्रसामग्रीकस्य प्रतिपाद्यस्यानुमेयप्रत्यक्षार्थविषया यतः प्रतीतिरुल्लसति, अतो द्वयोरपि परार्थतेत्याह-परस्य तदुपायत्वात् प्रतिपाद्यस्य प्रतीति प्रति प्रतिपादकस्थप्रत्यक्षानुमाननिरीतार्थप्रकाशनकारणत्वादित्यर्थः । एतेन पूर्वकारिकोक्तोपचार. कारणं च लक्षयति । यच्चोक्तम्-न शब्दात परस्य प्रत्यक्षोत्पत्तिः, तस्य विकल्पजनकत्वात, प्रत्यक्षस्य स्वलक्षणविषयत्वेन निर्विकल्पकत्वात् । तदयुक्तम्, सामान्यविशेषात्मकार्थविषयस्य निर्णयरूपस्य तस्य कथंचिदेकविषयता शब्दोत्पाद्यत्वाविरोधात , एवंविधस्य च प्रागेव समर्थनात । चक्षुरादिसामग्रीतस्तदुत्पद्यते न शब्दादिति चेत् । अनुमानमपि प्रत्यक्षादिनिश्चिताद् हेतोरविस्मृतसंबन्धस्य
शब्दोत्पत्तौ परसंताने ज्ञानोत्पादादिति । विकल्पयोनय इति । विकल्पी योनि: कारणं येषां तथा ॥१०॥
प्रतिपादकस्थेत्यादि । प्रतिपादकस्थं प्रत्यक्षानुमाननिर्णीतार्थस्य प्रकाश्यतेऽर्थः परेभ्योनेनेति प्रकाशनं वचनं कारणं यस्य परस्य, तस्य भावस्तत्त्वं तस्मात् । एतेनेति । परप्रतीति प्रति वचनस्योपायताप्रदर्शनेन पूर्वकारिकोक्तेति वाक्यं तदुपचारतः इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org