________________
NYAYĀVATĀRA” प्रमातुरुल्लसति, न शब्दात , अतस्तस्यापि परार्थता विशीर्येत । समर्थहेतुकथनात तत्र वचनस्य परार्थतेति चेत , अत्रापि दर्शनयोग्यार्थप्रतिपादनादिति ब्रमः । तन्न प्रत्यक्षपरोक्षयोः पारार्थ्यं प्रति विशेषोपलब्धिरिति मुच्यतां पक्षपातः ॥११॥ तदेवं द्वयोरपि परार्थतां प्रतिपाद्य तत्स्वरूपमाह
प्रत्यक्षप्रतिपन्नार्थप्रतिपादि च यद्वचः।
प्रत्यक्ष प्रतिभासस्य निमित्तत्वात्तदुच्यते ॥ १२ ॥ यद्वचः प्रत्यक्षप्रतिपन्नार्थप्रतिपादि साक्षात्कारिज्ञानगोचरकथनचतुरं तत् प्रत्यक्षमुच्यत इति संबंधः । तच्च प्रत्यक्षरूपमेवोच्यमानं प्रत्यक्षं, विप्रतिपन्नं प्रति पुनरनुमानद्वारेणोच्यमानमनुमानमेवेति । चशब्देनानेकार्थत्वाद् दर्शयति-वचनं कुतः प्रत्यक्षम् इत्याह-प्रतिभासस्य निमित्तत्वात् प्रतिपाद्यप्रत्यक्षप्रकाशहेतुत्वाद् उपचारेणोच्यत इत्यर्थः ।। १२ ।।
अनुमानमाह
साध्याविनाभुवो हेतोर्वचो यत्प्रतिपारकम् ।
परार्थमनुमानं तत्पक्षादिवचनात्मकम् ॥१३॥ हिनोति गमयति अर्थमिति हेतुः, तस्य साध्याविनाभुवः प्रानिरूपितस्य यद्वच: प्रतिपादक संदर्शकं तद् अनुमानप्रकाशहेतुत्वात् परार्थमनुमानम् । तत कीदृशमित्याह-पक्षो वक्ष्यमाणलक्षणः स आदिर्येषां हेतुदृष्टान्तोपनयनिगमनादीनां तानि तथा, तेषां वचनानि प्रतिपादका ध्वनयः, तान्येवात्मा स्वरूपं यस्य तत पक्षादिवचनात्मकम् । ननु च हेतुप्रतिपादकं वचः परार्थमनुमानमित्यभिधाय तत् पक्षादिवचानात्मकमिति वदतः पूर्वापरव्याहता वाचोयुक्तिः, नैतदस्ति, एवं मन्यते नैकः प्रकारः परार्थानुमानस्य, किं तहि यथा परस्य सुखेन प्रमेयप्रतीतिर्भवति तथा यत्नतः प्रत्यायनीयः। तत्र दशावयवं साधनं प्रतिपादनोपायः । तद्यथा- पक्षादयः पञ्च, तच्छद्धयश्च । तत्र यदा प्रतिपाद्यप्रक्रमादेव निर्णीतपक्षोऽविस्मृतदृष्टान्तः स्मार्यप्रतिबन्धग्राहकप्रमाणो व्युत्पन्नमतित्वात शेषावयवाभ्यहनसमर्थश्च भवति, यद्वा अत्यन्ताभ्यासेन परिमितमतित्वात् तावतैव प्रस्तुतप्रमेयमवबुध्यते, तदा हेतुप्रतिपादनमेव क्रियते, शेषाभिधानस्य श्रोतृसंस्कारा
तस्येति । प्रत्यक्षस्य । एकविषयतयेति । शब्देन सहेति शेषः, अयमभिप्रायः-सामान्यविशेषात्मकं वस्तु शब्द्वानां गोचरः, प्रत्यक्षमपि कथंचित् सामान्यविशेषात्मकवस्तुविषयम्, ततः सामान्यविशेषात्मकोऽर्थः प्रत्यक्षप्रतिपन्नः परस्मै प्रतिपाद्यमानः परार्थप्रत्यक्षं भवति ॥ ११ ॥
तच्चेति । वचः प्रत्यक्षरूपमिति । पश्य मृगो याति इति प्रत्यक्षरूपतया प्रतिपादकत्वादचोऽपि यथोच्यते ॥ १२ ॥
__ वाचोयुक्तिरिति । पश्यद्वाग्दिशो हरयुक्तिदण्डे (सि० हे० ३-२-३२) इति षष्ठया अलुक्समासः । अविस्मृतेत्यादि । दृष्टान्तेन स्मार्यः स चासौ प्रतिबन्धो व्याप्तिश्च तस्य ग्राहकम्, तच्च तत्प्रमाणं च, ततो न विस्मृतं तद् यस्य स तथा। परिकमितमतित्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org