________________
44 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I कारितया नैरर्थक्यादित्यादौ हेतुप्रतिपादनं सूत्रकृता परार्थमनुमानमुक्तम् । यदा तु प्रतिपाद्यस्य नाद्यापि पक्षनिर्णयः, तदा अकाण्ड एव हेतूपन्यासोऽदृष्टमुद्गरपातायमानः स्यादिति पक्षोऽपि निर्दिश्यते । तथास्मर्यमाणे प्रतिबन्धग्राहिणि प्रमाणे दृष्टान्तोऽपि वयेत, अन्यथा हेतोः सामर्थ्यानवगतेः । स्मृतेऽपि प्रमाणे दार्टान्तिके योजयितुमजानानस्योपनयो दर्श्यते; तथापि साकाङ्क्षस्य निगमनमुच्यते, अन्यथा निराकुलप्रस्तुतार्थासिद्धेः। तथा यत्र पक्षादौ स्वरूपविप्रतिपत्तिस्तत्र तच्छुद्धिः प्रमाणेन कर्तव्या, इतरथा तेषां स्वसाध्यासाधनात् । सर्वेषां चामीषां साधनावयवत्वम्, प्रतिपाद्यप्रतीत्युपायत्वात् । ननु च स्वनिश्चयवत परनिश्चयोत्पादनं परार्थमनुमानमुक्तम्, न च स्वार्थानुमानकाले क्रमोऽयमनुभूयते संबन्धवेदिनो हेतुदर्शनमात्रात साध्यप्रतीतिसिद्धेः, न हि प्रतिपत्ता पक्षं कृत्वा ततो हेतु निभालयति, नापि दृष्टान्तिकं विरचयति, तथा प्रतीतेरभावात, किं चान्वयव्यतिरेकाभ्यां हेतोरेव सामर्थ्य मुन्नीयते, न पक्षादीनाम्, तद्व्यतिरेकेणापि साध्यसिद्धेः तथापि तेषां साधनांशत्वकल्पनेऽनवस्थाप्रसङ्गात । यदि च तत्सामर्थ्यं स्यात् , तदा पक्षोपन्यासमात्रादेव साध्यावगतेः हेतुरानर्थक्यमश्नुवीत, उत्तरावयवाश्च; एवं हि तत्सामर्थ्य सिद्धयेन्नान्यथा । तस्माद्य एव परनिरपेक्षं साध्यं बोधयति स एव हेतुः साधनम्, न पक्षादय इति । अत्रोच्यते-स्वनिश्चयवत परनिश्चयोत्पादनं परार्थमनुमानमुक्तमित्यादि यदुक्त तदयुक्तम्, केवलं तदर्थं न जानीषे, निश्चयापेक्षयैव वतिना तुल्यताविधानात, न पुनः सर्वसामान्यमभिप्रेतम्, अन्यथा ध्वनिमनुच्चारयन् स्वार्थानुमाने साध्यमवबुध्यते इति, तदनुच्चारणेन परनिश्चयोत्पादनं प्रसज्येत, न चैतदस्ति, शब्दानुच्चारणे परप्रतिपादनासंभवात, तदर्थं शब्दाङ्गीकरणे येन विना परप्रतिपादनासंभवः तत्तदुररीकर्तव्यम्, समानन्यायात , न च पक्षादिविरहे प्रतिपाद्य विशेषः प्रतिपादयितु शक्यः हेतुगोचरादितत्साध्यार्थप्रतीतिविकलतया तस्य साकाङ्क्षत्वात , तथा च बुभुत्सितार्थबोधाभावादप्रत्यायित एव तिष्ठेत , अतस्तद्बोधनार्थ पक्षादयो दर्शनीयाः, इति तेऽपि साधनांशाः स्युः । यच्चोक्तम्-अन्वयव्यतिरेकानुकरणाभावान्न साधनम्, हेतुमात्रादपि साध्य सिद्धेः, तदयुक्तम्, अविप्रतारकतानिश्चितपुरुषवचनमात्रादपि अग्निरत्र इत्यादिरूपात् क्वचित्प्रमेयोऽर्थः सिध्यतीति हेतोरप्यसाधनताप्रसङ्गात्, तद्विरहेणापि साध्यसिद्धेः, युक्तं चैतत्, अविप्रतारकवचनस्य प्रागेव प्रामाण्यप्रसाधनात् । यच्चोक्तम्-यद्यमीषां सामर्थ्यं स्यात्, तदा पक्षमात्रादेव साध्यप्रतीतेर्हेतोर्वैयर्थ्यं स्यादिति, तदयुक्ततरम्, भवत्पक्षेऽपि समानत्वात्, तत्रापि समर्थहेतूपन्यासादेव साध्यावगतेः, अन्यथा समर्थतायोगात् । पश्चात्तस्यैव प्रमाणेन समर्थनं सर्वत्र गृहीत व्याप्तिकस्य च पुनः पक्षर्मिण्यु
परिकर्म संजातमस्या इति, तारकादेराकृतिगणत्वादितप्रत्ययः, ततः परिकमिता मतिर्यस्येति विग्रहः । अकाण्डे अप्रस्तावे। तत्सामर्थ्यमिति । पक्षादीनां सामर्थ्यम् । तत्साध्येत्यादि । तेषां पक्षादीनां साध्यः प्रतिपाद्यो योऽर्थस्तस्य प्रतीतिविकलता, तया कृत्वा हेतुभूतया वा तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org