________________
NYÄYĀVA TARAH पसंहरणमनर्थकता प्राप्नुवतं केन निवार्यत । तदभावे हेतोः सामर्थ्यं नावगम्यते तेन सार्थकमिति चेत , पक्षादीनपि विरहय्य प्रतिपाद्यविशेषः प्रतिपादयित्न पार्यते इति तेषामपि सार्थकतां नं दुरुपपादेति मुच्यतामाग्रहः । तस्माद्धेतूवत पक्षादयोऽपि साधनम्, हेतोरपि क्वचित प्रतिपाद्ये तदपेक्षतया तन्निरपेक्षताऽसिद्धेरिति, तदिदं सकलमाकलय्योक्त तत्पक्षादिवचनात्मकमिति ।।१३।।
तदेवमर्थतः पक्षादीन् प्रस्तुत्य तावत् पक्षलक्षणमाहसाध्याभ्युपगमः पक्षः प्रत्यक्षाद्यनिराकृतः ।
तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः ॥१४॥
पच्यत इति पक्षः, व्यक्तीक्रियते इति भावः । किभत इत्याह-साध्यस्य अनुमेयस्य अभ्युपगमोऽङ्गीकरणम्, प्राश्निकादीनां पुरतः प्रतिज्ञास्वीकार इत्यर्थः । किमभ्युपगममात्रम् ? नेत्याह-प्रत्यक्षाद्यनिराकृतः इति । प्रत्यक्षं साक्षात्कारि संवेदनम्, आदिशब्दादनुमानस्ववचनलोका गृह्यन्ते, तैरनिराकृतोऽबाधितः पक्ष इति संबन्धः । तद्यथा-सर्वमनेकान्तात्मकम्, अस्ति सर्वज्ञः इत्यादि वा, अयं च . केवलमेष्टव्यो न पुनः परार्थानुमानकाले वचनेनाभिधातव्यः इति यो मन्येत तं प्रत्याह-तस्य पक्षस्य प्रयोगोऽभिधानमत्र परार्थानुमानप्रस्तावे कर्तव्यो विधेयः । कुत इत्याह-हेतोः प्रानिरूपितस्य गोचरदीपक इति, निमित्तकारणहेतूषु सर्वासां प्रायो दर्शनम् इति वचनात्, भावप्रधानत्वाच्च निर्देशस्य, विषयसंदर्शकत्वादित्यर्थः । अयमत्राभिप्राय:-न हि सर्वत्र प्रतिवादिनः प्रक्रमादेव निर्णीतपक्षस्य कूर्चशोभापुरः सरं हेतुरुपन्यस्यते, अपि तु क्वचित् कथंचित् ॥ १४ ॥ - ततो यदाद्यापि प्रतिपाद्यः पक्षार्थं न जानीते, तदा अकाण्डे एव हेतावुच्यमाने विषयव्यामोहाद् भ्रान्तिलक्षणो दोषः स्यादित्याह
अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः ।
प्रत्याय्यस्य भवेद्ध तुविरुद्धारेकितो, यथा ॥ १५॥ प्रतिपाद्यस्य साकाङ्क्षत्वात् । पश्चात्तस्यैव प्रमाणेन समर्थनमिति । यत् सत् तत्सर्व क्षणिकमिति व्याप्त्यालिङ्गितहेतूपन्यासानन्तरं अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति बाधकप्रमाणेन सत्त्वाख्यहेतोः समर्थनम् । पुनः पक्षधर्मिण्युपसंहरणमिति । कृतकश्च शब्ध इत्यादिरूपम् । तदपेक्षतया पक्षाद्यपेक्षतया ॥१३॥
नहीत्यादि । अयमभिप्राय:-क्वापि निर्णीतपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, क्वाप्य- . निर्णतपक्षे । तत्र यदा निर्णीतपक्षे प्रतिवादिनि हेतुः प्रयुज्यते, यदा निरर्थकत्वात् पक्षोपन्यासोऽस्माभिनं क्रियते एव । द्वितीये तु पक्षे विषयदर्शकत्वेन सफलत्वादवश्यं कार्य एव । कूर्चशोभायाः पुरःसरं प्रथमम् , यस्मिन् हेतावुपन्यस्ते कूचंशोभा संपद्यते, तत्त्वतो वैलक्ष्याभावः, सावष्टम्भता भवतीति यावत्, अथवा कुर्चशोभा पुरःसरं यत्रेति, अस्मिन् पक्षे अयमभिप्रायः-यदा सम्यग्भूतं किंचिद् द्वित्वादिकं प्रतिपादयितुमारभ्यते तदा तत्प्रतिपादनादागपि कुर्चशोभा सावष्टम्भता, श्मश्रूपरामर्शनं वा भवतीति ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org