________________
40 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 तेनैव निर्णीतस्वरूपत्वात्तस्य, प्रमाणसिद्धे पुनः प्रमाणान्तरवैयर्थ्यात । नैतदस्ति, भवत्परिकल्पिताध्यक्षस्याप्रामाण्यप्रसङ्गात्, तद्दर्शितेऽर्थे विकल्पप्रतीक्षणात्तस्यैव प्रामाण्यमासज्येत । तद्गृहीतमेवार्थमसावभिलापयतीति चेत , शब्दप्रतिपादितं हेतुं प्रमाणान्तरं समर्थयते इति समानो न्यायः ।।८।।
शाब्दं च द्विधा भवति-लौकिक शास्त्रजं चेति । तत्रेदं द्वयोरपि साधारणं लक्षणं प्रतिपादितम्, समर्थनं पुनरविप्रतारकवचनप्रभवस्येहादिवाक्यप्रस्ताव एव लौकिकस्य विहितम्, शास्त्रजस्य तु विधातव्यमिति यादृशः शास्त्रात्तज्जातं प्रमाणतामनुभवति तद्दर्शयति
प्राप्तोपज्ञमनुल्लध्यमदष्टेष्टविरोधकम् ।
तत्वोपदेशकृत्सा शास्त्रं कापथघट्टनम् ॥६॥ शास्ति शिक्षयति जीवाजीवादि तत्त्वं नाहयति, शिष्यतेऽनेनेति वा शास्त्रम् । तत् किंभूतमिति तद्विशेषणान्याह-आप्तः प्रक्षीणाशेषरागादिदोषगणः, तेन उपज्ञम् आदावुपलब्धम् । अनेनापौरुषेयापोहमाह, तस्य प्रमाणवाधितत्वात ; पुरुषव्यापाराभावे वचनानुपलब्धेः, उपलम्भेऽपि तदर्थानवगमात्, तदर्थनिश्चयार्थ पुरुषाश्रयणे गजस्नानन्यायप्रसङ्गात , तस्य रागादिकलुषितत्वेन वितथार्थकथनप्रवृत्तेः, तदनुष्ठानादपि स्वकार्यसिद्धौ प्रणयनार्थमपि पुरुषः किं नेष्यते ? विशेषाभावात् । तन्न क्षीणदोषवचनं व्यतिरिच्यान्यतः प्रेक्षावतां परलोकादावदृष्टेऽर्थे प्रवृत्तिर्युक्ता, तत् तदेवशास्त्रं, निरुपचरितशब्दार्थोपपत्तरित्यास्तां तावत् । अत एव उल्लभ्यते प्राबल्येन गम्यते अभिभूयते अन्यरित्युल्लध्यम्, ततोन्यद् अनुल्लध्यम् सर्ववचनातिशायीति यावत् । अत एव दृष्टेन प्रमाणनिर्णीतेनेष्टस्य तद्वाच्यस्य विरोधो यस्मिस्तत् तथा तदेव, यदि वा, दृष्टः प्रमाणेन,
प्रमाणम्, न च पदेभ्यो यः पदार्थप्रत्ययस्तेन नियतो विषय उपस्थाप्यते, येन घटार्थी कृतश्चिन्निवृत्त्य क्वचित् प्रवर्तते; नियतदेशे हि वस्तुनि पुमान् प्रवर्तते, न च केनचिद्देशेन विशिष्टो घटो घटशब्देनोपदशितः, तन्न पदप्रभवप्रत्ययस्य शाब्दप्रमाणत्वम् । तविति शाब्दम् । तेन शब्देन । तस्य हेतोः ॥८॥ - आप्त इत्यादि । उपज्ञायते आदौ उपलभ्यते स्म इत्युपज्ञा, पातश्चोपसर्गे (पा० ३-१-१३१) इति कर्मण्यङ, तत प्राप्तस्योपज्ञा प्राप्तोपज्ञमिति, तत्पुरुषाधिकारे उपज्ञोपक्रमे (पा० २-४-२१) इति सूत्रेण उपज्ञान्तस्य नपुंसकत्वम्, तेनोपज्ञमिति तु नावबुध्यते; वाक्ये नपुंसकत्वविधामाभावात् । गजस्नानन्यायेत्यादि । यथा-गजोम्भसा रजोवियुक्तमात्मानं विधाय पुनरेव रजोभिरात्मानं मलिनयति, तथा त्वमपि रागद्वेषोपहतपुरुषप्रणयनसमुत्थं वेदानां कालुष्यमपौरुषेयत्वाभ्युपगमेन निराकृत्य व्याख्यानार्थं पुनरपि तथाभूतं पुरुषमभ्युपगच्छन् तदेवांगीकुरुषे इति। तदनुष्ठानादिति । अनुष्ठानं व्याख्याताख्यानलक्षणो व्यापारतस्मात् । स्वकार्यस्य परलोकादावष्टेऽर्थे प्रवृत्तिरूपस्य सिद्धाविति अम्युपगम्यमानायामिति शेषः । दृष्टेनेत्यादि इदमर्थकथनमात्रम्, समासविग्रहस्त्वयम् - इष्टस्य विरोधः, दृष्टेन इष्टविरोधः न विद्यते दृष्टेष्टविरोधो यत्र तत्तथा। तद्वाच्यस्येति शास्त्राभिधेयस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org