________________
NYAYAVATĀRAH
39
प्रकाशकं तत्प्रमाणमिति संबन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिद्धयति निष्पद्यते, अन्यथा प्रमेयाभावे प्रमाणाभावात् । तस्मात प्रमाणमुररीकुर्वाणेनार्थोऽप्यभ्युपगन्तव्य इत्यभिप्राय इति ॥७॥
तदेवं स्वार्थानुमानलक्षणं प्रतिपाद्य तद्वतां भ्रान्तताविप्रतिपत्ति च निराकृत्याधुनाप्रतिपादितपरार्थानुमानलक्षण एवाल्पवक्तव्यत्वात तावच्छाब्दलक्षणमाह
दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः ।
तत्त्वग्राहितयोत्पन्नं मानं शब्दं प्रकीर्तितम् ॥८॥ अत्रापि शाब्दम् इति लक्ष्यम्, अनुद्यत्वात । दृष्टेष्टाव्याहताद् इत्यादि लक्षणम्, विधेयत्वात् । दृष्टेन प्रमाणालोकितेन इष्टः प्रति (वि?)पादयिषतोऽव्याहतो अनिराकृतः सामर्थ्यादर्थो यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितमिति यावत , तस्मात । परमोऽकृत्रिमः पूरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्तमभिधातुं शीलं यस्य तत परमार्थाभिधायि, विशिष्टार्थदर्शकमित्यर्थः । ततः तत्त्वग्राहितयोत्पन्नम् प्रकृतवाक्यप्रतिपाद्यार्थादानशीलतया लब्धात्मसत्ताकं यन्मानं तच्छाब्दमिति प्रकीर्तितम् उपरिणतं पूर्वाचार्यैरिति संबन्धः । तत्र दृष्टेष्टाव्याहताद् इत्यनेन कुतीथिकवचसा लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति, प्रमाणवाधितत्वात् । वाक्यात इत्यमुना तु वाक्यस्यैव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच्छाब्दाभावमाह । परमार्थाभिधायिनः इत्यनेन ज्वरहरतक्षकचूडारत्नालंकारोपदेशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे। तत्त्वग्राहितयोत्पन्नम् इत्यमुना त्वेवंभूतादपि वाक्यात श्रोतृदोषाद् विपरीताद्यर्थग्रहणचतुरतया प्रादुर्भूतस्य शाब्दत्वं वारयति । मानम् इत्यनेन अन्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्याप्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात , तस्य वचनरूपत्वात् । व्यवयवहेतुसूचकत्वेनोपचारतस्तस्य प्रामाण्यं न तत्त्वत इति चेत , न, अप्रामाण्यस्य सूचकत्वायोगात् । ननु हेतुप्रतिपादने यदि तत प्रमाणम्, ततो हेतुसमर्थकप्रमाणान्तरप्रतीक्षणं न विशीर्यंत, तत्साधकस्य समस्तसंवेदनभ्रान्ततासाधकस्य, निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्, स्वप्न प्रत्ययवत्, इत्यनुमानस्य । तभ्रान्तत्वे निरालम्बनतासाधकानुमानालीकत्वे ॥७॥
दृष्टेनेत्यादि । अयं भिन्नाधिकरणस्त्रिपदो बहुब्रीहिः, यदि वा इष्टोऽव्याहतोऽर्थोऽत्र तदिष्टाव्याहतं वाक्यम्, तदनु दृष्टेन प्रमाण निर्णीतेन इष्टाव्याहतमिति तत्पुरुषः । परमो. ऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वेति । वाशब्दः समुच्चये, ततोऽयमर्थ:--पुरुषोपयोगी शक्यानुष्ठानश्च योऽर्थः स परमोऽकृत्रिम इत्युच्यते, तत्र पुरुषोपयोगी इत्यनेन शक्यानुष्ठानानामपि शवशरीरोद्वर्तनादीनां पुरुषानुपयोगीनां निरासः, शक्यानुष्ठान इत्यनेन तु पुरुषोपयोगिनामपि ज्वरहरशेषशिखारत्नालंकारादीनां प्रतिक्षेपः। विकल्पार्थो वाशब्दः, तदयमर्थः-पुरुषोपयोगी शक्यानुष्ठानो वा अर्थोऽकृत्रिम इत्युच्यते। अशक्यानुष्ठानस्य तक्षकालंकारादेः परमार्थतः पुरुषानुपयोगित्वात्; पुरुषानुपयोगिनश्च मृतकोद्वर्तनादेस्तत्त्वः पुरुषधर्मवद्भिर्विधातुमशक्यत्वादिति । पदाच्छाग्दाभावमाहेति। प्रवृत्तिविषयव्यवस्थापकं हि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org