________________
38 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I केवलं जाड्यं सूचयति । तन्न प्रमाणं कथंचिद् भ्रान्तं समस्ति, स्वरूपप्रच्यवप्रसङ्गादिति स्थितम् । ननु च तद्दर्शितार्थालीकतया ज्ञानस्य भ्रान्तता, न स्वरूपेण, न च तदुदयसमये कस्यचिदिदमलीकार्थम्, इदं त्वनलीकार्थमिति विवेकेनावधारणं समस्ति; भ्रान्तताभ्रान्तताभिमतयोस्तदेकरूपतया प्रकाशनात् । यदा च विशददर्शनपथचारिणोऽपि शशधरयुगलादयोऽलीकतामाविशन्तो दृश्यन्ते, तदा सकलसत्यार्थताभिमतप्रतिभासेष्वप्यलीकार्थताशङ्कानिवृत्तेरनाश्वास एव । न च तदर्थप्राप्त्यादिकमारेकानिराकरणकारणं कल्पनीयम्, स्वप्नावस्थायां तत्सद्भावेऽप्यलीकार्थतासिद्धेः । बाधकप्रत्ययोपनिपातात् तस्यासत्यार्थतेति चेत्, न, तस्य स्वगोचरपर्यवसितत्वेन बाधकत्वायोगात् । अन्यथा नीलमाददाना देवदत्तबुद्धिः प्राक्प्रवृत्तपीतबुद्धेर्बाधिकापोत, सर्वप्रतिभासस्य बाधकाभावसिद्धेश्च समानता। तस्माद् भ्रान्ताभ्रान्तज्ञानभ्रान्तिरियं भवताम्, विवेकाभावेन सर्वस्यालीकार्थत्वादिति ॥६॥
अत्राह
सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् ।
प्रमाणं स्वान्यनिश्चायि द्वयसिद्धौ प्रसिध्यति ॥७॥ एवं मन्यते-योऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि तत्साधकस्याभ्रान्तताभ्युपगन्तव्या, तद्भ्रान्तत्वे तत्प्रतिपादितार्थालीकत्वेन सकलज्ञानाभ्रान्तताप्रसङ्गात , अन्यथा तभ्रान्तत्वायोगात । एवं च तज्जातीयमन्यदप्यभ्रान्त स्यात, ततश्च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपर
तयाऽभेदः, एवमुत्पादादिधर्माणामपि विरोधाभावो बोद्धव्यः, उत्तरपर्यायस्य युदयः पूर्वपर्यायस्य व्ययः द्रव्यस्य त्वनुयायिनोध्रौव्यमिति । परमार्थेत्यादि । परमार्थसंव्यवहारापेक्षयेति एतद् यथासंभवं योज्यं न ययाक्रमम्, तेन परमार्थापेक्षया संवेदनं प्रत्यक्षम् स्वसंवेदनरूपत्वात्; संव्यवहारापेक्षया त्वप्रत्यक्षम्, अर्थाभावेऽप्यर्थपरिच्छेदात्मकत्वेन लोकैरध्य - वसायात्, तथा परमार्थापेक्षया विकल्परहितम्, सर्वविकल्पानां स्वात्मनि निर्विकल्पत्वात्; संव्यवहारापेक्षया तु विकल्पकलुषितम्, असतो बहिरर्थस्य तेन विकल्पनात्, तथा परमार्थापेक्षया अभ्रान्तम्, ज्ञानमात्रस्य वास्तवत्वात्; संव्यवहारापेक्षया च भ्रान्तम्, अविद्यमानबाह्य वस्तुनि बहीरूपतयार्थस्य ग्राहकत्वात् । प्रादिग्रहणात् परमार्थापेक्षया प्रमाणम् संव्यवहारापेक्षयत्वप्रमाणमित्याद्यपि द्रष्टव्यम्। बहिरर्थे बाह्यवस्तुनि भेदाभेदादिविरुद्धधर्माध्यासने कृत्वा हेतुना वा प्रतिषेधबुद्धिः केवलं मन्दतां प्रकटयति । तवर्थप्राप्त्याविकमिति । तस्य प्रतिभासमानस्थ जलादेरर्थस्य प्राप्तिः, आदिशब्दात् पानावगाहनाद्यर्थक्रियापरिग्रहः । तस्येति । स्वप्नज्ञानस्य । तस्य बाधक प्रत्ययस्थ । समानतेति । न कश्चित्प्रतिभासो बाध्यो नापि च बाधकः । विवेकाभावेनेति । विवेको भ्रान्तात् स्वप्नज्ञानादेरभ्रान्तस्य पार्थक्येन व्यवस्थापनम् ॥६॥
योऽपीति । योगाचारादिः । भ्रान्ततामिति । सर्वमालम्बने भ्रान्तम् इति वचनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org