________________
NYAYAVATARAÐ
37 तदलीकतायां ग्राहकाकारोऽपि नावस्थानमाबध्नाति, ग्राह्याभावे ग्राहकायोगात, तदपेक्षयैव तत्स्वरूपस्थितिः, ग्राह्यग्राहकाकारविलये च बोधाकारोऽवशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात , तस्मात स एव पारमार्थिक इति। अत्र प्रतिविधीयते--यदवादि संवेदनमद्वयं पारमार्थिकम्, ग्राह्यग्राहकाकारप्रवृत्तं पुनरतात्त्विकमिति, तदयुक्तम्, प्रमाणाभावात् । तथा हि-बहिरन्तश्चानेकाकारतया हर्षविषादादिभिः स्थिरस्थूरताद्यनेकधर्मपरिकरितार्थग्रहणपरिणामैश्च विवर्तमानं संवेदनमुपलभ्यते, न पुनर्वेद्यवेदकाकारविविक्त यादग् भवद्भिरुपवर्ण्यते ज्ञानं तादृशं कस्यचित कदाचन प्रतीतिगोचरचारितामनुभवति, अद्वयप्रतिभासस्य स्वप्नदशायामप्यननुभूतेः । न च तत्त्वचिन्तका अपि प्रमाणमन्तरेण स्वातं प्रतिष्ठापयन्तः प्रेक्षावतामवधेयवचना भवन्ति, अन्यथैकमचेतनमव्ययमपि ब्रह्मानेक चेतनं क्षणभंगुरताक्रान्तमविद्यातः प्रथत इति ब्रु वाणोऽनिराकार्यः स्यात् । यदपि बहिरर्थनिराकरणधिया अवयव्यवयद्वारेण दूषणमदायि, तदपि बहिरन्तः प्रथमानसकलासुमत्प्रतीतप्रतिभासमुग्दरनिर्दलितशरीरतया भक्तमध्यनिष्ठ्यूतशिनः पुरतो विप्रतारणप्रवणकुट्टिनीशपथप्रायमिति न विद्वज्जनमनांसि रञ्जयति, प्रत्यक्षप्रतिभासापह्नवे तन्मूलकत्वात कुयुक्तिविकल्पानामुत्थानाभावात् । किं च संवेदनस्यापि सितासिताद्यनेकाकारेष्वेकस्य वर्तने भेदाभेदसामस्त्यैकदेशादिचोद्यं समानमेवेति न दूषणम् । अनेकाकारविवर्तस्यालीकत्वान्न तेन सह संवेदनस्य पारमार्थिकस्य भेदाभेदादिचिन्तेति चेत , ननु एवमितरेतराश्रयं दुरुत्तरमाढौकते । तथा हि-तदीकत्वसिद्धावद्वयसंवेदनसिद्धिः, तसिद्धौ च तलदीकत्वमिति न्यायात् । अन्यच्च अद्वयमप्येकक्षणति संवेदनं यथा पूर्वोत्तरक्षणाभ्यां संबन्धमनुभवति, तथा निरंशा अपि यदि परमाणवो दिगंशैः परमाण्वन्तरर्वा संश्लेषमागच्छेयुः किमयुक्त स्यात् । न चावयव्यवयवयोरेकान्तव्यतिरेकपक्षे यदूषणं तदस्मत्पक्षबाधाकरम्, परस्पराविनि ठितरूपयोविवक्षया संदर्शनीयभेदयोस्तयोरभ्युपगमात , बहिरन्तश्च तथैव प्रकाशमानतया तयोनिह्नोतुमशक्यत्वात । एतेन रागारागकम्पाकम्पादिविरोधोद्भावनमपि प्रतिव्यूढम्, प्रमाणप्रसिद्धेऽर्थे विरोधाभावात् , प्रमाणबाधितस्यैव विरुद्धत्वात , कुयुक्तिविकल्पानां च प्रत्यक्षापह्नवे निर्मूलतया बाधकत्वायोगात , तदुद्दलितत्वेनोत्थानाभावात , भिन्नप्रवृत्तिनिमित्तत्वाच्च सर्वधर्माणां तद्विपर्ययसंपाद्यो विरोधो दुरापास्त एव । किं च, स्वयमेव संवेदनं परमार्थसंव्यवहारापेक्षया प्रत्यक्षाप्रत्यक्षसविकल्पकाविकल्पकभ्रान्ताभ्रान्तादिरूपमभ्युपयतो बहिरर्थे विरुद्धधर्माध्यासप्रतिषेधबुद्धिः
षदिकसंबन्धान्यथानुपपत्त्या परमाणूनां सावयतेत्यभिप्रायः । अवधेयवचना प्रादेयवचसः । ब्रह्म तत्त्वरूपम् । संवेदनस्यापीत्यादि । एकस्येति । चित्रज्ञानस्य,ज्ञाने ह्य कस्मिन्नैव नीलपीतादयो बहव आकारा: प्रतिभान्ति, ततस्तेषु नीलपीताद्याकारेषु कथमेकं ज्ञानं वर्तते इति विचारः प्रवर्तते एव । तदुद्दलितत्वेनेति । प्रत्यक्षापह्नवेन कुयुक्तिविकल्पानां निर्दलितत्वादुत्थानाभावः,प्रत्यक्षाभावेहि क्वचित् कस्याप्यदर्शने कयं कुयुक्तिविकल्पानां संभवः? भिन्नप्रवृत्तिनिमित्तत्वादिति । पर्यायरूपतया हि एकत्वपरिणामरूपस्यावयविनः तन्तुभ्यो भेदः, द्रव्यरूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org