________________
36
VAISHALI INSTITUTE RESEARCH BULLETIN NO. I
न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् ।
भ्रान्तं प्रमाणमित्येतद्विरुद्धं वचनं यतः॥६॥ यद्भवतश्चेतसि विवर्तते, यदुत न केवलमनुमानं भ्रान्तम्, किं तर्हि यद्भवद्भिर्दष्टान्ततयोपात्तं प्रत्यक्षं तदपि भ्रान्तमेव, सर्वमालम्बने भ्रान्तमिति वचनात् । तदेतन्न, कुत इत्याह-प्रमाणत्वविनिश्चयादिति । प्रमाणभावनिर्णयादित्यर्थः । ननु च प्रमाणतामभ्रान्ततान्यथानुपपन्नां यदि परः प्रतिपद्येत, ततस्तामभ्युपगच्छन् कथं भ्रान्तताविप्रतिपत्ति विदध्यादिति पार्श्वस्थितवचनावकाशमाशङ्कय, भ्रान्तताप्रमाणतयोविरोधसाधनेन ततः प्रमाणतां व्यावर्त्यानन्यशरणतया प्रतिज्ञाताभ्रान्तताक्रान्तां तां दर्शयन्नाह--भ्रान्तमित्यादि । भ्रान्तं विपर्यस्त अथ च प्रमाणं ग्राह्यपरिच्छेदहेतुरित्येतद्वचनमेवंविधार्थप्रत्यायको ध्वनिर्विरुद्धं, पूर्वापरव्याहतार्थगर्भकत्वात् । ननु च नैवास्य विरुद्धता, तथा हिअविदितपरमार्थव्यावहारिकाभिप्रायेण लोकसंवति धटयन्तो वयं दृढतरवासनाप्रबोधसंपादितसत्ताकयोः प्रत्यक्षानुमानयोः प्रमाणतामाचक्ष्महे, तदभिप्रायेण दर्शितार्थप्रापकत्वेन तयोरविसंवादकत्वात, शिथिलवासनौन्मुख्यनिर्मितजन्मकयोः पुनरप्रमाणताम्, तदाकूतेनैव दर्शितेऽर्थे विप्रलम्भनादिति, भ्रान्ततां पुनस्तत्त्वचिन्तकाभिप्रायेण सकलस्य बहिरुपप्लवमानस्य ग्राह्यग्राहकाकारकालुष्यदूषितस्य प्रतिभासस्य पारमार्थिकाद्वयसंवेदनविपर्यस्तरूपत्वादभिदध्महे, वहिः प्रतिभासस्य तद्ग्राह्यार्थविचाराक्षमतयोपप्लुतरूपत्वात् । तथा हि-अर्थोऽवयविरूपः अवयवरूपो वा स्यात, गत्यन्तराभावात् । न तावदवयविरूपो विचारं क्षमते, अवयवविरहे अवयवित्वायोगात, तेषु च तद्वत्तिविकल्पानुपपत्तेः । तथा हितेषु असावेकदेशेन वर्तते, सामस्त्येन वा । न तावदेकदेशेन, तस्य स्वयं निरवयवत्वात् । अवयववृत्तिनिमित्तमंशान्तरकल्पने तद्वत्तावप्यंशान्तरकल्पनप्रसङ्गः, तथा चानवस्था। नापि सामस्त्येन, प्रत्यवयवं परिसमाप्तरूपतयावयविबहुत्वप्रसङ्गात् । भेदपक्षे दोषोऽयम्, अभेदपक्षे नास्तीति चेत , न, तत्राप्यवयवमात्रम् अवयविमानं वा स्यात, इतरेतराव्यतिरिक्तत्वात, इतरेतरस्वरूपवत् । किं च समस्तावयवव्यापिनोऽवयविनोऽभ्युपगमे पटादे रेकदेशरागकम्पदर्शनादिषु सकलरागकम्पदर्शनादीनि दुर्निवारा रिण स्युः, एकस्य रागारागादिविरुद्धधर्माध्यासायोगादिति । नाप्यवयवरूपोऽर्थो विचारगोचरचारी, करचरणशिरोग्रीवादीनामवयवानां स्वावयवापेक्षया अवयविरूपतया तदूषणेनैवापास्तत्वात । परमाणनां निरंशतया अवयवत्वमुपपद्यत इति चेत , न, तेषामपि दिषट्कसंबन्धेन षडंशतापत्तेः, अन्यथावस्थानाभावात् , ततश्चार्थविरहात्तदुन्मुखो ग्राह्याकारोऽलीकः,
प्रागूर्येति प्रतिज्ञाय । ततो भ्रान्ततायाम् । तां प्रमाणताम् । संवृतिमिति कल्पनाम् । यदाहु :
अनिरूपिततत्वार्था प्रतीतिः संवृतिर्मता। औन्मुख्यमिति प्राभिमुख्यम् । तदाकूतेन व्यावहारिकाभिप्रायेण । दिक्षकेत्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org