SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ NYĀYĀVATĀRAḤ मनुमानलक्षणं प्रतिपाद्याधुना यच्छौद्धोदनिशिष्यैर्न्यगादि - यदुत भ्रान्तमनुमानम्, सामान्यप्रतिभासित्वात् । तस्य च बहिः स्वलक्षणे व्यतिरेकाव्यतिरेकविकल्पाभ्यामपाक्रियमाणतया अयोगात्, तद्रूपतया च तेन तस्याध्यवसायाद् अतस्मिंस्तद्ग्रहणस्य च भ्रान्तिलक्षणत्वात् । प्रामाण्यं पुनः प्रणालिकया बहिः स्वलक्षण बलाया तत्वादनुमानस्य । तथा हि-नार्थं विना तादात्म्यतदुत्पत्तिरूपसंबन्धप्रतिबद्धलिङ्गसद्भावः न तद्विना तद्विषयं ज्ञानम्, न तज्ज्ञानमन्तरेण प्रागवधारितसंबन्धस्मरणम्, तदस्मरणे नानुमानमिति, अर्थाव्यभिचारित्वाद् भ्रान्तमपि प्रमाणमिति संगीर्यते । तदुक्तम् - तस्मिंस्तद् ग्रहो भ्रान्तिरपि संबन्धतः प्रमा । इति । तदपाकर्तुमाह-तदभ्रान्तमित्यादि । तदनुमानं भ्राम्यति स्वगोचरे विपर्यस्यतीति भ्रान्तम्, ततोऽन्यदभ्रान्तम्, अविपरीतार्थग्राहीति यावत्, इयं च प्रतिज्ञा; प्रमीयते यथावस्थितोऽर्थः परिच्छिद्यतेऽनेनेति प्रमाणम्, तद्भावस्तत्त्वं तस्मात, अयं तु हेतुः; संगतमक्षाणामिति समक्षम्, तदिव समक्षवदिति दृष्टान्तः तदिदमनुमानस्य भ्रान्ततानिराकारकं संपूर्णावयम्, उपनयनिगमनयोरवयवत्रयप्रतिपादनेनैवाक्षिप्तत्वात् प्रमाणं सूचितम् । प्रयोगस्त्वेवं द्रष्टव्यः - अभ्रान्तमनुमानम्, प्रमाणत्वात्, इह यत् यत् प्रमाणं तत्तदभ्रान्तं यथा समक्षम्, तथा च प्रमाणं भवद्भिरभ्युपगम्यते अनुमानम्, तस्मात्प्रमाणत्वादभ्रान्तमिति प्रतिपद्यन्तामिति । तत्रार्थवादी तावत्समक्षलक्षणे दृष्टान्ते साध्यविकलतामाविर्भावयितुं न पारयति स्वयमेव समक्षस्याभ्रान्ततयाभ्युपगमात् । शून्यवादिनः समस्तापला पित्वात् प्रमाणप्रमेयव्यवहारं प्रत्ययोग्यतैवेति न तमधिकृत्य स्वसाधनदोषाः परिहर्तव्याः, स्ववचनबाधितप्रतिज्ञत्वेन तद्वादोत्थानाभावात् । तथा हिसर्वाभावप्रतिपादकं वचोऽस्ति नास्ति वा । यद्यस्ति तहि प्रतिज्ञाहानिः । अथ नास्ति, सकलभावसिद्धिः, प्रतिषेधकाभावात् ॥५॥ ज्ञानवादी पुनर्वेद्यवेदकाकारविकलं सकलविकल्पगोचरातीतं निर्विकल्पकं विविक्तपारमार्थिकस्वसंवेदनवेद्यं संवेदनमागूर्यानादिकालालीनवासनाबलप्रभावितं ग्राह्यग्राहकाकारकलुषितं बहिष्प्रथमानं निखिलमपि ज्ञानं विपर्यस्ततया प्रतिजानानः समक्षलक्षणस्य प्रकृतदृष्टान्तस्य साध्यशून्यतामभिदध्यात् अतस्तन्मतविकुट्टनार्थमाह - 35 तद्ग्रहस्य स्वलक्षणतया परिच्छेदस्य भ्रान्तिरपि संबन्धतः प्रमेति । श्रमुमेवार्थं दृष्टान्तपूर्वकं विनिश्चये धर्मकीर्तिरकीर्तयत् । यथा Jain Education International मणिप्रदीप भयोर्मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशे षोऽर्थक्रियां प्रति ॥ १॥ यथा तथा यथार्थत्वेऽप्यनुमानतदाभयोः । श्रर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ||२|| इति ॥५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.522601
Book TitleVaishali Institute Research Bulletin 1
Original Sutra AuthorN/A
AuthorNathmal Tatia
PublisherResearch Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
Publication Year1971
Total Pages414
LanguageEnglish, Hindi
ClassificationMagazine, India_Vaishali Institute Research Bulletin, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy