________________
34 VAISHALI INSTITUTE RESEARCH BULLETIN NO. I गमकत्वात् । तथा हि-जलचन्द्रान्नभश्चन्द्रम्, कृत्तिकोदयाच्छकटोदयम् । पुष्पितकचूतात्पुष्पिताशेषचूतान् चन्द्रोदयात्कुमुदाकरप्रबोधम्, वृक्षाच्छायामित्यादि पक्षधर्मत्वविरहेऽप्यनुमिमीमहे। कालादिकस्तत्र धर्मी समस्त्येव, तत्र पक्षधर्मता लिङ्गस्य गृह्यते इति चेन्न, अतिप्रसङ्गात । एवं हि शब्दस्यानित्यत्वे साध्ये काककाादेरपि गमकत्वप्रसक्तेः; तत्रापि लोकादेर्धर्मिणः कल्पयितु शक्यत्वात् । तथा अन्वयविकलेऽपि अनित्यः शब्दः श्रावणत्वात् , इत्ययं सम्यग्हेतुतया समर्थयितु शक्य इति । नान्वयोऽपि हेतोर्लक्षणम् । तथा हि-तावकाकूतेनैव सकलं सत्त्वमनित्यतया क्रोडीकृतम्, इति भावधर्मः श्रावणत्वं कथमनित्यतां विहाय विपक्षे वर्तितुमुत्सहेत, तद्विकल्पस्य निःस्वभावतापत्तेः, अनित्यताविनिमुक्तस्य सत्त्वस्यासंभवात । एतेन सात्मकं जीवच्छरीरम्, प्राणादिमत्त्वात , निरात्मकत्वे तवैकल्यप्रसङ्गात्, घटादिवद्, इत्ययमपि गमको व्याख्यातः, साध्यार्थान्यथानुपपन्नत्वस्यात्रापि सद्भावात् । पक्षधर्मत्वान्वययोस्त्वलक्षणतया प्रतिपादनात । तथा कार्यस्वाभावानुपलब्धिरूपलिङ्गत्रयनियमोऽपि किल तादात्म्यतदुत्पत्तिलक्षणसंबन्धास्तित्वमेतेष्वेवेति यः क्रियते, सोऽप्ययुक्तः, प्रकृतसंबन्धद्वयविकलस्यापि रूपादे रसादिगमकत्वदर्शनात् । मा भूत्तस्य तादात्म्यतदुत्पत्तिभ्यां गमकत्वम्, समवायाद्भविष्यति; तथापि नान्यथानुपपन्नत्वमेव हेतोर्लक्षणमिति यदि वैशेषिको मन्येत, सोऽन्यथा निर्लोठनीयः । स हि विकल्पतः पर्यनुयोज्यः, समवायिभ्यः समवायोऽभिन्नो भिन्नो वा। यद्यभिन्नः, समवायिन एव तहि, न समवायः; तदव्यतिरिक्तत्वात, तत्स्वरूपवत । भिन्नश्चेत, स कथं तेषु वर्तेत सामस्त्येन आहोस्विदेकदेशेन । तद्यदि सामस्त्येन, तदयुक्तम्, समवायबहुत्वप्रसङ्गात, प्रतिसमवायि तस्य परिसमाप्ततावाप्तेः । अथैकदेशेन, तदप्यचारु, सांशताप्रसङ्गन निरवयवत्वक्षतेः, स्वांशवर्तनेऽपि सामस्त्यैकदेशचोद्यावताराच्च । तत्रापि सामस्त्यपक्षे बहुत्वं तदवस्थमेव। एकदेशपक्षे त्वंशान्तरप्रसङ्ग नानवस्था। तन्न समवायबलाद् गमकतां प्रत्याशा विधेया, तस्यैव तत्र दुःस्थितत्वात । एतेन संयोगिनाऽपि गमकता प्रत्युक्ता, समानदूषणत्वात् । विरोधिनोऽपि विरुद्धाभावगमकत्वमन्यथानुपन्नत्वमेव सूचयति, तदभावे गमकत्वायोगात्। एवं परपरिकल्पितमन्यदपि लिङ्गलक्षणं यद्गमकताङ्गतदन्यथानुपपन्नत्वं न व्यभिचरति, साध्यं विनाप्युपपद्यमानस्य गमकतावैकल्यादिति, अत्रैव व्यापके लिङ्गलक्षणे अन्तर्भावनीयम्, विपरीतं तु निरसनीयमिति स्थितम् । तदेव
स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवदिति । आदीति । प्रादिशब्दात् निरुपाधिसंबन्धबोधसमुत्थसाध्यप्रमासाधनमनुमानमित्यादिग्रहः । प्रादिशब्दात् पक्वान्येतानि पाम्रफलानि, एकशाखाप्रभवत्वात्, उपभुज्यमानाम्रफलवदित्यादिपरिग्रहः ।
विरोधिन इत्यादि । विरोधी वह्निः स्वविरुद्धस्य शीतस्य असत्वं बोधयति । विरुद्धाभावगमकत्वमित्युपलक्षणम् , विरुद्धसद्भावगमकत्वस्यापि दर्शनात् । अत एव पूर्वमहिविस्फूजितविशिष्टो नकुलादिलिङ्गमित्युक्तम्, तस्य च सामान्यस्य तद्रूपतया च तेन तस्याध्यवसायादिति, स्वलक्षणरूपतया चानुमानेन सामान्यस्य विकल्पनात् । अतस्मिन् अस्वलक्षणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org