________________
३
NYĀYĀVATĀRAḤ
गन्तव्यम्, सर्वत्र साध्याविनाभावित्वस्यैव गमकत्वात् तद्रहितस्य तु त्रैलक्षण्यलक्षितस्याप्यगमकत्वात्, इतरथा तत्पुत्रत्वादीनामपि गमकत्वप्रसङ्गात, नियमवत् । त्रैलक्षण्यं लक्षणं न यत्किचित, तेनायमप्रसङ्ग इति चेन्न, नियमेन साध्याविनाभावित्वस्यैवोद्दीपनात, तच्चेदस्ति किं त्रैलक्षण्यापेक्षया, तस्यैव यदव्यभिचारित्वादिविशेषणं ज्ञानं तद् यतः परामर्शज्ञानोपलक्षितात् कारकसमूहाद् भवति तल्लैङ्गिकमिति यावत् । तथा हि-कार्यं कारणपूर्वकत्वेनोपलम्भादुपलभ्यमानं कारणस्य गमकम् । यथा - विशिष्टनदीपूरोपलम्भादुपरि दृष्टो मेघ इति । तथा हि-प्रचुरतरफलफेनपर्णकाष्ठादिवनविशिष्टस्य नदीपूरस्य वृष्टिकार्यत्वेन पूर्वमुपलम्भात् तदुपलम्भे सति युक्तमनुमानम् श्रयं नदीपूरो वृष्टिकार्य:, विशिष्टन दीपूरत्वात्, पूर्वोपलब्धविशिष्टनदीपूरवत्, पूरउभयतटव्यापक दकसंयोगः । कारणमपि कार्यजनकत्वेन पूर्वमुपलब्धेरुपलभ्यमानं कार्यस्य लिङ्गम् । यथा विशिष्टमेघोन्नतिर्वर्ष कर्मण इति । श्रथ कारणस्यावश्यं कार्यंजनकत्वेनानुपलम्भात्, कार्यारणां चानियतात् कारणादुत्पत्तेर्व्यभिचारः । तथा हि-मेघोन्नतिसद्भावेऽप्येकदा वृष्टिनं दृष्टा, कार्यं चानियतात् कारणादुत्पपद्यमानं दृष्टम् । यथा वृश्चिकाद् वृश्चिको जायते गोमयात् सर्पाच्चेति, तत्कथं कार्यात् कारण विशेषप्रतिपत्तिः कारणाच्च कार्य विशेषस्येति ? नैतदेवम्, कारणविशेषस्य कार्यविशेषगमकत्वम्, कार्यविशेषस्य तु कारण विशेषगमकत्वमित्यभ्युपगमात् । यस्तु विद्यमानमपि विशेषं नावबुध्यते, तत्र तस्यापराधो नानुमानस्येति । तथा धूमाग्नेः संयोगी । अथ संयोगस्योभयनिष्ठत्वाविशेषे कथमेकं नियमेन हेतुरपरं च साध्यमिति व्यवस्था ? सत्यमिदम्, प्रविनाभावेऽपि समानमुत्पश्यामः । तथा हि- अविनाभावस्योभयनिष्ठत्वात् कथमेषा व्यवस्थेति । अथ यस्योपलम्भादनुमेये प्रवृत्तिस्तदेव साधनं नान्यदिति चेत्, संयोगित्वेऽपि समानमेतत् । समवायी चोष्णस्पर्शो वारिस्थं तेजो गमयतीति । विरोधी च यथा - अहिविस्फूर्जनविशिष्टो नकुलादेर्लिङ्गम्, वह्निर्वा शीताभावस्येति । नैयायिकाचाहु: - पूर्व वच्छेषवत्सामान्यतोऽदृष्टमित्यनेन सूत्रावयवेन तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोsटं चेति सकलं सूत्रं लक्षयति । तत्पूर्वकं प्रत्यक्षपूर्वकं त्रिविधमिति; अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति । प्रथवा सूत्रावयवेनैव प्रकारान्तरेण त्रिविधं पदं व्याचष्टे, पूर्ववत् शेषवत् सामान्यतोऽदृष्टमिति । पूर्वं साध्यं तद्व्याप्त्या यस्यास्ति तत्पूर्ववत् । साध्यसजातीयं च शेषः, तद् यस्यास्ति तच्छेषवत् । सामान्यतश्च विपक्षेऽदृष्टम् चशब्दात् प्रत्यक्षागमाविरुद्धं श्रसत्प्रतिपक्षं चेति । एवं च पञ्चरूपम्, अन्वयव्यतिरेकयोरन्यतररूपाभावे च तत्तद्रूपमनुमानमिति । अथवा पूर्ववन्नाम यत्र कारणेन कार्यमनुमीयते . यथामेघोन्नत्या भविष्यति वृष्टिरिति । प्रयोगस्तु - श्रमी मेघा वृष्टिमन्तः, गम्भीरगर्जितत्वेऽचिरप्रभावत्वे च सत्युन्नतत्वात् ये एवं ते वृष्टिमन्तः; यथा वृष्टिमत्पूर्वमेधाः, तथा चामी, तस्मात्तथा । शेषवन्नाम यत्र कार्येण कारणमनुमीयते यथा नदीपूरदर्शनाद् वृष्टिः । प्रयोगस्तु उपरिवृष्टिमद्देश संबन्धिनी नदी, शीघ्रतरस्त्रोतस्त्वे फलफेनकाष्ठादिवाहनत्वे च सति पूर्णत्वात् तदभ्यनदीवत् । सामान्यतोदृष्टं नाम प्रकार्यकारणभूतेन यत्राविनाभाविना विशेषणेन विशेष्यमाणो धर्मो गम्यते, यथा - बलाकया सलिलमिति । प्रयोगोऽयम् बलाकाजहद्वृत्तिप्रदेशो जलवान्, बलाकावत्त्वात् संप्रतिपन्नप्रदेशवदिति । सत्पुत्रादीनामिति ।
Jain Education International
33
For Private & Personal Use Only
www.jainelibrary.org