________________
32
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
तत्र तावदनुमानलक्षणमभिधित्सुराह-.
साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् ।
अनुमानं तदभ्रान्तं प्रमारणत्वात्समक्षवत् ॥५॥
साध्याविनेत्यादि। इहाप्यनुमानमिति लक्ष्यनिर्देशः, तस्याप्रसिद्धतया अनूद्यत्वात्। साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसिद्धतया विधेयत्वादिति । अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभावित्वलक्षणलिङ्गसंबन्धस्मरणकालात अनु पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादिर्येन ज्ञानेन तदनुमानमिति । तत किंभूतमित्याह--साध्यनिश्चायकमिति । साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत । तत्कुत इत्याह-लिङ्गात, लिङ्गयते गम्यतेऽर्थोऽनेनेति लिग हेतुः तस्मात । किंभूतादित्याह साध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात साध्यनिश्चायकं ज्ञानं तदनुमानं स्मृतम् अमिप्रेतं नीतिविद्भिरिति संबन्धः । तत्र लिङ्गात साध्यनिश्चायकमित्यनेनानुमानस्य प्रत्यक्षशाब्दलक्षणसंकीर्णतां वारयति । साध्याविनाभुन इत्यनेन परप्रणीतलिङ्गलक्षणव्युदासमाचष्टे । ततश्च यत्परे प्रोचुः-- पक्षधर्मत्वान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावः कार्य चेति । तदुक्तम्
अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति । निश्चितानुपलम्भात्मकार्याख्या हेतवस्त्रयः ॥ इति ।
तथान्ये अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकमइति, तथा, पूर्ववत् शेषवत् सामान्यतोदृष्टमित्यादि । तद्वालप्रलपितप्रायमित्यव
अनूद्यत्वादिति । ननु वदेरनुपूर्वस्य नाम्नो वदः क्यप् च (सि० हे० ५-१-३५) इति क्यप्प्रत्ययो न प्राप्नोति, अनुपसर्गादित्यधिकारानुवृत्तेः, ततो व्यञ्जनान्तत्वाद् व्यणि अनुवाद्यत्वादित्येव स्यात् । सत्यम्, अनुवदनमनूत, संपदादित्वात् भावे क्विप्, ततोऽनूदि अनुवादविषये साधु इति साध्वर्थे येऽनूद्यत्वादिति । पक्षधर्मान्वयेत्यादि । परे बौद्धाः । तदुक्तमिति । दिग्नागेनेति शेषः । अनुमेयेत्यादि । अनुमेयः पक्षः, तत्र सद्भाव: प्रत्यक्षतोनुमानतो वा हेतोदर्शनम् ; तत्र प्रत्यक्षतः कस्मिश्चित प्रदेशे धूमस्य, अनुमानतः शब्दे कृतकत्वस्य । तथा तत्तुल्ये साध्यसद्भावाद् अनुमेयसमे सपक्षे इत्यर्थः, असति विपक्षे नास्तिता निश्चिता तृतीयं रूपम् । निश्चित इति लिङ्गविपरिणामेन पूर्वयोरपि रूपयोर्योज्यम् । यद्विनिश्चये—अन्ते वचनान्निश्चितत्वं त्रिष्वपि रूपेषु द्रष्टव्यम् इति, एतल्लक्षणा अनुपलब्धिस्वभावकार्याख्यास्रयो हेतवः । यथा क्वचिद्देशे न घटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । वृक्षोऽयम्, शिशपात्वात् । अग्निरत्र, धूमात् । अन्य इति वैशेषिका: । अस्येपदम् कार्य कारणं संयोगि समवायि विरोधि चेति । लैङ्गिकमिति। लिङ्गाज्जातं लैङ्गिकम्, लिङ्गदर्शनाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org