________________
NYAYAVATARAḤ
भ्रान्तत्वम्, तन्न_संभवत्येव, विविक्तक्षणक्षयिपरमाणूनां कदाचिदप्यप्रतिभासात,, तेषां च पारमार्थिकत्वात् । अथ व्यावहारिकाभिप्रायेण यदिदं घटादिकं स्वलक्षणमर्थक्रियाक्षमम्, तत्र यन्न भ्राम्यति तदभ्रान्तमित्यभिप्रेतम्, तहि कल्पनापोढपदमुत्सारणीयम्, इदानीमनेन सहावस्थानाभावात् । व्यवहारावतारिणो घटादिस्वलक्षणस्य निर्णयेनैव ग्रहणात, अन्यथा व्यवहाराप्रवृत्तेः, दृष्टस्याप्यदृष्टानतिशयिनात् । तस्मात् व्यवसायात्मकमध्यक्षमित्येतदेव चाविति स्थितम् ॥ अपरोक्षतया - इत्यनेन तु परोक्षलक्षणसंकीर्णतामध्यक्षस्य परिहरति, तस्य साक्षात्कारितया अर्थग्रहरणरूपत्वादिति । ईदृशम् - इत्यमुना तु पूर्वोक्तन्यायात् सावधारणेन विशेषणकदम्बकसचिवज्ञानोपदर्शनात् परपरिकल्पितलक्षणयुक्तस्य प्रत्यक्षतां प्रतिक्षिपति । एवं च यदाहुः - इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्, तथा, सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् इत्यादि, तदयुक्तमित्युक्तं भवति, अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वात्, अत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसंनिधानात साक्षादर्थग्रहण परिणामरूपतया विवर्तेत, तथा चोत्पन्नजन्मादिविशेषणं न संभवेत् । अथैवंविधार्थसूचकमेवैतद् — इत्याचक्षीथाः, तथा सत्यविगानमेवेत्यास्तां तावत् । अधुना परोक्षलक्षणं दर्शयति- इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमित्युक्तम्, तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तब्यम् । एतदपि स्वसंवेदनापेक्षया प्रत्यक्षमेव, बहिरर्थापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयन्नाह - ग्रहणेक्षया इति, इह ग्रहणं प्रक्रमाद् बहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यं स्यात्, तस्येक्षा अपेक्षा तया, वहिः प्रवृत्तिपर्यालोचनयेति यावत् । तदयमर्थः - यद्यपि स्वयं प्रत्यक्षम्, तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणेऽसाक्षात्कारितया व्याप्रियते इति परोक्षमित्युच्यते । एतच्च बुभुत्सितार्थान्यथानुपपन्नार्थान्तरप्रतीतिवशादुभयधर्मकमिति । सामान्यलक्षणसद्भावादेकाकारमपि विप्रतिपत्तिनिराकरणार्थं द्विधा भिद्यते । तद्यथा अनुमानं शाब्दं चेति । यतोऽद्यापि शब्दस्यार्थान्यथनुपपन्नमेव परे न प्रतिपद्यन्ते, न चापृथक्कृतस्य तद्विविक्तं वक्तुं शक्यम्, अतो भेदेनोप
"
न्यासः || ४ |
अन्यथेत्यादि । निर्णयेन ग्रहणाभावे व्यवहाराप्रवृत्तेः, दृष्टस्यापि क्षणिकस्वलक्षणस्य अष्टादतिशायनं प्रविशेषः प्रदृष्टादनतिशायनं तस्मात् । घञ्युपसर्गस्य बहुलम् ( सिद्ध० ३-२-८६ ) इति बहुलग्रहणात् क्वचिदुत्तरपदस्य वा दीर्घत्वेन नरकनारकादिवदतिशयनमतिशायनं वेति संभवति । इन्द्रियार्थ संनिकर्षेत्यादि । अत्र सूत्रे यत इत्यध्याहार्यम्, ततोऽयमर्थः - इन्द्रियार्थं संनिकर्षोत्पन्नत्वादिविशेषणं ज्ञानं यत इन्द्रियार्थसंनिकर्षादिर्भवति तत्प्रत्यक्षम् ; ज्ञानं तु प्रत्यक्षप्रमाणफलम् हानोपादानादिबुद्धयपेक्षया तु तदपि ज्ञानं प्रमाणमेव । अव्यपदेश्यं व्यवसायात्मकमिति पदद्वयेन निर्विकल्पसविकल्पकभेदेन प्रत्यक्षस्य द्वैविध्यमाह शेषाणि तु ज्ञानविशेषरणानि । सत्संप्रयोगेत्यादि । सता विद्यमानेन वस्तुना इन्द्रियाणां संप्रयोगे संबन्धे सति पुरुषस्य यो ज्ञानोत्पादस्तत्प्रत्यक्षम् श्रादिशब्दात् साक्षात् - कारिप्रमासाधनं प्रत्यक्षमित्यादि गृह्यते ॥ ४॥
Jain Education International
31
For Private & Personal Use Only
www.jainelibrary.org