________________
30
VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1
कल्पान्तराविर्भावे निवर्तेत ? मानसविकल्पस्यैव विकल्पान्तरेण निवर्तनात्, अस्य तु कारणसामर्थ्येन बलात् प्रवृत्तेः । एतेन संहृतसकल विकल्पावस्थायां नैष प्रादुःष्यादित्येतदपि प्रतिक्षिप्तम् अस्य प्रमातुरिच्छ्या संहर्तुमशक्यत्वात्, मानस - विकल्पसंहरण एव तत्सामर्थ्योपपत्तेरिति । एतच्च शब्दसंपृक्तप्रत्यक्षपक्षादपि एकान्तनिर्विकल्पक प्रत्यक्षपक्षस्य पापीयस्तां दर्शयद्भिरस्माभिरुग्राहि । परमार्थतः पुनः प्रत्यक्षे साक्षाच्छ्न्दोल्लेखो नेष्यते, विशदव्यवसायेनार्थसाक्षात्करणचतुरत्वात्तस्य । केवलं तदपि संनिहितं परिस्फुटं स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तं अलक्षितपरमाणुपारिमाण्डल्यं पदार्थान्तरैः सह समानासमानाकारं स्वपरमाणूनां सामान्याकारं स्तम्भादिकं पदार्थं गोचरयतीति सविकल्पमित्युच्यते, परपरिकल्पितक्षणक्षयिविविक्तपरमाणुलक्षणस्वलक्षणग्रहणप्रवणनिर्विकल्पप्रत्यक्षप्रतिषेधार्थं कथंचिदभिलापसंसर्गयोग्यगोचरतादर्शनार्थं वा । एवं च प्रत्यक्षगोचरीकृतेऽर्थे संज्ञासंज्ञिसंबन्धग्रहणादयस्तद्विषयाः शाब्दव्यवहाराः सर्व एव निरुपचरिता घटते इत्युक्तं भवति । यदि पुनः शब्दसंसर्ग योग्यप्रतिभासमध्यक्षं न स्यात्, ततः को दोषः इति चेद्, विकल्पानुत्थानेन सविकल्पव्यवहारोच्छेदप्रसङ्गः । तथा हि-निर्व्यवसायं दर्शनमित्यतः पाटवोपेतमपि स्मृतिबीजाधानं तदुत्तरकालभावि वा तादृशार्थदर्शनं तत्प्रबोधनमभ्यासवासनापाटवेऽपि न विधातुमलम्, यतः सामान्यविकल्पोत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्वादिषु सकलकालं निर्विकल्पकाध्यक्ष दृष्टतयाभ्युपगतेष्वपि तददर्शनात् । तस्मात् यत्र कुत्रचिदर्थांशे पाश्चात्यव्यवहारप्रवृत्तिस्तत्र प्राचीनं संवेदनं निर्णायकमभ्युपगन्तव्यम्, अन्यथा क्षणिकत्वाद्यंशवत् सर्वांशेषु व्यवहारः प्रलीयेत । तन्न कदाचन कल्पनापोढत्वं प्रत्यक्षस्य प्रमातुरपि प्रतीतिगोचरचारितामनुभवति । अप्रतीतं चास्तीति श्रद्धातुं दुःशकम् अतिप्रसङ्गादित्यलक्षणम् । अभ्रान्तत्वमपि न जाघटीति, भवदभिप्रायेण स्थिरस्थूरार्थग्राहिण: संवेदनस्य विपर्यस्तरूपत्वात्, तद्विपरीतस्य तु स्वप्नकालेऽप्यप्रकाशमान्त्वात् । तद्यदि यथावस्थितार्थ ग्राहित्वम
चक्षुरादीति । प्रादिशब्दाद् रूपावलोकमनस्कारादयो गृह्यन्ते । इतरस्येति । मनोराज्यादिविकल्पस्य । तद्वत् मनोराज्यादिविकल्पवत् । एष इन्द्रियजो विकल्पः । पापीयस्तामिति । पापं पातकं तद्योगात् पक्षोऽपि पापः । ततोऽयमनयोरतिशयेन पापः, गुणाङ्गाद्वेष्ठेयस् (सिद्ध० ७-३-९) इतीयस् । उदग्राहीति । उपन्यस्तम्, उत्पूर्व इनन्तो ग्रहिरूपन्यासे वर्तते । यदजयःउदग्राहितमुपन्यस्ते बद्धाग्न्याहितयोरपि - इति ।
समानासमानाकारमिति । सजातीयैः सह समानाकारं विजातीयैः पुनरसमानाकारम् । संबन्धग्रहरणादय इति । प्रादिग्रहणाद् विशेषणविशेष्यभावग्रह । तथाहीत्यादि । श्रम्यासवासनापाट त्रेऽपि अभ्यासाद्वासना अभ्यासवासना । वासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुस्तद्विदः । तस्याः पाटवं तस्मिन्नपि सति, अलम् समर्थम्, निर्व्यवसायेति च विशेषणद्वारेण हेतुरुक्तः, निर्विकल्पत्वादाद्योत्तरदर्शने कर्तृणीति संस्कारतद्द्बोधनं यथाक्रमं कर्तुं न पारयत इत्युक्तं भवति । यत इति । स्मृतिबीजाधानतत्प्रतिबोधनाभ्याम् । तददर्शनादिति । व्यव+ हारादर्शनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org