Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 356
________________ NYAYAVATĀRAH 39 प्रकाशकं तत्प्रमाणमिति संबन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ प्रसिद्धयति निष्पद्यते, अन्यथा प्रमेयाभावे प्रमाणाभावात् । तस्मात प्रमाणमुररीकुर्वाणेनार्थोऽप्यभ्युपगन्तव्य इत्यभिप्राय इति ॥७॥ तदेवं स्वार्थानुमानलक्षणं प्रतिपाद्य तद्वतां भ्रान्तताविप्रतिपत्ति च निराकृत्याधुनाप्रतिपादितपरार्थानुमानलक्षण एवाल्पवक्तव्यत्वात तावच्छाब्दलक्षणमाह दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शब्दं प्रकीर्तितम् ॥८॥ अत्रापि शाब्दम् इति लक्ष्यम्, अनुद्यत्वात । दृष्टेष्टाव्याहताद् इत्यादि लक्षणम्, विधेयत्वात् । दृष्टेन प्रमाणालोकितेन इष्टः प्रति (वि?)पादयिषतोऽव्याहतो अनिराकृतः सामर्थ्यादर्थो यस्मिन् वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितमिति यावत , तस्मात । परमोऽकृत्रिमः पूरुषोपयोगी शक्यानुष्ठानो वार्थो वाच्यस्तमभिधातुं शीलं यस्य तत परमार्थाभिधायि, विशिष्टार्थदर्शकमित्यर्थः । ततः तत्त्वग्राहितयोत्पन्नम् प्रकृतवाक्यप्रतिपाद्यार्थादानशीलतया लब्धात्मसत्ताकं यन्मानं तच्छाब्दमिति प्रकीर्तितम् उपरिणतं पूर्वाचार्यैरिति संबन्धः । तत्र दृष्टेष्टाव्याहताद् इत्यनेन कुतीथिकवचसा लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति, प्रमाणवाधितत्वात् । वाक्यात इत्यमुना तु वाक्यस्यैव नियतार्थदर्शकत्वात् परमार्थाभिधायितेति दर्शयन् पदाच्छाब्दाभावमाह । परमार्थाभिधायिनः इत्यनेन ज्वरहरतक्षकचूडारत्नालंकारोपदेशादिवचनप्रभवज्ञानस्य निष्फलतया प्रामाण्यं निराचष्टे। तत्त्वग्राहितयोत्पन्नम् इत्यमुना त्वेवंभूतादपि वाक्यात श्रोतृदोषाद् विपरीताद्यर्थग्रहणचतुरतया प्रादुर्भूतस्य शाब्दत्वं वारयति । मानम् इत्यनेन अन्तर्भावितप्रोपसर्गार्थेन शाब्दे परस्याप्रामाण्यबुद्धिं तिरस्कुरुते, तदप्रामाण्ये परार्थानुमानप्रलयप्रसङ्गात , तस्य वचनरूपत्वात् । व्यवयवहेतुसूचकत्वेनोपचारतस्तस्य प्रामाण्यं न तत्त्वत इति चेत , न, अप्रामाण्यस्य सूचकत्वायोगात् । ननु हेतुप्रतिपादने यदि तत प्रमाणम्, ततो हेतुसमर्थकप्रमाणान्तरप्रतीक्षणं न विशीर्यंत, तत्साधकस्य समस्तसंवेदनभ्रान्ततासाधकस्य, निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात्, स्वप्न प्रत्ययवत्, इत्यनुमानस्य । तभ्रान्तत्वे निरालम्बनतासाधकानुमानालीकत्वे ॥७॥ दृष्टेनेत्यादि । अयं भिन्नाधिकरणस्त्रिपदो बहुब्रीहिः, यदि वा इष्टोऽव्याहतोऽर्थोऽत्र तदिष्टाव्याहतं वाक्यम्, तदनु दृष्टेन प्रमाण निर्णीतेन इष्टाव्याहतमिति तत्पुरुषः । परमो. ऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वेति । वाशब्दः समुच्चये, ततोऽयमर्थ:--पुरुषोपयोगी शक्यानुष्ठानश्च योऽर्थः स परमोऽकृत्रिम इत्युच्यते, तत्र पुरुषोपयोगी इत्यनेन शक्यानुष्ठानानामपि शवशरीरोद्वर्तनादीनां पुरुषानुपयोगीनां निरासः, शक्यानुष्ठान इत्यनेन तु पुरुषोपयोगिनामपि ज्वरहरशेषशिखारत्नालंकारादीनां प्रतिक्षेपः। विकल्पार्थो वाशब्दः, तदयमर्थः-पुरुषोपयोगी शक्यानुष्ठानो वा अर्थोऽकृत्रिम इत्युच्यते। अशक्यानुष्ठानस्य तक्षकालंकारादेः परमार्थतः पुरुषानुपयोगित्वात्; पुरुषानुपयोगिनश्च मृतकोद्वर्तनादेस्तत्त्वः पुरुषधर्मवद्भिर्विधातुमशक्यत्वादिति । पदाच्छाग्दाभावमाहेति। प्रवृत्तिविषयव्यवस्थापकं हि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414