Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 354
________________ NYAYAVATARAÐ 37 तदलीकतायां ग्राहकाकारोऽपि नावस्थानमाबध्नाति, ग्राह्याभावे ग्राहकायोगात, तदपेक्षयैव तत्स्वरूपस्थितिः, ग्राह्यग्राहकाकारविलये च बोधाकारोऽवशिष्यते, तस्य सर्वत्राव्यभिचरितरूपत्वात , तस्मात स एव पारमार्थिक इति। अत्र प्रतिविधीयते--यदवादि संवेदनमद्वयं पारमार्थिकम्, ग्राह्यग्राहकाकारप्रवृत्तं पुनरतात्त्विकमिति, तदयुक्तम्, प्रमाणाभावात् । तथा हि-बहिरन्तश्चानेकाकारतया हर्षविषादादिभिः स्थिरस्थूरताद्यनेकधर्मपरिकरितार्थग्रहणपरिणामैश्च विवर्तमानं संवेदनमुपलभ्यते, न पुनर्वेद्यवेदकाकारविविक्त यादग् भवद्भिरुपवर्ण्यते ज्ञानं तादृशं कस्यचित कदाचन प्रतीतिगोचरचारितामनुभवति, अद्वयप्रतिभासस्य स्वप्नदशायामप्यननुभूतेः । न च तत्त्वचिन्तका अपि प्रमाणमन्तरेण स्वातं प्रतिष्ठापयन्तः प्रेक्षावतामवधेयवचना भवन्ति, अन्यथैकमचेतनमव्ययमपि ब्रह्मानेक चेतनं क्षणभंगुरताक्रान्तमविद्यातः प्रथत इति ब्रु वाणोऽनिराकार्यः स्यात् । यदपि बहिरर्थनिराकरणधिया अवयव्यवयद्वारेण दूषणमदायि, तदपि बहिरन्तः प्रथमानसकलासुमत्प्रतीतप्रतिभासमुग्दरनिर्दलितशरीरतया भक्तमध्यनिष्ठ्यूतशिनः पुरतो विप्रतारणप्रवणकुट्टिनीशपथप्रायमिति न विद्वज्जनमनांसि रञ्जयति, प्रत्यक्षप्रतिभासापह्नवे तन्मूलकत्वात कुयुक्तिविकल्पानामुत्थानाभावात् । किं च संवेदनस्यापि सितासिताद्यनेकाकारेष्वेकस्य वर्तने भेदाभेदसामस्त्यैकदेशादिचोद्यं समानमेवेति न दूषणम् । अनेकाकारविवर्तस्यालीकत्वान्न तेन सह संवेदनस्य पारमार्थिकस्य भेदाभेदादिचिन्तेति चेत , ननु एवमितरेतराश्रयं दुरुत्तरमाढौकते । तथा हि-तदीकत्वसिद्धावद्वयसंवेदनसिद्धिः, तसिद्धौ च तलदीकत्वमिति न्यायात् । अन्यच्च अद्वयमप्येकक्षणति संवेदनं यथा पूर्वोत्तरक्षणाभ्यां संबन्धमनुभवति, तथा निरंशा अपि यदि परमाणवो दिगंशैः परमाण्वन्तरर्वा संश्लेषमागच्छेयुः किमयुक्त स्यात् । न चावयव्यवयवयोरेकान्तव्यतिरेकपक्षे यदूषणं तदस्मत्पक्षबाधाकरम्, परस्पराविनि ठितरूपयोविवक्षया संदर्शनीयभेदयोस्तयोरभ्युपगमात , बहिरन्तश्च तथैव प्रकाशमानतया तयोनिह्नोतुमशक्यत्वात । एतेन रागारागकम्पाकम्पादिविरोधोद्भावनमपि प्रतिव्यूढम्, प्रमाणप्रसिद्धेऽर्थे विरोधाभावात् , प्रमाणबाधितस्यैव विरुद्धत्वात , कुयुक्तिविकल्पानां च प्रत्यक्षापह्नवे निर्मूलतया बाधकत्वायोगात , तदुद्दलितत्वेनोत्थानाभावात , भिन्नप्रवृत्तिनिमित्तत्वाच्च सर्वधर्माणां तद्विपर्ययसंपाद्यो विरोधो दुरापास्त एव । किं च, स्वयमेव संवेदनं परमार्थसंव्यवहारापेक्षया प्रत्यक्षाप्रत्यक्षसविकल्पकाविकल्पकभ्रान्ताभ्रान्तादिरूपमभ्युपयतो बहिरर्थे विरुद्धधर्माध्यासप्रतिषेधबुद्धिः षदिकसंबन्धान्यथानुपपत्त्या परमाणूनां सावयतेत्यभिप्रायः । अवधेयवचना प्रादेयवचसः । ब्रह्म तत्त्वरूपम् । संवेदनस्यापीत्यादि । एकस्येति । चित्रज्ञानस्य,ज्ञाने ह्य कस्मिन्नैव नीलपीतादयो बहव आकारा: प्रतिभान्ति, ततस्तेषु नीलपीताद्याकारेषु कथमेकं ज्ञानं वर्तते इति विचारः प्रवर्तते एव । तदुद्दलितत्वेनेति । प्रत्यक्षापह्नवेन कुयुक्तिविकल्पानां निर्दलितत्वादुत्थानाभावः,प्रत्यक्षाभावेहि क्वचित् कस्याप्यदर्शने कयं कुयुक्तिविकल्पानां संभवः? भिन्नप्रवृत्तिनिमित्तत्वादिति । पर्यायरूपतया हि एकत्वपरिणामरूपस्यावयविनः तन्तुभ्यो भेदः, द्रव्यरूप Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414