Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 340
________________ NYAYAVATARAH 23 इतरथान्धकारनर्तनकल्पमनुमानमासज्येत निर्विषयत्वात् । किं च। तत्प्रामाण्य निर्णायकमनुमानं प्रमाणमप्रमाणं वा। न तावदप्रमाणम्, ततः प्रामाण्यासिद्धे।। नापि प्रमाणम्, तत्प्रामाण्यसाधकाभावात् । न हि प्रत्यक्षात् तसिद्धिः, विकल्पशून्यतयाकिंचित्करत्वात्, इत्युक्तम् । अनुमानात्तु तत्साधने विकल्पयुगलं तदवस्थमेवावतिष्ठते तत्प्रामाण्यसाधनेऽप्यनुमानकल्पना इत्यनवस्था । किं च । गृहीतसंबन्धस्यानुमानं प्रवर्तेत, संबन्धस्त्रिकालगोचरो ग्राह्यः, न च प्रत्यक्षं तं लक्षयितुं क्षमते, पूर्वापरक्षणत्रुटितरूपवार्तमानिकक्षणतदुत्तरकालभाविनो विकल्पस्यापि व्यावहारिकाभिप्रायेण तन्निष्ठताभ्युपगमात् । अनुमानाद् ग्रहीष्यति इति चेत्, ननु तदपि संबन्धपूर्वकं, प्रवर्तते. तद्ग्रहणेऽपीयं वार्ता इति अनवस्था । तस्मादनुमानमभिलषता गत्यन्तराभावात् तत्संबन्धग्रहरणप्रवणस्त्रिकालगोचरोऽव्यभिचारी वितर्कोऽभ्युपगन्तव्यः । तथा च प्रस्तुतद्वैविध्यस्य विघटितत्वात्, अन्यदपि यदेवंविधमविसंवादि ज्ञानं तत्प्रमाणमस्तु इत्यलं शुष्काभिमानेनेति । यदि पुनः साध्यार्थान्यथानुपपन्नहेतुसंपादितमनुमानमिष्येत, तदा प्रत्यक्षमनुमानं चेत्यपि द्वैविध्यं धटामटेदेव ; प्रत्यक्षव्यतिरिक्तज्ञानस्य सामस्त्येनानुमानेऽन्तर्भावसंभवात्, अन्यथानुपपन्नार्थान्तरमन्तरेण परोक्षार्थविषयप्रतीतेरभावादिति ।। सांप्रतमन्यथा सूत्रावयवेनैव प्रकृतनियमकारणमाह-मेयविनिश्चयादिति । द्विधैवेति च काकाक्षिगोलकन्यायेनात्रापि संबन्धनीयम् । ततश्चायमर्थःद्वाभ्यामेव प्रकाराभ्यां मेयस्य ग्राह्यार्थस्य निश्चयात् स्वरूपनिर्णयात्, द्वे एव प्रमाणे न न्यूनमधिकं चेति । अयमत्राभिप्रायः-स्वसंवेदनं प्रति निखिलज्ञानानामेकरूपतया साक्षात्करणचतुरत्वात् नास्त्येव भेदः, बहिरर्थं पुनरपेक्ष्य कश्चिच्चक्षुरादिसामग्रीवललब्धसत्ताकः स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तमलक्षितपरमाणुपारिमाण्डल्यं संनिहितं विशदनिर्भासं सामान्यमाकारं साक्षात्कुर्वाण: प्रकाशः प्रथते, तत्र प्रत्यक्षव्यवहारः प्रवर्तते । यः पुनलिङ्गशब्दादि इतरेति । प्रतिषेध्यस्य शीतादेः। स्वाभावानुपलब्धिरिति दृश्यानुपलब्धिः । एकेत्यादि । एकस्य चक्षुरादिज्ञानस्य ग्राह्यं चक्षुरादिप्रणिधानाभिमुखं भूघटादिवस्तुद्वयमन्योन्यापेक्षमेकज्ञानसंसगि कथ्यते, तयोहि सतो कनियता प्रतिपत्तिः स्यात्, परिच्छेदयोग्यताया द्वयोरप्यविशेषात् । ज्ञाने वस्तुद्वयसंसर्गश्च तदाकारयोरेकस्मिन् ज्ञाने संसर्गाद् वस्तुनोरप्युपचारेण संसर्गव्यपदेशात् । तत एकस्मिन् ज्ञाने संसर्गः संबन्धो विद्यते यस्य भूतलादेर्घटादिनेति प्रकरणात् स्वयमूह्यम्, स चासौ पदार्थश्च तस्योपलम्भपरिच्छेदो रूपं यस्याः स्वाभावानुपलब्धेः सा तथा: केवलभूतलोपलम्भरूप इति यावत् । तद्देश एवेति । भूतलदेश एव । प्रतिद्वन्द्विनो घटादेः । स्वलक्षणाम्भोधीति । स्वलक्षणं प्रत्यक्षानुमाने, ते एव विकल्पस्य सामान्य विषयत्वेनाविषयत्वाद् अम्भोधिः । तत्स्वरूपं प्रत्यक्षानुमानस्वरूपम् । तदिति । तयोः प्रत्यक्षानुमानयोः। तत्प्रामाण्येति । तस्य प्रत्यक्षानुमानप्रामाण्य निर्णायकानुमानस्य । तत्साधन इति । प्रामाण्यनिर्णायकानुमानप्रामाण्यसाधने । तदवस्थमिति । तदप्यनुमानं प्रमाणमप्रमाणं चेति । पारिमाण्डल्यमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414