Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 343
________________ 26 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 एतदभ्यधायि भवता यथा - प्रसिद्धानि प्रमाणानि ततस्तेषां लक्षणोक्तौ असाधारणधर्मकथनविषये प्रयोजनं फलं किमिति शेषः । तदेतदयुक्तम् । यतो यद्यपि प्रतिप्राणि प्रसिद्धानि प्रमाणानि, अन्यथा तत्कृतनिखिलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च दृष्टहान्याद्यापत्तेः, तथापि केचिद् विततमोहावष्टब्धान्तः करणास्तत्स्वरूपमनुभवन्तोऽपि न लक्षयन्ति ततस्तानवलोकयतामस्माकं तद्विषये कृपापरीतचेतसां यथावस्थितप्रमाणलक्षणाविर्भावनद्वारेण व्यामोहमेतेषामपसारयाम इति प्रमाणलक्षणाभिधानं प्रति प्रवर्तते चेतः । तदिदं प्रयोजनम् - तद्व्यामोह - निवृत्तिः स्याद् इति तस्मिन् प्रमाणलक्षणे व्यामोहो विसरीताभ्युपगमवतां विपर्यासलक्षणस्तीर्थ्यानां प्रमाणाप्रमाणविवेकविकलानाम्, अनध्यवसायात्मकस्तु मुग्धबुद्धीनां लौकिकानाम्, तस्य निवृत्तिरविपरीतलक्षणावगमादपगम इत्यर्थः । सा स्याद् भवेत् । केषामित्याह-व्यामूढं विपरीतग्रहस्तं विचित्ततां गतं मनोऽन्तःकरणं येषां ते तथा तेषाम् । इहेति लोके । तदयं तात्पर्यार्थः-यद्यनादिप्रसिद्ध प्रमाणलक्षणं प्रति केचिदपि न व्यामुह्येयुस्तदा यद् भवद्भिः प्रागुदग्राहि निरर्थकं प्रमाणलक्षणाभिधानमिति, तत् युक्तमेव स्यात् । न चैतदेवम्, तत्र व्यामूढानां दर्शनात् । एतेन यददायि दूषणं प्रमाणलक्षणमनिश्चितं निश्चितं वा अभिधीयेत इत्यादि तदपि सिद्धसाध्यतामध्यप्रतिवद्धत्वान्न बाधाविधायि अस्माकमिति मन्तव्यम् । व्यामूढमनसोऽपि प्रति प्रमाणलक्षणप्रकाशने तल्लगतीति चेत्, न स्वसंवेदनसिद्धस्य वचनेन प्रकाशनात् तस्य व्यामोहापोह एव व्यापारात् । यथा विविक्तभूतलावलोकनेऽपि अध्यक्षाद् यो घटादिवैविवत्यं न प्रतिपद्यते, कुदर्शनव्यामोहात्, तं प्रत्युच्येत नास्त्यत्र घटः, उपलम्भकारण समग्रतायामप्यनुपलम्भात् । वैविॠत्यं हि तत्राध्यक्षसिद्धम्, वचनाद् व्यामोहो निवर्त्येत; तथेहापि विद्वद्भिर्द्रष्टव्यम् । निर्णीतं तल्लक्षणमध्यक्षेण, तस्य व्यवसायरूपत्वात्; वचनं पुनर्विपरीतारोपनिराकरणे व्याप्रियत इति स्थितम् । तदेवं प्रमाणलक्षणं सामान्येन प्रतिपाद्य तद्गतकुचोद्यं पर्यहार्याचार्येण ||३|| अधुना तद्विषयामेव संख्याविप्रतिपत्ति निराचिकीर्षता ये प्रत्यक्ष परोक्ष - लक्षणे प्रमाणव्यक्ती प्राक् प्रक्रान्ते, तयोरपि लक्षणं प्रति विप्रतिपद्यन्तेऽपरे । अतस्तल्लक्षणमपि वक्तव्यम्, इति तावत् प्रत्यक्षलक्षणमभिधातुकाम आह ततो नव्योगादि, निराकृत्येत्यर्थ । तीर्थ्यानामिति । यद्यपि सम्यक् संसारसागरोत्तरणीपायभूतत्वात् तीर्थं जिनशासनमेवोच्यते, तथापि तीर्थमिव तीर्थम्, तत्र साधवः तीर्थ्याः, साध्वर्थे यः । एतेनेति । व्यामूढमनसः प्रतिलक्षणाभिधानेन । सिद्धसाध्यतामध्यप्रतिबद्धत्वादिति । श्रयमभिप्रायः -- यदि न प्रमाणलक्षणाभिधीयतेऽस्माभिस्तदा यदुक्तं -- प्रमाणलक्षरणमनिश्चितं विधानं वाभिधीयेत इत्यादि तत्समस्तमपि दूषणमस्माकं लगेदपि, यदा तु स्वतः सतो व्यवसायरूपत्वात् स्वसंवेदनेन निर्णीतस्य च प्रमाणलक्षणस्य व्यामूढान् प्रति प्रकाशः, कस्तदा दोषांवकाशः ? एतच्च व्यामूढमनसोऽपि प्रतीत्यादि पूर्वपक्षमुत्थाप्य स्वत एवातिस्पष्टमाचार्योऽभिधास्यति, ततः सिद्धमेतत् न बाधाविधायीति ||३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414