Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 349
________________ 32 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 तत्र तावदनुमानलक्षणमभिधित्सुराह-. साध्याविनाभुनो लिङ्गात्साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमारणत्वात्समक्षवत् ॥५॥ साध्याविनेत्यादि। इहाप्यनुमानमिति लक्ष्यनिर्देशः, तस्याप्रसिद्धतया अनूद्यत्वात्। साध्याविनाभुनो लिङ्गात् साध्यनिश्चायकमिति लक्षणनिर्देशः, तस्याप्रसिद्धतया विधेयत्वादिति । अत्राप्यनुमानशब्दस्य कादिकारकव्युत्पत्तिक्रमेणार्थकथनं प्रमाणशब्दवद् द्रष्टव्यम् । ततश्चेहापि लिङ्गग्रहणसाध्याविनाभावित्वलक्षणलिङ्गसंबन्धस्मरणकालात अनु पश्चान्मीयते परिच्छिद्यतेऽर्थोऽनुमेयपावकादिर्येन ज्ञानेन तदनुमानमिति । तत किंभूतमित्याह--साध्यनिश्चायकमिति । साधनमर्हति साधयितुं वा शक्य इति साध्योऽनुमेय इत्यर्थः, तस्य निश्चायकं तत्स्वरूपनिर्णायकमिति यावत । तत्कुत इत्याह-लिङ्गात, लिङ्गयते गम्यतेऽर्थोऽनेनेति लिग हेतुः तस्मात । किंभूतादित्याह साध्याविनाभुन इति । विना भवतीति विनाभु, ततोऽन्यदविनाभु, साध्येनाविनाभु साध्याविनाभु, साध्यं विमुच्य यन्न भवतीत्यर्थः, तस्मात साध्यनिश्चायकं ज्ञानं तदनुमानं स्मृतम् अमिप्रेतं नीतिविद्भिरिति संबन्धः । तत्र लिङ्गात साध्यनिश्चायकमित्यनेनानुमानस्य प्रत्यक्षशाब्दलक्षणसंकीर्णतां वारयति । साध्याविनाभुन इत्यनेन परप्रणीतलिङ्गलक्षणव्युदासमाचष्टे । ततश्च यत्परे प्रोचुः-- पक्षधर्मत्वान्वयव्यतिरेकलक्षणरूपत्रयोपलक्षितानि त्रीण्येव लिङ्गानि अनुपलब्धिः स्वभावः कार्य चेति । तदुक्तम् अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति । निश्चितानुपलम्भात्मकार्याख्या हेतवस्त्रयः ॥ इति । तथान्ये अस्येदं कार्य कारणं संयोगि समवायि विरोधि चेति लैङ्गिकमइति, तथा, पूर्ववत् शेषवत् सामान्यतोदृष्टमित्यादि । तद्वालप्रलपितप्रायमित्यव अनूद्यत्वादिति । ननु वदेरनुपूर्वस्य नाम्नो वदः क्यप् च (सि० हे० ५-१-३५) इति क्यप्प्रत्ययो न प्राप्नोति, अनुपसर्गादित्यधिकारानुवृत्तेः, ततो व्यञ्जनान्तत्वाद् व्यणि अनुवाद्यत्वादित्येव स्यात् । सत्यम्, अनुवदनमनूत, संपदादित्वात् भावे क्विप्, ततोऽनूदि अनुवादविषये साधु इति साध्वर्थे येऽनूद्यत्वादिति । पक्षधर्मान्वयेत्यादि । परे बौद्धाः । तदुक्तमिति । दिग्नागेनेति शेषः । अनुमेयेत्यादि । अनुमेयः पक्षः, तत्र सद्भाव: प्रत्यक्षतोनुमानतो वा हेतोदर्शनम् ; तत्र प्रत्यक्षतः कस्मिश्चित प्रदेशे धूमस्य, अनुमानतः शब्दे कृतकत्वस्य । तथा तत्तुल्ये साध्यसद्भावाद् अनुमेयसमे सपक्षे इत्यर्थः, असति विपक्षे नास्तिता निश्चिता तृतीयं रूपम् । निश्चित इति लिङ्गविपरिणामेन पूर्वयोरपि रूपयोर्योज्यम् । यद्विनिश्चये—अन्ते वचनान्निश्चितत्वं त्रिष्वपि रूपेषु द्रष्टव्यम् इति, एतल्लक्षणा अनुपलब्धिस्वभावकार्याख्यास्रयो हेतवः । यथा क्वचिद्देशे न घटः उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । वृक्षोऽयम्, शिशपात्वात् । अग्निरत्र, धूमात् । अन्य इति वैशेषिका: । अस्येपदम् कार्य कारणं संयोगि समवायि विरोधि चेति । लैङ्गिकमिति। लिङ्गाज्जातं लैङ्गिकम्, लिङ्गदर्शनाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414