Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

Previous | Next

Page 347
________________ 30 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 कल्पान्तराविर्भावे निवर्तेत ? मानसविकल्पस्यैव विकल्पान्तरेण निवर्तनात्, अस्य तु कारणसामर्थ्येन बलात् प्रवृत्तेः । एतेन संहृतसकल विकल्पावस्थायां नैष प्रादुःष्यादित्येतदपि प्रतिक्षिप्तम् अस्य प्रमातुरिच्छ्या संहर्तुमशक्यत्वात्, मानस - विकल्पसंहरण एव तत्सामर्थ्योपपत्तेरिति । एतच्च शब्दसंपृक्तप्रत्यक्षपक्षादपि एकान्तनिर्विकल्पक प्रत्यक्षपक्षस्य पापीयस्तां दर्शयद्भिरस्माभिरुग्राहि । परमार्थतः पुनः प्रत्यक्षे साक्षाच्छ्न्दोल्लेखो नेष्यते, विशदव्यवसायेनार्थसाक्षात्करणचतुरत्वात्तस्य । केवलं तदपि संनिहितं परिस्फुटं स्वावयवव्यापिनं कालान्तरसंचरिष्णुं स्थगितक्षणविवर्तं अलक्षितपरमाणुपारिमाण्डल्यं पदार्थान्तरैः सह समानासमानाकारं स्वपरमाणूनां सामान्याकारं स्तम्भादिकं पदार्थं गोचरयतीति सविकल्पमित्युच्यते, परपरिकल्पितक्षणक्षयिविविक्तपरमाणुलक्षणस्वलक्षणग्रहणप्रवणनिर्विकल्पप्रत्यक्षप्रतिषेधार्थं कथंचिदभिलापसंसर्गयोग्यगोचरतादर्शनार्थं वा । एवं च प्रत्यक्षगोचरीकृतेऽर्थे संज्ञासंज्ञिसंबन्धग्रहणादयस्तद्विषयाः शाब्दव्यवहाराः सर्व एव निरुपचरिता घटते इत्युक्तं भवति । यदि पुनः शब्दसंसर्ग योग्यप्रतिभासमध्यक्षं न स्यात्, ततः को दोषः इति चेद्, विकल्पानुत्थानेन सविकल्पव्यवहारोच्छेदप्रसङ्गः । तथा हि-निर्व्यवसायं दर्शनमित्यतः पाटवोपेतमपि स्मृतिबीजाधानं तदुत्तरकालभावि वा तादृशार्थदर्शनं तत्प्रबोधनमभ्यासवासनापाटवेऽपि न विधातुमलम्, यतः सामान्यविकल्पोत्पत्त्या व्यवहारः प्रवर्तेत, क्षणिकत्वादिषु सकलकालं निर्विकल्पकाध्यक्ष दृष्टतयाभ्युपगतेष्वपि तददर्शनात् । तस्मात् यत्र कुत्रचिदर्थांशे पाश्चात्यव्यवहारप्रवृत्तिस्तत्र प्राचीनं संवेदनं निर्णायकमभ्युपगन्तव्यम्, अन्यथा क्षणिकत्वाद्यंशवत् सर्वांशेषु व्यवहारः प्रलीयेत । तन्न कदाचन कल्पनापोढत्वं प्रत्यक्षस्य प्रमातुरपि प्रतीतिगोचरचारितामनुभवति । अप्रतीतं चास्तीति श्रद्धातुं दुःशकम् अतिप्रसङ्गादित्यलक्षणम् । अभ्रान्तत्वमपि न जाघटीति, भवदभिप्रायेण स्थिरस्थूरार्थग्राहिण: संवेदनस्य विपर्यस्तरूपत्वात्, तद्विपरीतस्य तु स्वप्नकालेऽप्यप्रकाशमान्त्वात् । तद्यदि यथावस्थितार्थ ग्राहित्वम चक्षुरादीति । प्रादिशब्दाद् रूपावलोकमनस्कारादयो गृह्यन्ते । इतरस्येति । मनोराज्यादिविकल्पस्य । तद्वत् मनोराज्यादिविकल्पवत् । एष इन्द्रियजो विकल्पः । पापीयस्तामिति । पापं पातकं तद्योगात् पक्षोऽपि पापः । ततोऽयमनयोरतिशयेन पापः, गुणाङ्गाद्वेष्ठेयस् (सिद्ध० ७-३-९) इतीयस् । उदग्राहीति । उपन्यस्तम्, उत्पूर्व इनन्तो ग्रहिरूपन्यासे वर्तते । यदजयःउदग्राहितमुपन्यस्ते बद्धाग्न्याहितयोरपि - इति । समानासमानाकारमिति । सजातीयैः सह समानाकारं विजातीयैः पुनरसमानाकारम् । संबन्धग्रहरणादय इति । प्रादिग्रहणाद् विशेषणविशेष्यभावग्रह । तथाहीत्यादि । श्रम्यासवासनापाट त्रेऽपि अभ्यासाद्वासना अभ्यासवासना । वासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुस्तद्विदः । तस्याः पाटवं तस्मिन्नपि सति, अलम् समर्थम्, निर्व्यवसायेति च विशेषणद्वारेण हेतुरुक्तः, निर्विकल्पत्वादाद्योत्तरदर्शने कर्तृणीति संस्कारतद्द्बोधनं यथाक्रमं कर्तुं न पारयत इत्युक्तं भवति । यत इति । स्मृतिबीजाधानतत्प्रतिबोधनाभ्याम् । तददर्शनादिति । व्यव+ हारादर्शनात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414