Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur
________________
NYAYĀVATĀRAN प्रथयन्ति । विभ्रमादिति चेन्न इदानीमर्थे यदस्ति तदेव प्रतिभाति, तत्रासतोऽपि स्थूराकारस्य प्रतिभासनात । तथा शब्दोऽपि यद्यविद्यमानोऽर्थे तद्ग्राहिरिण ज्ञाने प्रतिभासेत, किं झूयेत ? यच्चोक्त-स्मरणजनितशब्दसंयोजनं प्रतीक्षमाणमर्थोपयोगेऽपि यद्यासीतेत्यादि यावदान्ध्यमापद्येत तत् तावकपक्षेऽपि समानम् । तथाहि-स्वलक्षणाविषयेन्द्रियजनिर्विकल्पकज्ञानसद्भावेऽपि न तावदिदंतयानिदंतया वार्थव्यवस्थितिः, यावद्विधिप्रतिषेधद्वारेण विकल्पयुगलकं पाश्चात्यं नोदयते, यौवांशे विकल्पं जनयति, तत्रैवास्य प्रमाणता-इति वचनात् । निर्विकल्पकस्य सतोऽपि व्यवहारं प्रत्यसत्कल्पत्वात् । स च विकल्प: संकेतकालभावितमभिलापसामान्यमनुस्मरत एवोत्पत्तुमर्हति, अभिलापसामान्यस्मरणबीजं च कुतः प्रबुध्येत ? तादृशदर्शनादिति चेत्, ननु तदपि दर्शनं निर्विकल्पकत्वादर्थं नातिशेते, तत्कथं सामान्यविषयविकल्पबीजं प्रबोधयेत् ? अर्थः पुनः सामान्यव्यवसायात्मिकां बुद्धि न जनयेदिति भवतां कदाग्रहः । तदर्थवत् तविषयं दर्शनं व्यवसायशून्यत्वात् नाभिलापसामान्यगोचरस्मरणबीजं प्रबोधयति, तदप्रबुद्ध न स्मरणं जनयति, अजातं स्मरणं न शब्दं योजयति, अयोजितः शब्दो नार्थं निश्चाययति, अनिश्चितोऽर्थो न व्यवहारमवतरति, अनवतीर्णो नादृष्टाद्विशिष्यते, अविशिष्टः प्रमातुरान्ध्यं लक्षयतीति । तस्माद्यथाकथंचिन्निर्णयाभावात् स्वयमप्रतीतमपि निविकल्पकदर्शनं वासनाप्रबोधद्वारेण विकल्पमुत्थाप्यात्मव्यापारमभिलापयति कतिचिदंशविषयम्, तथार्थोऽपि यदि चक्षुरादिसामन्यन्तः पातित्वेनाप्रतीत एव स्वयम्, तथास्वभावत्वात् संकेतकालभाविताभिलापसामान्यविषयात्मसंस्कारप्रबोधद्वारेणात्मविषयमभिलापसंसृष्टं संवेदनमुल्लासयेत् नात्यन्तमयुक्त पश्यामः । न चायं सविकल्पको बोधो मनोराज्यादिविकल्पकल्पः । चक्षुरादिसामग्रीसंपाद्यत्वात् । इतरस्य तु मनोमात्रप्रभवत्वात् । अतः कथं तद्वद्वि
न प्रादुःष्यादिति बाधकम् । तत्रेति ज्ञाने । तत्रासतोऽपीति । परमाणुलक्षणेऽर्थेऽविद्यमानस्यापि प्रतिभासनात्, ज्ञाने इति शेषः । तावकपक्षेऽपीति । अयमत्राभिप्राय:--
१यश्चोभयोः समो दोषः परिहारोऽपि वा समः। नकः पर्यनुयोज्यः स्यात् तागर्थविचारणे ॥१॥ इति ।
[श्लो० वा० पृ० ३४१] नोदयते इति । अय वयेत्यादिदण्डकधातुः, नोदयतीति पाठे तु अट पट इट किट कट इ गतौ इत्यस्य प्रयोगः । स्मरणबीजमिति । स्मृतेः कारणत्वाद् बीजमिव बीजं संस्कारः । तस्मात् यथा कथंचिदिति । तस्मादिति हेतौ पञ्चमी, यथेति दृष्टान्तोपदर्शनार्थः; कथंचित् केनचित् प्रकारेणेति । प्रयमिति । इन्द्रियजः । विकल्पकल्पः विकल्पसदृशः, कल्पशब्दस्य उपमार्थत्वात् । यदाह
सामर्थ्यवर्णनायां च छेदने करणे तथा । प्रौपम्ये चाधिवासे च कल्पशब्द विदुर्बुधाः ॥॥
१ मुद्रितपुस्तके "तस्माद्यत्रोभयोर्दोषः", "पर्यनुयोक्तव्यः" इति पठ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414