Book Title: Vaishali Institute Research Bulletin 1
Author(s): Nathmal Tatia
Publisher: Research Institute of Prakrit Jainology & Ahimsa Mujjaffarpur

View full book text
Previous | Next

Page 345
________________ 28 VAISHALI INSTITUTE RESEARCH BULLETIN NO. 1 तत्त्वसाधनेनानुकूलमाचरसीति चेत्, स्यादेतत्, यदि भवतः प्रमाणपरिदृष्टसकलव्यवहारोच्छेदनकुदर्शनवासनाहितादृष्टाद्वयतत्त्वपरिकल्पनात्, प्रतिकूलं न स्यात् । तन्नार्थविरहेण बहिः प्रमाणभूतज्ञानोल्लासोऽस्ति, निर्हेतुकत्वप्रसङ्गादिति । ग्राहकमिति च निर्णायकं द्रष्टव्यम्, निर्णयाभावेऽर्थग्रहणायोगात् । तेन यत् ताथागतैः प्रत्यपादि। प्रत्यक्षं कल्पनापोढमभ्रान्तम् [न्या० वि० ४] इति तदपास्तं भवति, तस्य युक्तिरिक्तत्वात । तथा हि-ते निर्विकल्पकत्वेऽध्यक्षस्यायुक्तीः खेटयन्ति-किलेदमर्थसामथुनोदीयते, संनिहितार्थक्रियासमर्थार्थग्राहकत्वात न चार्थे ध्वनयः सन्ति, तद्धेतुविलक्षणकारणान्तरजन्यत्वात ततश्चासावुपनिपत्य स्वगोचरसंवेदनमुत्थापयन् स्वाकारमनुकारयति । तन्न तद्ग्राहिणि विज्ञाने शब्दसंश्लेषो युक्तः । किं च यद्युत्पादकार्थोपयोगेऽपि तं तावन्न गृह्णीयात, संवेदनमपि तु स्मरणसंपादितं तदमिधायकध्वनिसंयोजनं प्रतीक्ष्यमाणं तावदासीत, तहि दत्तो जलाञ्जलिरर्थग्रहणस्य । तथाहि-तमर्थमपश्यंस्तस्मिन् गृहीतसंकेतं तदभिधायकं ध्वनि नानुस्मरति, उपायाभावाद्, अननुस्मरंश्च पुरोवर्तिन्यर्थेन न योजयति, स्मृत्युपस्थापनव्यतिरेकेण तद्योजनाशक्तेः अयोजयंश्च भवदभिप्रायेण न पश्यतीति धान्ध्यादान्ध्यमापद्येत। यदि वेन्द्रियजमपि ज्ञानं विकल्पकलुषितमिष्येत, तदा तदपि मनोराज्यादिविकल्पवद् विकल्पान्तराविर्भावे सति निवर्तेत; नचैतदस्ति, संनिहितगोपिण्डगोचरस्य चक्षुर्जसंवेदनस्याश्वादिविषयविकल्पोदयेप्यनिवर्तनात, संहृतसकलविकल्पस्यापि च परिस्फुटसंनिहितार्थविषयदर्शनसिद्धेः । तन्नाक्षजं ज्ञानं शब्दसंपर्कमनुभवति । अत्र प्रतिविधीयते यत्तावदुक्तम्, अशब्दकार्थसामोद्भवत्वाद् ध्वनिरहितमध्यक्षमिति, तदयुक्तम्, न हि शब्दासंपृक्तार्थजमित्येतावतैवाभिलापविनाकृतमिति वक्तुं शक्यम्, अन्यथा जडार्थजनितमिति जडमपि तत् स्यात् । अथ वोधरूपमनस्कारसाहित्याद् न जडमिति ब्रषे, तथा सत्यभिलापसंसृष्टमनस्कारसंनियोगात साभिलापमपि स्यात । किं च विविक्ताः परमाणवः स्वाकारार्पणद्वारेण स्वगोचरं ज्ञानमुत्पादयन्तः कथमसन्तमात्मनि स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं तत्र दीनि कारणानि तज्जन्यत्वाद् असावित्यर्थः। उपनिपत्येति । निकटीभूय । स्वाकारम् अर्थाकारम् । तद्ग्राहिणि अर्थग्राहिणि । तमिति अर्थम् । धान्ध्यादिति । धन्ध्यो जडः तस्य भावो धान्ध्यं जाड्यम् । विनिश्चयटीकायाम्--धन्ध्यो जड इति । क्वचित् धान्ध्यादिति पाठस्तदैवं व्याख्या--धियो बुद्धे रान्ध्यं ध्यान्ध्यं जाड्यम्, परं नायं पौराणिकः । संहृतेत्यादि । संहृतविकल्पावस्थायां संनिहितार्थविषयविशददर्शनाभिधानेनेन्द्रियजबोधस्य विकल्परूपतां निरस्यति, तथा हि--इन्द्रियजो घटादिबोधो विकल्परूपो न भवति, संहृतसकल विकल्पस्यापि पुसो जायमानत्वात्, य: पुनर्विकल्परूपो नासो संहृतसकलविकल्पस्य जायते, यथा मनोराज्यादिविकल्पः, न चायं संहृतसकलविकल्पस्य न जायते, तस्माद् विकल्परूपो न भवतीत्यत्रानुमानम् । विकल्परूपताभ्युपगमे संहृतसकल विकल्पस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414